भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 1-24

1

नाटकचन्द्रिका
श्री-श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।
वीक्ष्य भरत-मुनि-शास्त्रं रसपूर्वसुधाकरं च रमणीयम् ।
लक्षणम् अति-संक्षेपाद् विलिख्यते नाटकस्येदम्

2

नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च ।
साहित्य-दर्पणीया न गृहीता प्रक्रिया प्रायः

3

दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतम् ।
धीरेणाढ्यम् उदात्तेन कृष्णश् च ललितेन च

4

शृङ्गार-वीरान्यतर-मुख्यं रम्येऽनिवृत्तयुक् ।
प्रस्तावनान्त-सम्बन्धं सन्धि-सन्ध्य्-अङ्ग-सङ्गतम्

5

सन्ध्यन्तरैकविंशत्या षट्-त्रिंशद्-भूषणैर् युतम् ।
पताका-स्थानकैर् युक्तम् अथोपेक्षेपकैस् तथा

6

भाषाविधान-संयुक्तं सत्काव्य-गुण-गर्भितम् ।
नाटकं दोष-रहितं सर्वामन्द-प्रदायकम्

7

तत्र नायकः --
स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिर् ईरितः ।
दिव्योऽपि नर-चेष्टत्वाद् दिव्यादिव्यो रघूद्वहः

8

अदिव्यो धर्म-पुत्रादिर् एषु कृष्णो गुणाधिकः ।
नायकानां गुणाः सर्वे यत्र सर्व-विधाः स्मृताः

9

लालित्यौदत्त्ययोर् अत्र व्यक्ता शोभाभरोऽधिकः ।
तेनैष नायको युक्तः शृङ्गारोत्तर-नाटके

10

यत्-परोढोपपत्योस् तु गौणत्वं कथितं बुधैः ।
तत् तु कृष्णं च गोपीश् च विनेति प्रतिपादितम्

11

तथा चोक्तम् रस-विलासे (सुदेव-कृते) --
नेष्टा यद् अङ्गिनि रसे कविभिः परोढा
तद् गोकुलाम्बुज-दृशां कुलम् अन्तरेण ।
आशंसया रस-विधेर् अवतारिकाणां
कंसारिणा रसिक-मण्डल-शेखरेण

12

अथ रसाः --
रसाः शृङ्गार-वीराद्या ज्ञेया रस-सुधार्णवे ।
अन्ये हास्यादयः कार्या अस्मिन्न् अङ्गतया बुधैः

17

अथेतिवृत्तम् --
इतिवृत्तं भवेत् ख्यातं क् प्तं मिश्रम् इति त्रिधा ।
शास्त्र-प्रसिद्धं ख्यातं स्यात् क् प्तं कवि-विनिर्मितम् ।
तयोः सङ्कुलता मिश्रं क् प्तं रम्यं तु नाटके ।
नाटकं ख्यात-वृत्तं स्यात् क् प्त-वृत्ता तु नाटिका ।
ईहामृगो मिश्र-वृत्त इति नाट्याङ्ग-भाषितम् ॥
अथ प्रस्तावना --
अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥
आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमान्विता ।
अष्टभिर् दशभिर् युक्ता किं वा द्वादशभिः पदैः ॥
चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ।
मङ्गलं चक्र-कमल-चक्रोर-कुमुदादिकम् ॥
तत्राशीर्-अन्विता, यथा ललित-माधवे (1.1) --
सुररिपु-सुदृशांम् उरोज-कोकान्
मुख-कमलानि च खेदयन् नखण्डः ।
चिरम् अखिल-सुहृत् चकोरनन्दी
दिशतु मुकुन्द-यशः-शशी मुदं वः ॥
नमस्क्रियान्विता, यथा तत्रैव (1.2)
अष्टौ प्रोक्ष्य दिग्-अङ्गना घन-रसैः पत्राङ्कुराणां श्रिया
कुर्वन्-मञ्जुलता-भरस्य च सदा रामावली-मण्डनम् ।
यः पीने हृदि भानुजाम् अतुलभां चन्द्राकृतिं चोज्ज्वलां
रुन्धानः क्रमते तम् अत्र मुदिरं कृष्णं नमस्कुर्महे ॥
वस्तु-निर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिर् एव ।
अष्टपद-युक्ता यथा वीर-चरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः
श्लोकः)-
अन्तः-स्वच्छाय नित्याय देवाय हृत-पाप्मने ।
त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः ॥
कश्चिद् अष्ट-पदां पादैर् अष्टभिः पद्ययोर् जगौ

18

दशपदान्विता यथा अभिराम-राघवे --
क्रियासु कल्याणं भुजग-शयनाद् उत्थितवतः ।
कटाक्षाः कारुण्य-प्रसर-रस-वेणी-लहरयः ।
हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः
सुधासार-स्मेराः सुचरित-विशेषैक-सुलभाः ॥
द्वादश-पदान्विता यथा सुर-रिपु-सुदृशाम् उरोज-कोकान् इत्यादि (लल्म् 1.1) ।
अत्रैव चन्द्र-नामाङ्किता मङ्गलार्थता चास्ति ।
भारत्य् अत्रोचिता वृत्तिर् एषा तु चतुरङ्गिका ।
प्ररोचना मुखे चैव वीथी-प्रहसने तथा

19

तत्र प्ररोचना --
देश-काल-कथा-नाथ-सभ्यादीनां प्रशंसया ।
श्रोतॄणाम् उन्मुखीकारः कथितेयं प्ररोचना

20

यथा ललित-माधवे (1.7) --
सूत्रधारः । किम् इत्य् एवम् उच्यते । पश्य पश्य --
चकास्ति शरद्-उत्सवः स्फुरति वैष्णवानां सभा
चिरस्य गिरिर् उत्द्गिरत्य् अमल-कीर्तिधारां हरेः ।
किम् अन्यद् इह माधवो मधुर-मूर्तिर् उद्भासते
तद् एष परओदयस् तव विशुद्ध-पुण्य-श्रियः ॥
अथ आमुखम् --
सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः ।
प्रस्तुताक्षेपि चित्रोक्त्या यत् तद् आमुखम् ईरितम्

21

यद् आमुखम् इति प्रोक्तं सैव प्रत्सावनोच्यते ।
पञ्चामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकम्

22

प्रयोगातिशयश् चेति तथा वीथ्य्-अङ्ग-युग्मकम् ।
उद्घात्यकावलगित-सङ्गकं मुनिनोदितम्

23

तत्र कथोद्घातः --
सूत्रिवाक्यं तद्-अर्थं वा स्वेतिवृत्तसमं यदा ।
स्वीकृत्य प्रविशेत् पात्रं कथोद्घातः स कीर्तितः

24

यथा हरिविलासे --
निरुपम-महिम-धुराणां जगती-दुर्बोध-भावानाम् ।
लोकोत्तर-चरितानां हृदयं को ज्ञातुम् ईशति ॥
(नेपथ्ये) हन्त भोः सत्यम् आत्थ लोकोत्तर-चरितानां हृदयं को ज्ञातुम्
ईशतीति ॥
अथ प्रवर्तकम् --
आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम्

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc