नाटकचन्द्रिका · श्लोक 25-44
यथा केशव-चरिते --
उल्लासयन् सुमनसां परितः कलापं
संवर्धयन् सपदि वैभवम् उद्धवस्य ।
धीरं नुमेर् अपि मनो मदयन् समन्ताद्
आनन्दनो मिलति सुन्दरि माधवोऽयम् ॥
इति निष्क्रान्तौ ततः प्रविशति माधवः ।
यथा वा विदग्ध-माधवे (1.10) --
सोऽयं वसन्त-समयः समियाय यस्मिन्
पूर्णं तम् ईश्वरम् उपोढ-नवानुगागम् ।
गूढ-ग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥
अथ प्रयोगातिशयः --
एषोऽयम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः ।
प्रेवेश-सूचनं यत्र प्रयोगातिशयो हि सः
यथा ललित-माधवे (4.16) गर्भाङ्के --
वृद्धया शश्वद्-आरब्ध-निरोधाम् अपि राधिकाम् ।
निराबाधं सदा साधु रमयत्य् एष माधवः ॥
अथोद्घात्यकम् --
पदानि त्व् अगतार्थानि तद्-अर्थ-गतये नराः ।
योजयन्ति पदैर् अन्यैस् तद् उद्घात्यकम् उच्यते
यथा ललित-माधवे (1.11) --
नटता किरात-राजं निहत्य रङ्ग-स्थले कलानिधिना ।
समये तेन विधेयं गुणवति तारा-कर-ग्रहणम् ॥
(नेपथ्ये) हन्त राधा-माधवयोः पाणिबन्धं कंस-भूपतेर् भयाद्
अभिव्यक्तम् उदाहर्तुम् असमर्थो नटता किरात-राजम् इत्य् उपदेशेन बोधयन्
धन्यः कोऽयं चिन्ता-विक्लवां माम् आश्वासयतीति तत्र पौर्णमासी-प्रवेशः ॥
अथावलगितम् --
यत्रैकस्मिन् समावेश्य कार्यम् अन्यत् प्रसाध्यते ।
पुरानुरोधात् तज् ज्ञेयं नाम्नावगलितं बुधैः
यथा कंस-वधे --
नटराज-पुरुषोत्तम कथं विलम्बसे ।
(नेपथ्ये) भोः कस् त्वम् असि यद् अत्र मां त्वरयसि ।
सूत्रधारः -- कथम् अयं गोपाल-वेशो भगवान् उपस्थित एव पश्य पश्य
इत्यादि ॥
शृङ्गार-प्रचुरे नाट्ये युक्तम् आमुखम् एव हि ।
वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते
अत एवामुखं तत्र भवेल् ललित-माधवे ।
प्रस्तावना-स्थापने द्वे आमुखस्यापरे भिदे ।
इत्य् आख्याय स्फुटं केचित् तयोः कुर्वन्ति लक्षणम्
यथा -
नटी-विदूषक-नट-सूत्र-संलाप-सङ्गतम् ।
स्तोक-वीथ्यादि-सहितं भवेत् प्रस्तावनामुखम् ॥
सर्व-वीथ्यादि-सहितं तद् एव स्थापनोच्यते ।
वीराद्भुतादि प्रायेषु भवेत् प्रस्तावनोचिता ॥
हास्य-बीभत्स-रौद्रादौ प्रायेण स्थापना मतेति ।
वीथी-प्रहसने द्वे तु रूपकाणां भिदे स्मृते ॥
अथ सन्धिः --
एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।
योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः
तत्र प्रकृतिः --
पाञ्चविध्यात् कथायास् तु प्रकृतिः पञ्चधा स्मृता ।
बीजं बिन्दुः पताका च प्रकरी कार्यम् एव च
तत्र बीजम् --
यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् ।
कार्यस्य कारणं धीरैस् तद् बीजम् इति कथ्यते
यथा ललित-माधवे प्रथम-द्वितीययोर् अङ्कयोः कल्पिते मुख-सन्धौ निरूढो
राधा-माधवयोर् अनुरागो बीजम् उच्यते ।
अथ बिन्दुः --
फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।
विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते
यथा तत्रैवे तृतीय-चतुर्थयोः कल्पित प्रतिमुख-सन्धौ
कृष्ण-पुर-गमनादिना मुख्य-फले विच्छिन्ने तेनैव समाशासनं एतास् तूर्णं
नयत कियतीः इत्य् आदि सूर्य-वाक्य-श्रवण-जनित-कृष्ण-प्रत्याशां नीरे
मङ्क्षु-मिमङ्क्षुम् (4.10) इत्याद्युक्त्या गर्भाङ्कश् च बिन्दुः ।
अथ पताका --
यत् प्रधानोपकरणं प्रसङ्गात् स्वार्थम् ऋच्छति ।
सा पताका बुधैः प्रोक्ता यादवामात्य-वृत्तवत्
यथा तत्रैव पञ्चम-षष्ठ्योः कल्पिते गर्भ-सन्धौ
पौर्णमास्य्-उद्धव-वृत्तं पताका ।
अथ प्रकरी --
यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।
प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत्
यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्ष-सन्धौ यथा
नव-वृन्दादि-कुलादि-वृत्तं प्रकरी ॥
अथ कार्यं --
वस्तुनस् तु समस्तस्य साध्यं कार्यम् इति स्मृतम् ।
राधा-माधवयोः सङ्गो यथा ललित-माधवे
यथात्र नवम-दशमयोः कल्पिते निर्वहःअण-सन्धौ राधा-माधवयोः
पुनः सङ्गम-पुरःसर-क्रीडादि ॥
प्रधानम् अङ्गम् इति च तत् तु स्याद् द्विविधं पुनः ।
प्रधानं नेतृ-चरितं व्यापि कृष्णस्य चेष्टितम्
नायकार्थं कृदङ्गं स्यात् नायकेतर-चेष्टित्म् ।
नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित्
बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः ।
तयोः सन्धान-हेतुत्वात् मध्ये बिन्दुं मुहुः क्षिपेत्
यथायोगं पताकायाः प्रकार्याश् च निवेशनम्
अतएव बिन्दुर्, यथा पञ्चमे (लल्म् 5.23) --
स्फुरन्-मणि-सराधिकं नवतमाल-नीलं हरेर्
उदूढ-नव-कुङ्कुमं जयति हारि बक्षः-स्थलम् ।
उडु-स्तवकितं सदा तडिद्-उदीर्ण-लक्ष्मी-भरं
यद् अभ्रम् इव लीलया स्फुणम् अदभ्रम् उद्भ्राजते ॥
एवं षष्ठ-सप्तमादिष्व् अपि बिन्दुर् द्रष्टव्यः ॥
अथावस्था --
कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् ।
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः
तत्रारम्भः --
बुधैर् मुख्य-फलोद्योग आरम्भ इति कथ्यते ।
यथा ललित-माधवे मुख-सन्धौ राधा-माधवयोर् अन्योन्य-सङ्गमाय
व्यवसाय आरम्भः ।
अथ यत्नः --
यत्नस् तु तत्-फल-प्राप्ताव् औत्सुक्येन तु वर्तनम्
यथा तत्रैव प्रतिमुख-सन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च
गन्धर्व-कृत-नृत्यादौ राधावलोकायोद्यमो यत्नः ।
अथ प्राप्त्य्-आशा
प्राप्त्य्-आशा तु निजार्थस्य सिद्धि-सम्भावना मता ॥
[*नोते: सिद्ध-सद्-भावना मता.]
तथा च मुनिनाप्य् (19.11) उक्तम् --
ईषत् प्राप्तिर् यदा काचित् फलस्य परिकल्प्यते ।
भाव-मात्रेण तं प्राहुर् विधिज्ञाः प्राप्ति-सम्भवम् ॥
यथा, तत्रैव गर्भ-सन्धौ राधायाः सत्राजिति समर्पण् कृष्णस्य च
ललिता-शङ्खचूड-रत्नादि-लाभादिना सम्भावनायोग्यत्वात् प्राप्त्याशा ।
अथ नियताप्तिः --
नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः ।
यथा, तत्रैव विमर्श-सन्धौ राधा-दर्शनाद् अविघ्नेन फल-संसिद्धि-निशयान्
नियताप्तिः ।
अथ फलागमः --
निजाभीष्ट-फलावाप्तिर् भवेद् एव फलागमः
यथा तत्रैव निर्वहण-सन्धौ
व्रज-बन्धु-समागम-राधा-लाभ-रत्नाभिषेकादिः फलागमः ।
पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।
पताकया विहीने तु बीज-बिन्दू निवेशयेत्
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0