नाटकचन्द्रिका · श्लोक 248-268
वस्तूत्थापन-सम्फेटाव् इत्य् आह भरतो मुनिः ।
तत्र सङ्क्षिप्तिः -
सङ्क्षिप्तिर् उक्ता सङ्क्षिप्त-वस्तु-सृष्टिर् महाद्भुता
यथा-
विधिना हते शिशु-कुले तादृशम् अपरं हरिस् तथा व्यतनोत् ।
विरमतु परस्य वार्तां स्वयम् एव विसिस्मये स यथा ॥
अथावपातनम् -
विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः ।
यथा -
निघ्नन् विघ्नम् इवाग्रतः कुवलयापीडं मृदु-क्रीडया
तुङ्गां रङ्ग-भुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः ।
दृप्यन्-मल्ल-दवाम्बुदश् चल-दृशा क्षुद्रान् अपि द्रावयन्
पश्याराद् गरुडायते सरुडयं कंसोरगे केशवः ॥
अथ वस्तूत्थापनम् -
तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम्
यथा -
दौर्जन्यानि हृदि स्फुटानि कपट-स्नेहेन संवृण्वती
माया-कल्पित-सुन्दरी मधुरिमा लेभे व्रजं पूतना ।
तस्याः सुष्ठु तथा पयोधर-रसः प्रीतः शिशु-क्रीडया
वैकुण्ठेन हठाद् यथा न स पुनः मातुस् तथा पास्यते ॥
अथ सम्फेटः -
सम्फेटः स्यात् समाघातः क्रुद्ध-सङ्क्रुद्धयोजितः
यथा -
चाणूर-मल्लेन यथा मुरारेर्
अन्योन्यम् आसीद् गुरु-सम्प्रहारः ।
कंसस्य येनानकदुन्दुभेश् च
सन्ताप-चिन्ताभिर् उरः पफाल ॥
अथ सात्वती -
सात्त्विकेन गुणेन्पै त्याग-शौर्यादिना युता ।
हर्ष-प्रधाना निःशोका सात्वती परिकीर्तिआत्
अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि ।
सङ्घात्य-परिवर्तौ चेत्य् एषां लक्षणम् उच्यते
अथ संलापः -
ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः ।
परस्परं गभीरोक्तिः संलाप इति कीर्त्यते
यथा -
वयं बालास् तुल्यैः सह रचयितुं युद्धम् उचितं
पुरो यूयं मल्लाः प्रकटित-करालाचल-रुचः ।
मदेनोन्मत्तानां मृदुल-तनुभिः कः कलभकैः
करीन्द्राणां धीरः परिणमन-रङ्गं रचयति ॥
अवितथम् असि बालः काल-रूपं विभिन्दन्
द्विरद-पतिम् उदग्रं बाल-विक्रीडयैव ।
इह किल भुज-युद्ध-प्रस्तुतेर् उच्चलेयं
तव तनु-कृत-सख्या साक्षिणी बाल-राजिः ॥
अथोत्थापकः -
प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः ।
यथा -
लुञ्छन्न् अस्मि पुरस् त्रिविष्टप-पुरी-सौभाग्य-सार-श्र्यं
गीर्वाण्श्वर-पारिजातम् अमरीकन्दर्प-सन्दर्पदम् ।
पौलोमी-कुच-कुम्भकेलि-मकरी-व्यापार-वैज्ञानिकः
पाणिस् तेन हि दक्षिणः कथम् असुअ दम्भोलिम् उद्यच्-छते ॥
अथ सङ्घात्यः -
प्रभाव-मन्त्र-देवाद्यैः सङ्घात्यः सङ्घ-भेदनम्
तत्र प्रभावेन, यथा -
दुकूलं धुन्वाना जय-जय-जयेत्य् उच्च-भणितिः
स्थिता रङ्गाभ्यर्णे प्रणय-गरिमोद्दामित-मुखी ।
प्रभावं पश्यन्ती कम् अपि कमनीयाद्भुत-रसं
हरेः कंसोपेक्षां वधित बत साक्षान् मधुपुरी ॥
मन्त्रेण, यथा -
निशम्य युक्तिं दनुजार्दनस्य
गोवर्धनाराधन-बद्ध-रागाम् ।
आभीर-गोष्ठी रभसेन सर्वा
गीर्वाण-राजस्य मखाद् व्यरंसीत् ॥
अथ परिवर्तकः -
प्रारब्ध-कार्याद् अन्यस्य करणं परिवर्तकः ।
यथा -
व्रजभुवि गुरु-गर्वात् कुर्वतस् तीव्र-वृष्टिं
हृदि भवद्-अनुभावाद् अद्य-भीतिर् ममासीत् ।
