नाटकचन्द्रिका · श्लोक 168-187
यथा चतुर्थे, कृष्णः -
मतिर् अघूर्णत सार्धम् अलि-व्रजैः
धृतिर् अभून् मधुभिः सह विच्युता ।
व्यकसद् उत्कलिका कलिकालिभिः
समम् इह प्रियया वियुतस्य मे ॥ (4.21)
अत्र मत्यादीनां घूर्णादि-क्रियासु अलिव्रजादिभिः समावेशाद् अयं पदोच्चयः ।
कश्चित् तु उच्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य् (साह्द् 6.180) आह ।
यथा दशमे -
[*नोते: संचयो]
सुतनु किञ्चिद् उदञ्चय लोचने
चल-चकोर-चमत्कृति-चुम्बिनी ।
स्मित-सुधां च सुधाकर-माधवी
विधुरतो विधयेऽत्र धुरन्धराम् ॥10.8॥
अथ तुल्यार्थकः -
रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः ।
अप्रत्यक्षार्थ-संस्पर्शः तुल्य-तर्क इतीरितः
यथा तत्रैव नवमे, कृष्णः -
कदर्थनाद् अप्य् उरुबाल्य-चापलैर्
उत्सर्पतो स्नेह-भरेण विक्लवाम् ।
विलोकमानस्य ममाद्य मातरं
हविर् विलायं हृदयं विलीयते ॥ (9.26)
अत्र हविर् विलायम् इति लुप्तोपमयाऽप्रत्यक्षस्य चित्त-द्रवस्य कथनं
तुल्य-तर्कः । कश्चित् तु तुल्यतर्को यद् अर्थेन तर्कः प्रकृत-गामिना इत्य् (साह्द्
6.180) आह । यथा चतुर्थे -
जटिला - णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदि-णीजलादो वणे
धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुर-शब्देन आकर्षिता एते
हंसा हंस-नन्दिनी-जलात् वने धावन्ति । तद् वधूटिका नातिदूरे भविष्यति ।]
अथ विचारः -
विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम् ।
यथा प्रथमे, कृष्णः --
सखे, मधुमङ्गल, पश्य -
अतनु-तृण-कदम्बास्व्>अद-शैथिल्य-भाजाम्
अविरलतर-हंभारम्भताम्यन्मुखीयम् ।
चटुलित-नयन-श्रीर् अवली नैचिकीनां
पथि सुवलित-कण्ठी गोकुलोत्कण्ठिताभूत् ॥ (1.28)
अत्रोत्कण्ठितस्यअ साध्यस्य साधनानि तृणास्वाद-शैथिल्यादीनि । यद् वा अग्रे
लेख्यं शरणम् इह यो भ्रातुः (5.25) इत्य् आदि पद्यम् अत्रोदाहरणं ज्ञेयम् ।
कश्चित् तु विचारो युक्ति-वाक्यैर् यद् अप्रत्यक्षार्थ-दर्शनम् इत्य् (साह्द् 6.182) आह ।
अत्रोक्तम् उदाहरणम् अपि सङ्गच्छते ।
अथ तद्-विपर्ययः -
विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः
यथा षष्ठे -
राधा (सव्यथम् आकाशे संस्कृतम् आश्रित्य) -
विचित्रायां क्षौण्याम् अजनिषत कन्याः कति न वा
कठोराङ्गी नान्या निवसति मया कापि सदृशी ।
मुकुन्दं यन् मुक्त्वा समयम् अहम् अद्यापि गमये
धिग् अस्तु प्रत्याशाम् अहह धिग् असून् धिङ् मम धियम् ॥ (6.21)
अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद् विपर्ययः ।
अथ गुणातिपातः -
गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतः
यथा चतुर्थे -
जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन)
व्रजेश्वर-सुतस्य कः परवधूविनोद-क्रिया-
प्रशस्ति-भर-भूषितं गुणम् अवैति नास्य क्षितौ ।
यद् एष रति-तस्करः पथि निरुध्य साध्वीर् बलात्
तदीय-कुच-कुट्मले करजम् ओं नमो विष्णवे ॥ (4.31)
अत्र प्रकटश् च गुणातिपातः । कश्चित् तु गुणातिपातः कार्ये यद् विपरीतं गुणान्
प्रति इत्य् आह (साह्द् 6.184), यथा पञ्चमे चन्द्रावली (संस्कृतेन) -
शरणम् इह यो भ्रातुस् तस्य प्रतीप-विधायिना
हित-कृद् अपि ता देव्यास् तस्याः समग्रम् उपेक्षणम् ।
गतिर् अविकलो यो मे तस्य प्रियस्य च विस्मृतिर्
बत हतविधो वामे सर्वं प्रयाति विपर्ययम् ॥ (5.25)
अथ अतिशयः -
बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रितान् ।
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः
यथा प्रथमे कृष्णः -
नव-नव-सुधा-सम्बन्धोऽपि प्रियोऽपि दृशां सदा
सरसिज-वनीं म्लानां कुर्वन्न् अपि प्रभया स्वया ।
विधुर् अपि कला-पूर्णोऽप्य् उच्चैः कुरङ्ग-धरः शशी
व्रज-मृग-दृशां वक्त्रैर् एभिः सुरङ्ग-धरैर् जितः ॥ 1.33
अत्र चन्द्र-मुखयोः सुधा-सम्बन्धत्वादि-सामान्य-गुण-कीर्तनानन्तरं
मुखेषु सुरङ्गत्व-कीर्तनं विशेषः ।
अथ निरुक्तम् -
