नाटकचन्द्रिका · श्लोक 45-66
अथ सन्ध्य्-अङ्गानि --
मुख्य-प्रयोजन-वशात् कथाङ्ग्.नां समन्वये ।
अवान्तरार्थ-सम्बन्धः सन्धोः सन्धान-रूपकः
मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।
पञ्चैते सन्धयस् तेषु मुख-लक्षणम् उच्यते
अथ मुखम् --
मुखं बीज-समुत्पत्तिर् नानार्थ-रस-सम्भवा ।
अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः
राधा-माधवयोर् अत्र प्रेम-बीज-समुद्भवः ।
सूचितः सौष्टवात् तत्र यथा ललित-माधवे
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना
उद्भेद-भेद-करणान्य् एषां लक्षणम् उच्यते ।
तत्रोपक्षेपः --
उपक्षेपस् तु बीजस्य सूचनं कथ्यते बुधैः
यथा ललित-माधवे प्रथमेऽङ्के (1.14)
पौर्णमासी -- (हन्त राधा-माधवयोर् इति पठित्वा) वत्से गार्गि श्रूयताम् ।
कृष्णापाङ्ग-तरङ्गित-द्युमणिजासम्भेद-वेणीकृते
राधायाः स्मित-चन्द्रिका-सुरधुनी-पुरे निपीयामृतम् ।
अन्तस् तोष-तुषार-सम्प्रवलव-व्यालीढतापोच्चयाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वम् अध्यास्महे ॥
अत्र राधा-माधवयोर् अनुराग-बीजस्य सूचनम् उपक्षेपः ।
अथ परिकरः --
बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः ।
यथा तत्रैव (1.24) --
गार्गी (संस्कृतेन)
ह्रियम् अवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा ।
सा जयति निसृष्टार्थी वर-वंशज-काकली दूती ॥
अत्र वनाकर्षणादिना अनुराग-बीजस्य बहुलीकरणात् परिकरः ॥
अथ परिन्यासः --
बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते
यथा तत्रैव प्रथमेऽङ्के --
राधा (सरोमाञ्चम्): ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ
अदिधीहोन्तेण उम्मतीकिज्जह्मि ॥ [ललिते, कः खलु कृष्ण इति श्रूयते? येन केवलं
कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहम् ।]
अत्र उन्मत्तीकरणेन बीज-निष्पत्तिकथनात् परिन्यासः ।
अथ विलोभनम् --
नायकादि-गुणानां यद् वर्णनं तद् विलोभनम् ।
यथा तत्रैव प्रथमेऽङ्के --
तत्र कृष्णः (सन्निधाय)
समीक्ष्य तव राधिके वदन-बिम्बम् उद्भास्वरं
त्रपा-भर-परीत-धीः श्रयितुम् अस्य तुल्य-श्रियम् ।
शशी किल कृसीभवन् सुरधुनी-तरङ्गोक्षितां
तपस्यति कपर्दिनः स्फुट-जटाटवीम् आस्थितः ॥
तत्र राधा-सौन्दर्य-गुण-वर्णनाद् विलोभनम् ।
अथ युक्तिः --
सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते
यथा तत्रैव (पर 1.111-2)--
यशोदा -- भअदि चन्दाअली णोमालिआ राहा माहरिअ सब्बाओ मह आसाओ
गुणासोहर-पूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्त-भिङ्गं
सोन्दर-मरन्देण आणन्देइ ॥ [भगवति चन्द्रावली नव-मालिका राधा माधवी
च सर्वथा मम आशा गुण-सौरभ-पूरेण पूरयति । तत्रापि वत्स इव वत्सा
लघ्वी नेत्र-भृङ्गं सौन्दर्य-मकरन्देन आनन्दयति । ]
भगवती: गोकुलेश्वरि । सर्वेषां गोकुल-वासिनां ईदृग् एव समुदाचार इति ।
अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः ।
अथ प्राप्तिः --
प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते
यथा तत्रैव (1.51) --
तत्र कृष्णः (पुनर् उत्कर्णो भवन् सपुलकम्)
मधुरिम-लहरीभिः स्तम्भयत्य् अम्बरे या
स्मर-मद-सरसानां सारसानां रुतानि ।
इयम् उदयति राधा-किङ्किनी-झङ्कृतिर् मे
हृदि परिणमयन्ती विक्रियाडम्बराणि ॥
अत्र राधा-झङ्कृति-श्रवणात् कृष्णस्य सुख-सम्प्राप्तिः प्राप्तिः ।
अथ समाधानं --
बीजस्य पुनर् आधानं समाधानम् इहोच्यते
यथा तत्रैव --
राधा (सास्रं): कुन्दलैए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं
बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम
तस्यैकस्यापि हत-नेत्रस्य मार्गं क्षणम् अपि आरोहिष्यति स मे धन्यस्य
कर्णस्यातिथिः ।]
अत्र स्वयं राधया पुनर् अनुराग-बीजस्याधानात् समाधानम् ।
अथ विधानं --
सुख-दुःख-करं यत् तु तद्-विधानं बुधा विदुः
यथा तत्रैव द्वितीयाङ्के --
राधिका - (दूरतः कृष्णम् ईषद् अवलोक्य, जनान्तिकं संस्कृतेन)
सहचरि निरातङ्कः कोऽयं युवा मुदिर-द्युतिर्
व्रज-भुवि कुतः प्राप्तो माद्यन्-मतङ्गज-विभ्रमः ।
अहह चटुलैर् उत्सर्पद्भिर् दृग-अङ्चल-तस्करैर्
मम धृतिर्-धनं चेतः-कोषाद् विलुण्ठयतीह यः ॥ (2.11)
(पुनर् अवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हआरिणं