त्वम् असि किल कृपालुर् दोग्धु-कामोऽपि कामं
तद् इह मयि शरण्ये गोकुलेन्द्र प्रसीद ॥
अथ कौशिकी -
नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः ।
समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा
हरेः केशाभिसम्बन्धात् कैशिकीति प्रथां गता ।
अङ्गान्य् अस्यास् तु चत्वारि नर्म-तत्-पूर्वका इमे
स्फञ्जः स्फोटश् च गर्भश् चेत्य् एषां लक्षणम् उच्यते ।
तत्र नर्म -
शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः
अग्राम्यः परिहासः स्यान् नर्म तत् तु त्रिधा मतम् ।
शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम्
शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम् ।
सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात्
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः
तत्र वाचा, यथा पद्यावल्याम् (207)
गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः ॥
वेशेन यथा रसार्णव-सुधाकरे (1.273) -
अभ्युद्यते शशिनि पेशल-कान्त-दूती
सन्ताप-संवलितमानस-लोचनाभिः ।
अग्रा हि मण्डन-विधिर् विपरीत-भूषा
विन्यास-हासित-सखीजनम् अङ्गनाभिः ॥
चेष्टया, यथा -
श्यामे याम् अनुरोधसि प्रिय-सखी-वर्गान्तर-स्थायिनी
सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे ।
भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडा-निकुञ्जे मुहुः
सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिम् ॥
अनुराग-प्रकाशोऽपि भोगेच्छानर्मवत् त्रिधा ।
तत्र वाचा, यथा -
देहि कुन्दम् इति देवि वक्ष्यती
यन् मुकुन्दम् अविलम्बम् अब्रवीः ।
तावकीन-कुल-पालिका-व्रतं
तेन साम्प्रतम् अभूद् विकर-स्वरम् ॥
वेशेन, यथा -
यद् उपहससि मां सदाभिसारोत्-
सुक-हृदयाम् अभितस् तद् अत्र युक्तम् ।
वपुषि हरि-कथा-प्रसङ्ग-मात्रे
तव च कथं पुलकालिर् उन्मिमील ॥
चेस्टया, यथा -
सखि कुर्वती विविक्ते वनमाला-गुम्फनाभ्यासम् ।
विदितासि त्वम् अखण्डित-पातिव्रत्ये कृतं भणितैः ॥
तत्र वाचा, यथा -
व्रज-राज-कुमार मा कृथाः
स्तुति-मुद्राभिर् अनल्प-चातुरीम् ।
अनिमित्त-विशङ्कितेन ते
वचसाहं गुरुणास्मि बोधिता ॥
वेशेन, यथा ललित-माधवे -
चन्द्रावली (सोत्प्रास-स्मितम्) -
कज्जल-सामल-मज्झं पल्लअ-साणुज्जलं मुउंदस्स ।
गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि ॥
[कज्जल-श्यामल-मध्यं पल्लव-शोणोज्ज्वलं मुकुन्दस्य ।
गुञ्जा-फलं इवाधरं सखि पश्यन्ती प्रमोदे ॥] 9.54
चेष्टया, यथा रस-सुधाकरे (1.273) -
लोल-भ्रू-लतया विपक्ष-दिग्-उपन्यासे विधूतं शिरस्
तद् वृन्दस्य निशामनेऽकृत नमस्कारं विलक्ष-स्मितम् ।
रोषात् तामरकपोल-कान्तिनि मुखे दृष्ट्या नतं पादयोर्
उत्सृष्टो गुरु-सन्निधाव् अपि विधिर् द्वाभ्यां न कालोचितः ॥
अथ शुद्ध-हास्यजम् -
शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः
तत्र वाचा, यथा -
वृद्धे चन्द्र इति प्रतारय न माम् अज्ञासिषं मद्-भयान्