निरुक्तं निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये
यथा प्रथमे कृष्णः (चन्द्रावलीम् आसाद्य सानन्दम्) -
नीतस् तन्वि मुखेन ते परिभवं भ्रू-क्षेपैविक्रीडया
बिभ्यद् विष्णु-पदं जगाम शरणं तत्राप्य् अधैर्यं गतः ।
आसाद्य द्विज-राजितां विजयिनः सेवार्थम् अस्योज्ज्वलच्-
चन्द्रोऽयं द्विज-राज-तापदम् अगात् तेनासि चन्द्रावली ॥ (1.40)
अत्र चन्द्रावली नाम निरुक्तम् ।
अथ गुण-कीर्तनम् -
लोके गुणातिरिकानां बहूनां यत्र नामभिः ।
एकः संशब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम्
यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्न् अपवार्य) -
विहार सुरदीर्घिका मम मनः-करीन्द्रस्य या
विलोचन-चकोरयोः शरद्-अमन्द-चन्द्र-प्रभा ।
उरोम्बर-तटस्य चाभरण-चारु-तारावली
मयोन्नत-मनोरथैर् इयम् अलम्बि सा राधिका ॥ 2.10 ॥
अत्र सुर-दीर्घिका-शब्दैः राधा-संशब्दनं गुण-कीर्तनम् ।
अथ गर्हणम् -
यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् ।
गुणान् वा कीर्तयन् दोषं दर्शयेद् गर्हणं हि तत्
त्र्त्राद्यं यथा सप्तमे,
माधवी - देअ, कटोरप्पा एसा भट्टि-दारिआ सुट्ठु ताबं सोढुं पारेदि जं
तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलन-कुंडं जल-केलि-कुण्डं
बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति
तत् तव प्रत्यक्षम् एव चन्द्रभागा-मन्दिरे ज्वलन्तं ज्वलन्त-कुण्डं
जल-केलि-कुण्डं विज्ञातवती ।] 149
कृष्णः (स्वगतम्) - माधवि, साधु साधु यद् अत्र स्नेहातिरेकं सूचयन्ती समये
सख्य-सेवां वितनोषि । 150
अत्र कठोरादि-रूपस्य दोषस्य कथनम् अपि
कृष्ण-विषयानुराग-गुण-कीर्तनतया पर्यवसितम् । द्वितीयं यथा चतुर्थे -
कुन्दलता - बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी
सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा,
यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर् लब्धा ।] 133
अत्र गुणकीर्तनम् अप्य् अर्थतो दोष इति गर्हणम् ।
अथानुनयः -
अभ्यर्थना-परं वाक्यं विज्ञेयोऽनुनयो बुधैः ।
यथा पञ्चमे, कृष्णः सास्रम् -
अयं कण्ठे लग्नः शशिमुखि जनस् ते प्रणयवान्
यद्-अप्राप्त्या धन्यां तनुम् अतनु-रूपां तृणयसि ।
प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्न् अनुगते
कृथाः पत्यावत्याहितम् इदम् उरो मे विदलति ॥ 5.35 ॥
अत्र कृष्णेन चन्द्रावली-प्रार्थनम् अनुनयः ।
अथ भ्रंशः -
पतनात् प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः
यथा नवमे, माधवी -
देअ, इमाणं पेम्म-कोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं
एसा ण होदि । [देव, एषा प्रेम-कोमलानाम् अक्षराणां मा खल्व् एताम् अभिरूपां
जानीहि । यद् एषा सत्या न भवति ।] 194
कृष्णः - साधु माधविके! साधु । मदीय-हृदयाशङ्का त्वया निरस्ता । तद्
इन्द्र-जालाभिज्ञया नव-वृन्दयैव निर्मितेयं मायिकी देवी रसालमूल-वर्तिनी
खलु सत्या ।
अत्र सत्या-शब्दस्य प्रकृतार्थं सत्यभामा-रूपं परित्यज्य तथार्थ-लक्षणस्य
कथनाद् भ्रंशः । कश्चित् तु कथयन्ति बुधाः भ्रंशं वाच्याद् अन्यतरद्-वचः
इत्य् आह । यथा प्रथमे, कृष्णः -
[*नोते: साह्द् 6.187 हस् दृप्तादीनां भवद् भ्रंशो वाच्याद् अन्यतरद् वचः ।]
सरोजाक्षि परोक्षं ते कदापि हृदयं मम ।
न स्प्रष्टुम् अप्य् अलं बाधा राधा त्वाक्रम्य गाहते ॥ 1.42
अत्र वाच्याद् राधाया अस्पर्शाद् अन्यद् बाधाक्रमणं भ्रंशः ।
अथ लेशः -
लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः ॥
यथा पञ्चमे, भीष्मकः -
अयम् इह किल कन्या-बान्धवानां निबन्धः
समुचित इति लक्ष्मी-कान्त विज्ञापयामि ।
मम दुहितुर् अनुज्ञोल्लङ्घनाद् अङ्गनायाः
कथम् अपि न परस्याः पाणिसङ्गो विधेयः ॥ 5.38॥
(इत्य् आद्य् उक्तौ श्री-कृष्णः पौरमासी-मुखम् ईक्षते)
पौर्णमासी - मुकुन्द! गोकुल-कुमारी-कुलानि चन्द्रावली-मात्रावशेषाणि
दुर्विदग्धेन विधिना कृतानि । तद् अत्र का क्षतिः?