दट्ठूण विक्खुहिदं मह हदहिअअम् । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब
पराअचित्तम् । [ह धिक् हा धिक् प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं
ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हत-हृदयम् । तद् एतस्य महा-पापस्य
अग्नि-प्रवेश एव प्रायश्चित्तम् ।]
ललिता : हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं
कथयसि, तन् नूनं सवर्णत्वं भ्रमयति ।]
राधिका : (पुनर् निभाल्य, संस्कृतेन) -
सहचरि हरिर् एष ब्रह्म-वेशं प्रपन्नः
किम् अयम् इतरथा मे विद्रवत्य् अन्तरात्मा ।
शशधर-मणि-वेदी स्वेद-धारां प्रसूते
न किल कुमुद-बन्धोः कौमुदीम् अन्तरेण ॥ (2.12)
अत्र राधायाः कृष्ण-बुद्ध्या विप्रबुद्ध्या च सुख-दुःख-कथनाद् विधानम् ।
अथ परिभावना -
श्लाघ्यैश् चित्त-चमत्कारो गुणौघैः परिभावना
यथा तत्रैव प्रथमेऽङ्के --
राधा (सचमत्कारं संस्कृतेन) -
कुल-वरतनु-धर्म-ग्राव-वृन्दानि भिन्दन्
सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः
युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा
मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ 52 ॥
ललिता: हला, सो एसो दे पराण-नाधो । [हला, स एष ते प्राणनाथः ।]
राधा: (सोन्मादं पुनः संस्कृतेन)
स एष किम् उ गोपिका-कुमुदिनी-सुधा-दीधितिः
स एष किम् उ गोकुल-स्फुरित-यौवराज्योत्सवः ।
स एष किम् उ मन्-मनः-पिक-विनोद-पुष्पाकरः
कृशोदरि दृशोर् द्वईम् अमृत-वीचिभिः सिञ्चति ॥ (1.53)
अत्र कृष्णस्य वैदग्ध-सौन्दर्यादि-गुण-निदर्शनेन च
राधा-चमत्कार-कथनात् परिभावना ।
अथोद्भेदः -
बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः
यथा तत्रैव द्वितीयाङ्के -
राधिका (अपवार्य, संस्कृतेन)
चलाक्षि-गुरु-लोकतः स्फुरति तावद् अन्तर्भयं
कुल-स्थितिर् अलं तु मे मनसि तावद् उन्मीलति ।
चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं
न यावद् अपरोक्षताम् इदम् अपैति वक्त्राम्बुजम् ॥ (2.26)
अत्रादौ संवृत्तस्यानुराग-बीजस्य स्वमुखेनैवोध्घातनाद् उद्भेदः ।
अथ भेदः
बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम्
यथा तत्रैव -
कुन्दलता - राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं सअं विक्खाबिदेण । [राधे,
जाने सस्खलितं तव सती-व्रतं, तद् अलं स्वयं विख्यापितेन । ]
विशाखा - (स-प्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए
तिण्णि-सञ्झं आअड्ढीअदि ? [राधे, का खल्व् अपरा त्वाम् इव वंश्या त्रिसन्ध्यम्
आकृष्यते ।]
कुन्दलता (सनर्म-स्मितं, संस्कृतेन) -
ददामि सदयं सदा विशद-बुद्धि-राशीः-शतं
भवादृशि पतिव्रता-व्रतम् अखण्डितं तिष्ठतु ।
श्रुतैर् निखिल-माधुरी-परिणतेऽपि वेणु-ध्वनौ
मनः सखि मनाग् अपि त्यजति वो न धैर्यं यथा ॥ (2.20)
अत्र कुन्दलतया राधादि-प्रेमस्योत्तेजनाद् भेदनाच् चात्मनस् ताभ्यो भेदः ।
अथ करणम् -
प्रस्तुतार्थ-समारम्भं करणं परिचक्षते
यथा, तत्रैव -
कुन्दलता -(संस्कृतेन)
त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला-
न्य् अनङ्ग-समराङ्गणे परम-सांयुगीना भव ।
विवस्वद्-उदये भवद्-विजय-कीर्ति-गाथावली
पुरः स्कहि मुरद्विषः सहचरीभिर् उद्गीयताम् ॥ 2.24 ॥
अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भ-कथनात् करणम् ।
अथ प्रतिमुख-सन्धिः -
भवेत् प्रतिमुखं दृश्यं बीज-प्रकाशनम् ।
बिन्दु-प्रयत्नोपगमाद् अङ्गान्य् अस्य त्रयोदश
विषमात्यन्त-विश्लेषाद् राधामाधवयोर् इह ।
दृश्यादृश्यं प्रेम-बीजं यथा ललित-माधवे
विलासः परिसर्पश् च विधुतं शमनर्मणी ।
नर्म-द्युतिः प्रगमनं विरोधः पर्युपासनम् ।
पुष्पं वज्रम् उपन्यासो वर्ण-संहार इत्य् अपि
तत्र विलासः -
विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः
यथा तत्रैव चतुर्थाङ्के -
माधवः - (अधरे वेणुं विन्यस्य) -
अक्ष्णोर् बन्धुं हरि-हय-हरिन्-नागरि-प्राग्-अरिक्तां
रोगेणाविष्कुरु गुरु-रुचं भानवीयां नवीनाम् ।
चक्राभिख्यः किम् अपि विरहाद् आकुलः काकू-लक्षं
कुर्वन् मुख्यस् त्वयि स वयसाम् अर्थिभावं तनोति ॥4.22॥
अत्र माधवस्य सङ्गमार्थ-व्यापार-कथनाद् विलासः ।
अथ परिसर्पः -
स्मृतिर् नष्टस्य बीजस्य परिसर्प इति स्मृतः
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0