निक्षिप्तं नवनीत-पिण्डम् उपरि स्थानेऽद्य राधाम्बया ।
गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर्
इन्दु-न्यस्त-दृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् ॥
वेश-चेष्टाभ्यां, यथा -
कम्बल-कृत-वृष-वेषं भृङ्गाभृङ्गी प्रणीत-संरम्भम् ।
प्रेक्ष्य हरिं विधिर् अहसीन् मुदिर-च्छन्नो गभीरोऽपि ॥
अथ भय-हास्यजम् -
हास्याद् भयेन जनितं कथितं भय-हास्यजम् ।
तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा
मुख्यं वाचा, यथा -
शैलेन्द्रोद्धृति-लीलया किल परित्राते गवां मण्डले
तत्र स्तोत्र-विधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणम् ।
प्रत्यासीदति पश्य राक्षस-पतिः साक्षाद् अयं पाहि मां
इत्य् उत्क्रोशति मुग्ध-वल्लव-शिशौ स्मेरो हरिः पातु वः ॥
एवं वेश-चेष्टाभ्याम् अप्य् उदाहार्यम् ।
अथान्याङ्गम् । तत्र वाचा, यथा -
यद्य् उल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः
कुर्वन्न् एव कृतं त्वयेति जरती-लक्साय वक्ष्याम्य् अहम् ।
इत्य् उक्ते स्वरम् आकुलाम् इव भयाद् आलोक्य राधां पुनः
स्तब्धीभूत-गतिं हरिः स्मित-मुखः श्लिष्यन् मुदं वः क्रियात् ॥
वेषेण, यथा -
राधा-पुरः स्फुरति संविहिताभिमन्यु-
वेषे मुरद्विषि मनाग् उपलब्ध-भीतिः ।
नैसर्गिकीं प्रणयतः स्व-मनः-प्रवृत्तिं
तत्रावधार्य चतुरा स्मितम् आततान ॥
चेष्टया, यथा रस-सुधाकरे (1.275)
प्रह्लाद-वत्सल वयं बिभिमो विहाराद्
अस्माद् इति ध्वनित-नर्मसु गोपिकासु ।
लीला-मृदु स्तन-तटेषु नखाङ्कुराणि
व्यापारयन्न् अवतु वः शिखि-पिच्छ-मौलिः ॥
नर्मेदम् अष्टादशधा विस्पष्ञम् अभिदर्शितम् ।
अथ नर्म-स्फञ्जः -
नर्म-स्फञ्जः सुखोद्योगो भयार्तो नव-सङ्गमः
यथा -
साशङ्कं क्षिपतोर् दृशं प्रतिदिशं व्रीडा-जड-स्वान्तयोर्
याता क्वासि निशीति तीव्र-जरती-वाचाधिक-त्रस्तयोः ।
गोष्ठ-द्वारि निवेशितस्य कुहरे गो-ग्रन्थि-राशेस् तदा
राधा-माधवयोर् अभूत् क्वणिकरस् तस्मिन् नवः सङ्गमः ॥
अथ नर्म-स्फोटः -
नर्म-स्फोटो भाव-लेशैः सूचितोऽल्प-रसो मतः
यथा विदग्ध-माधवे -
मधुमङ्गलः (कृष्णं पश्यन् स्वगतम्) -
फुल्ल-प्रसान-पटलैस् तपनीय-वर्णम्
आलोक्य चम्पक-लता किल कम्पतेऽसौ ।
शङ्के निरङ्क-नव-कुङ्कुम-पङ्क-गौरी
राधास्य चित्त-फलके तिलकी-बभूव ॥ (2.25)
अथ नर्म-गर्भः -
नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये ।
प्रच्छादन-परो यस् तु नर्म-गर्भः स उच्यते
यथा, रस-सुधाकरे (1.279) -
श्रियो मान-ग्लानेर् अनुशय-विकल्पैः स्मित-मुखे
सखी-वर्गे गूढं कृतवसतिर् उत्थाय सहसा ।
समनेष्ये धूर्तं तम् अहम् इति जल्पन् नत-मुखीं
प्रियान्ताम् आलिङ्गन् हरिर् अरति-खेदं हरतु वः ॥
तिस्रोऽर्थ-वृत्तयः प्रोक्ता शब्द-वृत्तिस् तु भारती ।
अथैतासां चतसॄणांरसनैयत्यम् उच्यते
शान्त-वीराद्भुत-प्रीत-वत्सलेषु तु सात्वती ।
प्रेयः शृङ्गार-हास्येषु प्रोक्ता वृत्तिस् तु कैशिकी
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0