अत्र चन्द्रावली-मात्रावशेषाणीति विशेषणवद् वचः कृष्णेङ्गित-ज्ञापकतया
संवृत्तम् इति लेशः ।
अत्र क्षोभः
क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं
यथा सप्तमे, कृष्णः -
त्वद्-अङ्ग-सङ्गतैर् एभिस् तप्तोऽस्मि मिहिरातपैः ।
विन्दन्ती वन्दन-च्छायां मां देवि शिशिरीकुरु ॥ 7.37 ॥
अत्र सूर्यातपेषु चन्द्रावल्य्-अङ्ग-सङ्गतेषु तत्-कार्य-भूतस्य तापस्य कृष्णेन
स्वस्मिन् कल्पनात् क्षोभः । कश्चित् तु क्षोभ-स्थाने सङ्क्षेपं पञ्हन् लक्षयन्ति -
सङ्क्षेपो यत् तु सङ्क्षेपाद् आत्मान्य् अर्थे प्रयुज्यते । (साह्द् 6.192) यथाष्टमे -
कृष्णः - देवि, त्रिलोक-कक्षासु किं तवाभीष्टं? तद् अभिव्यज्य
निज-निदेश-भाजनम् अन्यतयैव पर्याप्त-समस्त-निश्रेयसे प्रेयसि विधेहि
प्रसाद-माधुरीम् ।
अथ मनोरथः -
मनोरथस् तु व्याजेन विवक्षित-निवेदनम्
यथा चतुर्थे --
राधिका - (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा
तरंग-लेहा जा खु सेवाल-बल्ली णिबद्ध-पाअं णं हंसिअं मोआबेदि । ता फुडं
भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या
एषा तरङ्ग-लेखा या खलु शैवाल-वल्ली-निबद्ध-पादाम् एनां हंसिकां
मोचयति । तत् स्फुटं बिसिनी-पत्रान्तरितेन कलहंसेन संघट्टिष्यति ।] 71
अत्र हंसी-व्याजेन राधायाः कृष्ण-सङ्गमाभिलाष-कथनं मनोरथः ।
अथानुक्त-सिद्धिः -
प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते ।
अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः
[*नोते: fइर्स्त् रेfएरेन्चे तो भरत, wहोम् हे हस् नोत् बेएन् fओल्लोwइन्ग् वेर्य् च्लोसेल्य्.
नाट् 16.169 = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन् न प्रतीयते । वचनेन
विनानुक्त-सिद्धिः सा परिकीर्तिता ॥]
यथा चतुर्थे - राधा
हला लबंग-कुडुङ्गे आहरन्ती तुमं बुंदाअण-बासिणा मत्त-कलहिन्देण आअदुअ
हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण
ओट्ठ-पल्लअं डंसन्तेण तिना बामे त्थबअस्मि फुरन्ततिक्खकामङ्कुसं
कर-पुक्खरं । [हला लवङ्ग-कुञ्जे आहरन्ती त्वं वृन्दावन-वासिना
मत्त-कलभेन्द्रेण आगत्य हस्तेन गृहीत-हस्तासि संवृत्ता । ततः सम्भ्रमेन
घूर्णन्त्यस् तव हठेण ओष्ठ-पल्लवं दंशता तेन वामे स्तवके
स्फुरत्-तीक्ष्ण-कामाङ्कुशं कर-पुष्करम् ।] 91
अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधाद् अनुक्त-सिद्धिः ।
अथ सारूप्यं -
दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् ।
सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते
यथा चतुर्थे -
जटिला - अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक"
कस्मान् मुखम् आच्छादयसि? यत् ते विद्या न विक्रीता ।] (इति प्रसह्य
सम्मुखयति) 126
अभिमन्युः - (स्वगतम्) हद्धी हद्धी बाउलिअआए अम्माए लज्जापज्जाउलो किदम्हि ।
ता इदो अबक्कमिस्सम् । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जा-पर्याकुलः
कृतोऽस्मि । तद् इतोऽपक्रमिष्यामि ।] 127
अत्र सारिका-मुख-श्रुत-कृष्ण-प्रवेश-सङ्क्षोभाज् जटिलायाः स्व-पुत्रे
कृष्ण-बुद्धि-कथनात् सारूप्यम् ।
अथ माला -
बहूनि कारणान्य् एव सा मालेत्य् अभिधीयते
यथा द्वितीये -
राधा - ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद
सुष्ठु शङ्काकुलास्मि ।] (पुनः संस्कृतेन)
गत-प्रायं सायं चरित-परिशङ्की गुरुजनः
परीवादस् तुङ्गो जगति सरलाहं कुलवती ।
वयस्यस् ते लोलः सकल-पशुपाली-सुहृद् असौ
तदा नम्रं याचे सखि रहसि सङ्चारय न माम् ॥ 2.19
अत्र सायं गमनादि-बहु-कारणानां स्वेष्ट-सञ्चारणाभावाय कथितत्वात् माला ।
अथ मधुर-भाषणम् -
यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः ।
स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम्
यथा पञ्चमे -
नृपौ (सप्रश्रयम्) -
एकस्मिन्न् इह रोम-कूप-कुहरे ब्रह्माण्ड-भाण्डावली
यस्य प्रेक्षयते गवाक्ष-पदवी-घूर्णत्-पराणूपमा ।
केयं तस्य समृद्धये तव विभो राजेन्द्रता-ग्रामटी
शौटीर्येण चमत्कृतिं तद् अपि नः काम् अप्य् असौ पुष्यति ॥(5.17)
अत्र प्रकटम् एव मधु-भाषणम् ।
अथ पृच्छा -
प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता ॥
यथा नवमे -
कृष्णः (पुरो दाडिमीम् उपेत्य)
कान्तिं पीतांशुक-स्फीतां बिभ्रती विक्षिता वने ।
मयाद्य मृग्यमाणा सा त्वया मृग-विलोचना ॥ (9.18)
अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे
पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्य् उत्तरेण पृच्छा ।
अथोपदिष्टम् -
शास्त्रानुसारि यद् वाक्यम् उपदिष्टं तद् उच्यते
यथा षष्ठे - नारदः -
प्रेयस्यः पशुपालिका विहरतो यास् तत्र वृन्दावने
लक्ष्मी-दुर्लभ-चित्र-केलि-कलिका कान्तस्य कंस-द्विषः ।
राधा तत्र वरीयसीति नगरीं ताम् आश्रितायां क्षितौ
सेवां देवि समस्त-मङ्गल-करी यस्यास् त्वम् अङ्गीकुरु ॥ (6.19)
अत्र हरि-प्रिय-जन-सेवा समस्त-मङ्गल-करीति शास्त्रानुसारित्वम् ।
अथ दृष्टम् -
जात्यादि-वर्णनं धीरैर् दृष्टम् इत्य् अभिधीयते
यथा द्वितीये -
वृन्दा (पुरो दृष्टिं क्षिपन्ती) -
करोति दधि-मन्थनं स्फुट-विसर्पि-फेन-च्छटा
विचित्रित-गृहाङ्गणं गहन-गर्गरी-गर्जितम् ।
मुहुर् गुण-विकर्षण-प्रवणता-क्रमाकुञ्चित-
प्रसारित-कर-द्वयी-क्वणित-कङ्कणं मालती ॥ (2.3)
अत्र दधि-मथन-क्रिया-स्वभाव-वर्णनं दृष्टम् ॥
सन्ध्य्-अन्तराण्य् अनुक्त्वैव भूषणं लक्षणाख्यया ।
प्रोच्यतेऽन्यत् त्रय्स्त्रिंशत् सङ्ख्या कश्चिद् विभूषणम्
मुनेर् असम्मत्तत्वेन तत् तु सर्वम् उपेक्षितम् ।
केषाञ्चिद् अत्र सन्ध्य्-अङ्ग-गुणालङ्कार-लक्ष्मणाम्
अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितम् ।
अथ पताका-स्थानानि -
अर्थस्य तु प्रधानस्य भाव्यवस्थस्य सूचकम्
यद्-आगन्तुक-भावेन पताका-स्थानकं हि तत् ।
एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम्
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0