भाषा

ENहिગુ
ग्रंथ पाठ

नाटकचन्द्रिका · श्लोक 148-167

148

यथा नवमे -
नव-वृन्दा (प्रविश्य) समीक्ष्यतां विचित्रम् इदं चित्रम् ।
अत्र माथुर-चरित्रं चित्र-लिखितम् ।
सन्ध्यन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः ।
तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु

149

अथ विभूषणानि -
एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः ।
शरीरं वस् त्व् अलङ्कुर्यात् षड्-त्रिंशद् भूषणैः स्फुटम्

150

भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः ।
शोभा-संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम्

151

सिद्धि-प्रसिद्धिर् दाक्षिण्यम् अर्थापत्तिर् विभूषणम् ।
पदोच्चयस् तुल्यतर्को विचारस् तद्-विपर्ययः

152

गुणातिपातोऽतिशयो निरुक्तं गुण-कीर्तनम् ।
गर्हणानुनयौ भ्रंशो लेशः क्षोभो मनोरथः

153

अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् ।
पृच्छोपदिष्ट-दृष्टानि षड्-त्रिंशद्-भूषणानि हि

154

तत्र भूषणम् -
गुणालङ्कार-बहुलं भाषणं भूषणं स्मृतम्

155

यथा नवमे -
कृष्णः (समन्ताद् अवलोक्य)
लक्ष्मीः कैरव-काननेषु परितः शुद्धेषु विद्योतते
सन्-मार्ग-द्रुहि सर्व-शार्वर-कुले प्रोन्मीलति क्षीणता ।
नक्षत्रेषु किलोद्भवत्य् अपचितिः क्षुद्रात्मसु प्रायिकी
शङ्के शङ्कर-मौलिर् अभ्युदयते राजा पुरस्ताद् दिशि ॥9.10॥
अत्र प्रसाद-माधुर्यादि-गुणानाम् अनुप्रास-श्लेषानुमानाद्य्-अलङ्काराणां च
सत्तया भूषणम् ।
अथाक्षर-सङ्घातः -
वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-शब्दकम्

156

यथा पञ्चमे -
सुपर्णः - देव! पश्य पश्य -
वक्त्राणि भान्ति परितो हरिणेक्षणानाम्
आरुढ-हर्म्य-शिरसां भवद्-ईक्षणाय ।
यैर् निर्मितानि तरसा सरसीरुहाक्ष
चन्द्रावली-परिचितानि नभस्-तलानि ॥ (5.32)
अत्र चन्द्राणाम् आवल्या परिचितानीत्य् अत्र चन्द्रावली नाम प्रतिभानाद्
अक्षर-सङ्घातः ।
अथ हेतुः -
स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकम्

157

यथा सप्तमे -
मधुमङ्गलः (निरीक्ष्य) पिअबअस्स! पेक्ख काए बि अणुराइणीए सेवा किदत्थि ।
[प्रिय-वयस्य, पश्य कयाप्य् अनुरागिण्या सेवा कृतास्ति ।]
कृष्णः - सखे! साधु लक्षितम् ।
असौ व्यस्तन्यासा विशदयति माला विवशतां
विभक्तेयं चर्चा नयन-जल-वृष्टिं कथयति ।
करोत्कम्पं तस्या वदति तिलकं कुञ्चितम् इदं
कृशाङ्ग्याः प्रेमाणं वरिवसितम् एव प्रथयति ॥ (7.32)
अत्रानुराग-साधनाय विवशत्वादि-हेथेतूनां कथनाद् अयं हेतुः ।
अथ प्राप्तिः -
एक-देश-विलोकेन प्राप्तिः शेषाभियोजनम्

158

यथा नवमे -
कृष्णः (परिक्रम्य)
लब्धा कुरङ्गि नव-जङ्गम-हेम-वल्ली
रम्या स्फुटं विपिनसीमनि राधिकात्र ।
अस्यास् त्वया सखि गुरोर् यद् इयं गृहीता
माधुर्य-वल्लित-विलोचन-केलि-दीक्षा ॥ 9.17 ॥
अत्र लोचनसौन्दर्य-दीक्षा-लालसस्य एकदेशस्य त्वयि विलोकनेन सालं त्वया
लब्धेति विशेषार्थस्य योजनात् प्राप्तिः ।
अथोदाहरणम् -
वाक्यं यद्-गूढ-तुल्यार्थं तद् उदाहरणं मतम्

