भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 208-227

208

असूच्यं तु शोभोदार-रस-भाव-निरन्तरम् ।
प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत्

209

असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् ।
द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः

210

स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् ।
सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः

211

सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् ।
द्विधा विभज्यते तच् च जनान्तम् अपवारितम्

212

त्रिपताक-करेणान्यान् अपवार्यान्तरा कथाम् ।
या मिथः क्रियते द्वाभ्यां तज् जनान्तिकम् उच्यते

213

रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ।
अथाङ्क-स्वरूपम् -
प्रत्यक्षनेतृ-चरितः क्षुद्र-चूर्णक-संयुतः

214

नातीवगूढ-शब्दार्थो नातिप्रचुर-पद्यवान् ।
अयुतो बहुभिः कार्यैर् बीज-संहरणेन च

215

अनेक-दिन-निर्वर्त्यकथया च विवर्जितः ।
दिनार्ध-दिनयोर् योग्य-वस्तुना परिकल्पितः

216

वधेन दूराह्वानेन युद्ध-राज्यादि-विप्लवैः ।
शापोत्सर्ग-विहाराभ्यां रत-भोजन-मृत्युभिः

217

स्नानानुलेप-निद्राद्यैश् चुम्बनालिङ्गनादिभिः ।
व्रीडा-हेतुर्भिर् अन्यैश् च बीभतैश् च विना कृतः

218

अन्त-निष्क्रान्त-निखिल-पात्रोऽङ्क इति कीर्तितः ।
अथ गर्भाङ्कः
अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया

219

अङ्कस्य मध्ये योऽङ्कः स्याद् असौ गर्भाङ्क ईरितः ।
वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः

220

अर्थोपक्षेपकैर् हीनो युतः पात्रैस् तु पञ्चषैः ।
अन्वेष्य-वस्तु-विषयः स्वाधाराङ्कान्त-शोभितः

221

नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः।
प्रथमाङ्के न कर्तव्यः सोऽयं काव्य-विशारदैः

222

चतुर्थेऽङ्के तु गर्भाङ्को यथा ललित-माधवे ।
अथ सामान्य-निर्णयः -
नाटकेऽङ्का न कर्तव्या पञ्च-न्यूना दशाधिकाः

223

विष्कम्भकाद्यैर् अपि नो वधो वाच्योऽधिकारिणः ।
अन्योन्येन तिरोधानं न कुर्याद् रस-वस्तुनोः

224

यत् स्याद् अनुचितं वस्तु नायकस्य रसस्य वा ।
विरुद्धं तत् परित्याज्यम् अन्यथा वा प्रकल्पयेत्

225

अविरुद्धं च यद् वृत्तं रसाभिव्यक्तयेऽधिकम् ।
तद् अप्य् अन्यथयेद् धीमान् न वदेद् वा कदाचन

226

लास्याङ्गानि दश तथा वीथ्य्-अङ्गानि त्रयोदश ।
अङ्केष्व् अपि निबध्यानि केचिद् एवं प्रचक्सते

227

प्रायस् तान्य् अपि सन्त्य् एव तस्मिन् ललित-माधवे ।
क्वचिद् अत्र विनिष्पाद्यं धीरैर् आकाश-भाषितम्

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc