नाटकचन्द्रिका · श्लोक 228-247
अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वैव यद् वदेत् ।
इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम्
अथ भाषा-विधानम् -
नाटके तत्र पात्राणां भाषा-रूपं निरूप्यते ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः
चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तिभिः ।
आसां संस्कार-राहित्याद् विनियोगो न गद्यते
भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ।
तत्र संस्कृता -
संस्कृता देवतादीनां मुनीनां नायकस्य च
लिङ्गि-विप्र-वणिक्-क्षत्र-मन्त्रिकञ्चुकिनाम् अपि ।
अरण्य-देवी-गणिका-मन्त्रिजाधीतियोषिताम्
योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि कीर्तिता ।
तत्र प्राकृती -
षोढान्तिमा प्राकृती स्याच् छौरसेनी च मागधी
पैशाची चूलिका-पैशाच्य्-अपभ्रंश इति क्रमात् ।
अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत्
ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनाम् ।
ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम्
तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता ।
आसाम् एव तु गाथासु महाराष्ट्री स्मृता बुधैः
अत्रोक्ता मागधी भाषा राजान्तःपुर-चारिणाम् ।
तथा विदूषकादीनां चेटानाम् अपि कीर्तिता
रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् ।
अपभ्रंशस् तु चण्डालयवनादिषु युज्यते
सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः ।
माहात्म्यस्य परिभ्रंशान् मदस्यातिशयात् तथा
प्रच्छादनं च विभ्रान्तिर् यथालिखित-वाचनम् ।
कदाचिद् अनुवादं च कारणानि प्रचक्षते
नायिकानां सखी-वेश्या-कितवाप्सरसां तथा ।
वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा
स्पष्टान्य् एषाम् उदाहरणानि ।
अथ वृत्तयः -
अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः ।
जाता नारायणाद् एता मधु-कैटभयोर् वधे
नेतृ-व्यापार-रूपास् तु रसावस्थान-सूचिकाः ।
चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः
भारत्य् आरभटी चैव सात्वती कैशिकी तथा ।
तत्र भारती -
एषा वाणी-प्रधानत्वाद् भारतीति निगद्यते
प्रस्तावनोपयोगित्वात् तत्रैव परिकीर्तिता ।
स्त्री-हीना पुरुष-श्रेष्ठ-प्रयोज्या वाक्-प्रधानिका
भारती संस्कृतैर् युक्ता वृत्तिः स्याच् चतुरङ्गिका ।
अथारभटी -
मायेन्द्र-जाल-प्रचुर-चित्र-युद्ध-क्रिया-मया
आटोप-च्छेद्य-भेदाढ्या वृत्तिर् आरभटी मता ।
अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम्
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0