159

यथा द्वितीये -
कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे
अब्भत्थिदं मए णिब्बाहिदम् । [राधे, देहि मे पारितोषिकम् । यत् सुष्ठु दुर्लभं
तेऽभ्यर्थितं मया निर्वाहितम् ।] 80
राधिका (वक्रम् अवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं
मेऽभ्यर्थितम्?] 81
कुन्दलता - अई, कीस भुअं भंगुरेसि, जअ सूराराहणं भणामि । [अयि, कस्माद्
भ्रुवं भङ्गुरयसि, यत् सूर्याराधनं भणामि ।] 82
अत्र कुन्दलता भणितस्य साभिप्राय-गूढार्थतया उदाहरणम् ।
यत्र तुल्यार्थ-युक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश् चार्थस् तद्-उदाहरणं मतम् ॥ इति (साह्द् 6.117)
तद् यथा, षष्ठे -
नारदः - ततस् तेनोक्तम् -
ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायम् ।
भगवति कृतागसो मे भगवान् एवाधुना शरणम् ॥ (6.17)
अथ शोभा -
शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते ।
यथा चतुर्थे -
राधिका (माधवम् अवलोक्य, सानन्दम् आत्मगतम्) भो भअवं,
आणन्द-पज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे
दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हम् । [भो
भगवन्, आनन्द-पर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे
दृष्ट्-चकोरी । क्षणं पिबत्व् एषा दुर्लभाम् अस्य मुख-चन्द्रस्य ज्योत्स्नम् ।] 99
कृष्णः (राधाम् अवेक्ष्य, सहर्षम्) -
धावत्य् आक्रमितुं मुहुः श्रवणयोः सीमानम् अक्ष्णोर् द्वयी
पौष्कल्यं हरतः कुचौ बलि-गुणैर् आरब्धमानं ततः ।
मुष्णीतश् चलतां भ्रुवौ चरणयोर् उद्यद्-धनुर् बिभ्रमे
राधायाः तनु-पत्तने नरपतौ बाल्याभिधे शीर्यति ॥ (4.27) 101
अत्र परस्पर-भाव-प्राकट्याच् छोभा । कैश्चित् तु -
सिद्धैर् अर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ।
श्लिष्ट-लक्षण-चित्रार्था सा शोभेत्य् अभिधीयते ॥ इत्य् आह । (साह्द् 6.176)
यथा नवमे -
नववृन्दा - (पुरोऽवलोक्य, सहर्षम्)
निर्मित-भुवन-विशुद्धिर् विधुर् मधुरालोक-साधने निपुणा ।
उल्लसित-परमहंसा भक्तिर् इवेयं शरन् मिलिअति ॥ 9.1 ॥
अथ संशयः -
अनिश्चयात् तु यद् वाक्यं सन्देहस्य निगद्यते

160

यथा द्वितीये (नेपथ्ये) -
स्थूलस् ताल-भुजोन्नतिर् गिरि-तटी-वक्षाः क्व यक्षाधमः
क्वायं बाल-तमाल-कन्दल-मृदुः कन्दर्प-कान्तः शिशुः ।
नास्त्य् अन्यः सहकारिता-पटुर् इह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृग् अद्य तपसां पाकस् तवोन्मीलति ॥ (2.29)
अत्र संशयेनैव वाक्य-समाप्तेर् अयं संशयः ।
अथ दृष्टान्तः -
स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये

161

यथा नवमे -
कृष्णः (विमृश्य) अथवा -
धीरः प्रकृत्यापि जनः कदाचिद्
धत्ते विकारं समयानुरोधात् ।
क्षान्तिं हि मुक्त्वा बलवच् चलन्ती
सर्वंसहा भूर् अपि भूरि दृष्टा ॥ (9.20)
अत्र धीरेऽपि जने विकार-सद्-भावे साध्ये तत्-साधकस्य चलन-रूप-विकारस्य
हेतोः सर्वंसहायां भुवि दर्शितत्वाद् दृष्टान्तः ।
अथाभिप्रायः -
अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः ।
अभिप्रायं परे प्राहुर् ममतां हृद्य् अवस्तुनि

162

यथा चतुर्थे -
कृष्णः (सोत्सुकं रोमाञ्चम् उन्मील्य)
उद्गीर्णाद्भुत-माधुरी-परिमलस्याभीर-लीलस्य मे
द्वैतं हन्त समक्षयन् मुहुर् असौ चित्रीयते चारणः ।
चेतः केलि-कुतूहलोत्तरलितां सद्यः सखे मामकं
यस्य प्रेक्ष्य सुरूपतां व्रज-वधू-सारूप्यम् अन्विष्यति ॥ (4.19)
अत्राभूतार्थ-रूपस्य भगवद्-द्वितीयत्वस्य नटे कल्पनम् अभिप्रायः । हृद्य्
अवस्तुनि स्व-सौन्दर्ये भोगेच्छया ममता वा ।
अथ निदर्शनं-
यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परोपेक्षाव्युदासार्थं तन् निदर्शनम् उच्यते

163

यथा चतुर्थे -
गार्गी (संस्कृतेन) -
कामं सर्वाभीष्ट-कन्दं मुकुन्दं
या निर्बन्धात् प्राहिणोद् इन्धनाय ।
आचार्यानी सा करोति स्म पण्यं
पिण्याकार्थं हन्त चिन्तामणीन्द्रम् ॥ (4.6)
अत्र बिम्बानुबिम्ब-वस्तु-बोधनात् निदर्शनम् ।
अथ सिद्धिः -
अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः ।
यथा षष्ठे -
कृष्णः (यथा कृत्वा सगद्गदम्)
उपतरु ललितां तां प्रत्यभिक्षाय सद्यः
प्रकृति-मधुर-रूपां वीक्ष्य राधाकृतिं च ।
मणिम् अपि परिचिन्वन् शङ्ख-चूडावतंसं
मुहुर् अहम् उद्घूर्णं भूरिणा सम्भ्रमेण ॥ (6.40)
अत्र इष्टस्य ललिता-दर्शनस्यातर्कितोपपन्नत्वात् सिद्धिः । कश्चित् तु बहूनां
कीर्तनं सिद्धिर् अभिप्रेतार्थ-सिद्धये इत्य् (साह्द् 6.186) आह । तद् यथा दशमे
कृष्णः - प्रिये त्वद्-आस्यं पश्यतो मे नोपमान-वस्तूनि हृदयम् आरोहन्ति नः ।
यतः -
धत्ते न स्थिति-योग्यतां चरणयोर् अङ्केऽपि पङ्केरुहं
नाप्य् अङ्गुष्ठ-नखस्य रत्न-मुकुरः कक्षासु दक्षायते ।
चण्डि त्वन्-मुख-मण्डलस्य परितो निर्मञ्छनेऽप्य् अञ्जसा
नौचित्यं भजने समुज्ज्वल-कला सान्द्रापि चन्द्रावली ॥ (10.11)
अत्र स्पष्टं गुण-कीर्तनम् ।
अथ प्रसिद्धिः -
प्रसिद्धिर् लोक-विख्यातैर् अर्थैः स्वार्थ-प्रसाधनम्

164

यथा षष्ठे -
नव-वृन्दा (स्वगतम्)
वसन्ती शुद्धान्ते मधुरिम-परीता मधुरिपोर्
इयं तन्वी सद्यः स्वयम् इह भवित्री करगता ।
वृताङ्गीम् उत्तुङ्गैर् अविकलमधूली-परिमलैः
प्रफुल्लां रोलम्बे नव-कमलिनीं कः कथयति ॥ (6.28)
अत्र लोक-विख्यातस्य प्रफुल्ल-कमलिनी-रोलम्ब-सङ्गमस्य कथनेन स्वार्थस्य
राधा-माधवयोः सङ्गमस्य साधनं प्रसिद्धिः ।
अथ दाक्सिण्यम् -
दाक्षिण्यं तु भवेद् वाचा परचित्तानुवर्तनम्

165

यथा द्वितीये --
ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि ।
[आर्ये, पश्य । एष कृष्णः बलाद् अस्मद्-विडम्बनं करोति ।] 117
अत्र ललितया मुखरायाः चित्तानुवृत्तिर् दाक्षिण्यम् ।
अथार्थापत्तिः -
उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्पते ।
वाक्यान् माधुर्य-संयुक्तात् सार्थापत्तिर् उदाहृता

166

यथा नवमे -
नववृन्दा -
कुन्ददन्ति दृशोर् द्वन्द्वं चन्द्रकान्तमयं तव ।
उदेति हरि-वक्त्रेन्दौ स्यन्दते कथम् अन्यथा ॥ 9.13
अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य चन्द्रकान्तमयत्वअ-कल्पनाद् इयम्
अर्थापत्तिः । यथा वा दशमे -
चन्द्रावली - देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता
कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं
करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृत-महापराधास्मि । तत्
कारुण्येन आज्ञापय यथा गोष्ठपतेर् गोष्ठं गत्वा वसन्ती त्वां सुखिनं
करोमि । 102
अत्र गोष्ठ-गमनार्थस्यानुपपत्त्या सत्या-सङ्गम-निषेधः प्रकल्प्यते ।
अथ विशेषणम् -
सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुञ्जते ।
विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम्

167

यथा चतुर्थे, कृष्णः -
लक्ष्मीवान् इह दक्षिणानिल-सखः साक्षान् मधुर् मोदते
माद्यद् भृङ्ग-विहङ्ग-हारि-विहसत्य् अत्रापि वृन्दावनम् ।
राधा यद्य् अभिसारम् अत्र कुरुते सोऽयं महान् एव मे
सान्द्रानन्द-विलास-सिन्धु-लहरी-हिन्दोल-कोलाहलः ॥ (4.17)
अत्र प्रसिद्धार्थान् मधु-वृन्दावनादीन् उक्त्वा राधाभिसारस्य
वैशिष्य-कथनाद् विशेषणम् । कश्चित् तु लेखिष्यमाणं
नव-नव-सुधा-सम्बन्धोऽपि (1.33)
इत्य् आदि-पद्यम् अत्रोदाहरति ।
[*नोते: fउल्ल् वेर्से गिवेन् बेलोw, अत् 171 (अतिशयः).]
अथ पदोच्चयः -
बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः

मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc