भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 188-207

188

तत्राद्यं त्रिप्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ।
एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः

189

तत्राद्यम् -
सहसिअवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम्

190

यथा ललित-माधवे सप्तमे -
राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्) -
दग्धं हन्त दधानया वपुर् इदं यस्यावलोकाशया
सोढा मर्म-विपाटने पटुर् इयं पीडातिवृष्टिर् मया ।
कालिन्दीय-तटी-कुटीर-कुहर-क्रीडाभिसार-व्रती
सोऽयं जीवित-बन्धुर् इन्दु-वदने भूयः समालिङ्गितः ॥ 7.18 ॥
अत्र प्रतिबिम्बे सोऽयं जीवित-बन्धुर् इत्य् उपचार-प्रयोगेण भाविनः कृष्णस्य
सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदं पताका-स्थानकम् ।
अथ द्वितीयम् -
वचः-सातिशय-श्लिष्टं काव्य-वस्तु-साश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम्

191

यथा द्वितीयेऽङ्के - कृष्णः -
स्मर-रोधनानुबन्धी क्रम-विस्तारित-कला-विलास-भवः ।
क्षणदा-पतिर् इव दृष्टः क्षण-दायी राधिका-सङ्गः ॥ (2.17)
(नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस् ते विप्रकर्षतः । 90
कृष्णः - (सव्यथम् उच्चैः) भोः कोऽयं दुर्लभः? 91
(पुनर् नेपथ्ये)
यत्नाद् अन्विष्यमाणोऽपि वल्लवैः पशु-मण्डलः ॥ (2.18) 92
अत्र भविष्यतो राधा-सङ्गम-दुर्लभत्वस्य सूचनाद् इदं श्लिष्टं नाम
द्वितीयं पताका-स्थानकम् ।
अथ तृतीयम् -
अर्थोपक्षेपणं यत् तु लीनं सविनयं भवेत् ।
श्लिष्टोत्तर-युतं नाम तृतीयं परिकल्पितम्

192

यथा सप्तमे, कृष्णः -
(सर्वतः प्रेक्ष्य) प्रिय-वयस्य! कियद् दूरे सा वृन्दाटवी ?
मधुमङ्गलः (संस्कृतेन) -
स्फुटच्-चटुल-चम्पक-प्रकर-रोचिर् उल्लासिनी
मदोत्तरल-कोकिलावलि-कल-स्वरालापिनी ।
मराल-गति-शालिनी कलय कृष्ण-साराधिका
(इत्य् अर्धोक्ते)
कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ?
मधुमङ्गलः (अङ्गुल्या दर्शयन्)
पुरः स्फुरति वल्लभा तव -
कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तद् आशु दर्शय । क्व सा मे
राधिका ?
मधुमङ्गलः -- ... मुकुन्द वृन्दाटवी ॥ (7.17)
अत्र सज्जल्पितेन मधु-मङ्गल-वाक्येन भाविनो राधा-दर्शनस्य
सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताका-स्थानम् ।
अथ दर्शनम् -
द्व्यर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
उपन्यासेन युक्तस् तु चतुर्थं परिकीर्तितम्

193

यथा पञ्चमे सुपर्णः -
नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर्
महित-कुवलयाक्षी कीर्ति-शुभ्रांशु-वक्त्रा ।
नृपकुलम् इह हित्वा चेदि-राज-प्रधानं
मुरदमन गमिष्यत्य् उत्सुकां त्वां जय-श्रीः ॥ (5.28)
अत्र सुपर्णस्य द्व्यर्थ-वचनेन चन्द्रावली-प्राप्ति-सूचनात् तुल्य-विशेषणम् ।
अथार्थोपक्षेपकाः -
वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।
रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते

194

अदर्शनीयम् अङ्के तद् अवश्यं वाच्यम् एव चेत् ।
अर्थोपक्षेपकैर् एतत् सूचयेत् सुष्ठु पण्डितः

195

विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकैः ।
अथ विष्कम्भः -
भवेद् विष्कम्भको भूत-भावि-वस्त्व् अंश-सूचकः

196

अमुख्य-पात्रैः सङ्क्षेपाद् आदाव् अङ्कस्य दर्शितः ।
स शुद्धो मिश्र इत्य् उ क्तो मिश्रः स्यान् नीच-मध्यमैः

197

विदग्ध-माधवे यद्वद् द्वितीयाङ्क-मुखे कृतः ।
मुखरायुक्तया नानीद्मुख्यासौ मिश्र-संज्ञकः

198

शुद्धः केवल-मध्येऽयम् एकानेक-कृतो भवेत् ।
विनिर्मितो बहुत्रायं तस्मिन् ललित-माधवे

199

अथ चूलिका -
प्राज्ञैर् यवनिकान्तःस्थैर् अदृश्यैर् या तु निर्मिताः ।
आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा भवेत्

200

स्पष्टं बहुत्रोदाहरणम् ।
अथाङ्कास्यम् -
यत्र स्याद् अङ्क एकस्मिन्न् अङ्कानां सूचनाखिला ।
तद्-अङ्कास्यम् इति प्राहुर् बीजार्थ-ख्यापकं च यत्

201

गार्गी-संयुक्तया पौर्णमास्या ललित-माधवे ।
प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम्

202

केचित् तु -
पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः ।
सूचनं तद् अविच्छेद्यैर् यत् तद् अङ्कास्यम् ईरितम्

203

इति लक्षयन्ति ।
एतद्-अङ्कावतारेण गतार्थत्वात् तु केचन ।
प्रथमोक्तार्थम् एवेदं वदन्त्य् अङ्क-मुखं बुधाः

204

अथाङ्कावतारः -
अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनाम् ।
अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम्

205

स्पष्टम् उदाहरणम् ।
अथ प्रवेशकः -
यन् नीचैः केवलं पात्रैर् भाविभूतार्थ-सूचनम् ।
अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः

206

यदा स्यान् नीरसं सूच्यम् आमुखानन्तरं तदा ।
विष्कम्भोऽङ्कास्यकं वा स्याद् आमुखाक्षिप्त-पात्रकम्

207

यदा तु सरसं वस्तु मूलाद् एव प्रवर्तते ।
आदाव् एव तदाङ्कः स्याद् आमुखाक्षेप-संश्रयः

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc