नाटकचन्द्रिका · श्लोक 128-147
माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।
स्वप्न-लेखौ मदश् चित्रम् एषां लक्षणम् उच्यते
तत्र साम -
भवेत् साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम्
यथा ललित-माधवे दशमेऽङ्के -
कृष्णः - प्रिये मैवं ब्रवीः -
सन्तु भ्राम्यद्-अपाड्ग-भङ्गि-खुरली-खेलाभुवः सुभ्रुवः
स्वस्ति स्यान् मदिरेक्षणे क्षणम् अपि त्वाम् अन्तरा मे कुतः ।
ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया
नाकाशे वृषभानुजां श्रियम् ऋते निष्पद्यते स्वश्-छटा ॥ (10.10)
अथ दानं -
दानं तु कथितं धीरैः प्रिअयवस्तु-समर्पणम्
यथा तत्रैव अष्टमे -
माधवी - भट्टि-दारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअ-माला ।
[भर्तृ-दारिके, स्वहस्तेन त्वया ग्रथितैषा सूर-सौगन्धिक-माला ।] 21
चन्द्रावली (मालाम् आदाय) अज्ज-उत्त, एसा कौत्थुहस्स सहबासिणी होदु ।
[आर्य-पुत्र, एषा कौस्तुभस्य सह-वासिनी भवतु ।] (इति वक्षसि विन्यस्यति ।) 22
अथ भेदः -
भेदस् तु कपटालापैः सुहृदां भेद-कल्पना
यथा चतुर्थे -
जटिला - (अपवार्य, सालीक-स्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति
मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि ।
[अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो
वधूटिकालीकम् एव त्वां दूषयति । तत् किम् इति लाघवं सहसे? ।] 105
अत्र जटिलया कपटेन ललिताया भेदः कृतः ।
अथ दण्डः -
दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्या च तर्जनम्
यथा द्वितीये -
कृष्णः (साटोपम्) रे रे दुष्ट!
राधापराधिनि मुहुस् त्वयि यन् न शस्तं
शक्ष्यामि कर्तुम् अखिलां गुरुर् एष खेदः ।
सर्वाङ्गिलेयम् अभिधावति लुप्त-धर्मा
त्वां मुक्ति-काल-रजनी बत किं करिष्ये ॥ 2.28 ॥
अत्र शङ्ख-चूड-तर्जनं दण्डः ।
अथ प्रत्युत्पन्न-मतिः -
तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् मता
यथा तत्रैव द्वितीये -
ललिता - कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जै । [कुन्दलते,
अश्रुत-पूर्वैषा कीदृशी ऋग् बडुकेन पठ्यते ।]
मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ
जाणासि । अम्हअ वेदस्स तुमं कासि । ता सुणाहि कोसुम् एस्वईए साहाए तैअ वग्गस्स
ललणासुहअरी रिचा एसा । [वृद्धे, आभीरी-मुग्धिका त्वम्, री री गीतम् एव जानासि ।
अस्मद्-वेदस्य त्वं कासि । तत् शृणु कौसुमेषव्याः शाखायास् तृतीय-वर्गस्य
ललनाशुभकरी ऋग् एषा ।]
अत्र मधुमङ्गलस्य प्रतिभा ।
अथ वधः -
वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः
यथा द्वितीये - (नेपथ्ये)
मुष्टिना झटिति पुणजनोऽयं
हन्त पाप-विनिवेशित-चेताः ।
पुण्डरीक-नयनेन सखेलं
दण्डितः सकल-जीवित-वित्तम् ॥ (2.30)
अथ गोत्र-स्खलितम् -
तद्-गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम्
यथा सप्तमे -
चन्द्रावली - कण्ह (इत्य् अर्धोक्ते सलज्जम्) अज्जौत्त!
कृष्णः (सानन्द-स्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तद् अलम्
आर्यपुत्रेति कूपाम्बुना ।
अत्र चन्द्रावल्याः समयोल्लङ्घनाद् गोत्र-स्खलितम् ।
अथौजः -
ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः
यथा पञ्चमे -
सुपर्णः - देव बाढम् आतपत्र-फणापटलील-धीयसः किङ्करस्यास्य
गरुत्मतः सकृत्-पक्ष-विक्षेप-केलयेऽपि न पर्याप्तिम् एष्यति, दूरे विश्राम्यतु
सखा मे सुदर्शनः कल्पान्त-कुशलः ।
अत्र गरुडेन स्व-शक्ति-प्रकाशनाद् ओजः ।
अथ धीः -
इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते
यथा द्वितीये --
राधिका - कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण
पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्द-भाइणि
जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला
कौमुदी येन पीता । तम् एव पुण्यवन्तम् आत्मनो वामलोचनाञ्चलम् एतस्मिन्
खिन्ने मन्द-भागिनि जने क्षणम् अर्पय ।] 38
कुन्दलता - (सासूयम् इवालोक्य) अलं पर-पुरिसे गिञ्चन्तीहिं तुम्हेहिं
संभासणेण (इति धावन्ती जटिलाम् उपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण
मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं पर-पुरुषे गृध्यन्तीभिर् युष्माभिः
सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं
पूजापयिष्यति ।] 39
जटिला - बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणम् ।
[वत्से, सत्यं कथयसि । तस्मात् प्रसीद । आनयैकं विचक्षणं ब्राह्मणम् ।] 40
अत्र राधिकोत्कण्ठातिशय-दर्शनेन जटिला-समक्सम् एव विप्रवेशेन
कृष्ण-प्रवेश-चिन्तनं कुन्दलतायाः धीः ।
अथ क्रोधः -
क्रोधस् तु मनसो दीप्तिर् अपराधादि-दर्शनात्
यथा द्वितीये (नेपथ्ये) -
फुल्लत्य् आरान् नव-विचकिले केलि-कुञ्जेषु फुल्ला
शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला ।
मीलत्य् उच्चैः कुवलय-वने मीलिताक्षी किलासीत्
वाच्यं किं वा परम् उपहसीर् मा प्रणाम-च्छलेन ॥ (2.7)
अत्र पद्मा-सखीनां हरये रोषः ।
अथ साहसम् -
स्वजीवित-निराकाङ्क्षो व्यापारः साहसं भवेत्
यथा दशमे -
राधिका (सखेदम् आत्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता
दाणिं दुल्लहा-हिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं
सप्पाणं तुरिअं उबहिरस्सम् । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद्
इदानीं दुर्लभाभीष्ठ-दान-दक्षिणं तीर्थ-वरं कालिय-ह्रदं प्रविश्य
आत्मानं सर्पेभ्यस् त्वरितम् उपहरिष्यामि ।] 98
अत्र राधायाः कालिय-ह्रद-प्रवेशः साहसम् ।
अथ भयम् -
भयं त्व् आकस्मिक-त्रासः...
यथा नवमे चित्र-दर्शने -
मधुमङ्गलः - एसो संखऊडो । [एष शङ्खचूडः ।]
राधा (सभयम्) - परित्ताहि परित्ताहि (इति कृष्णम् आलिङ्गति) ।
अत्र शङ्खचूड-प्रसङ्गेन राधा-त्रासो भयम् ।
अथ माया -
... माया कैतव-कल्पना
यथा चतुर्थे -
वृन्दा (सानन्दम्) किं नाम राधा-सखीनां धियाम् अक्षुण्णं पश्य पश्य ।
मन्दा सान्ध्य-पयोद-सोदर-रुचिः सैवाभिमन्योस् तनुर्
वक्त्रं हन्त तद् एव खर्वट-घटी-घोणं विगाढेक्षणम् ।
व्यस्ता सैव गतिः करीर-कुसुम-च्छायं तद् एवाम्बरं
मुद्रा कापि तथाप्य् असौ पिशुनयत्य् अस्य स्वरूप-च्छटाम् ॥ (4.33)
अत्र संवृत्तिः -
संवृत्तिः स्वयम् उक्तस्य स्वयम् आच्छादना भवेत्
यथा नवमे -
कृष्णः (वृन्दाम् अवलोक्य) सत्यभामा, मयि कथम् (इत्य् अर्धोक्तेः । नववृन्दा
दृशं कूणयति ।)
चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्म-गोरवम् । [विज्ञातं
प्रेम-गौरवम् ।]
कृष्णः (विभाव्य, स्वगतम्) हन्त, कथम् असौ देवी । भवतु संवरीतुं
प्रयतिष्ये । (प्रकाशम्)
सती कथम् असौ भामा देवी नाद्य प्रसीदति ।
निदानम् अविदं सद्यः खिद्यते हृदयं मम ॥ (9.59)
अत्र स्वयम् उक्तस्य सत्यभामेत्य् अस्य शब्दस्य सती कथम् अभामा इत्य्
अर्थान्तरेण संवरणात् संवृत्तिः ।
अथ भ्रान्तिः -
भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्यापि निश्चयात्
यथा नवमे कृष्णः -
अत्र भावि निरातङ्क-मारो मे रमणं मम ।
दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूर् इयम् ॥ (9.58)
चन्द्रावली - माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि ।
[माधवि नूनं दृष्टास्मि, यद् विदर्भआङ्ग-भूर् इति व्याह्रियते ।]
अत्र विदर्भाङ्गभूर् इत्य् अस्य विगत-दर्भ-भूमित्वाज्ञानं देव्याः भ्रान्तिः ।
भ्रान्तिस् तु केचिद् इच्छन्ति भृङ्ग-बाधा-विचेष्टितम् ।
अथ दूत्यम् -
दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि
यथा प्रथमे, कुन्दलता -
तिह्णाउला चऊरी पञ्जरिआ-सञ्जदा चिरं जलै ।
पाअं बंजुल-कुञ्जे ताराही सप्पधारेहि ॥ (1.58)
[तृष्णाकुला चकोरी पञ्जरिका-संयता चिरं ज्वलति ।
पादं बञ्जुल-कुञ्जे ताराधीश प्रसारय ॥]
अत्र जटिला-प्रातिकूल्येन कुन्दलताया दुर्घटे राधा-सङ्गम-कार्ये सहकारित्वं
दूत्यम् ।
अथ हेत्व्-अवधारणम् -
निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम्
यथा द्वितीये -
वृन्दा - स्थाने खल्व् इयं तव चिन्ता । तथ्यम् एषा दुष्टेनाक्रान्ता त्रिलोकीम् एव
सन्तापयेत् । यतः -
विद्योतन्ते गुण-परिमलैर् याः समस्तोपरिष्टात्
ताः कस्यार्तं दधति न खल्-स्पर्श-दग्धास् तरुण्यः ।
भूयो भूयः स्वयम् अनुपमां क्लान्तिम् आसादयन्ती
मन्दाक्रान्ता भवति जगतः क्लेश-दात्री हि चिन्ता ॥ (2.9)
अत्र चित्र-निदर्शनोपबृंहितेन सर्व-गुणोत्तम-स्त्री-दुःख-रूपेण हेतुना
सर्व-जन-दुःखस्य निश्चयाद् धेत्व्-अवधारणम् ।
अथ स्वप्नः -
स्वप्नो निद्रान्तरे किञ्चिज् जल्पितं परिचक्षते
यथा सप्तमे -
नव-वृन्दा -
श्वाफल्केः सफलीबभूव ललिते हृल्-लालसा-वल्लरी
हा धिक् पश्य मुरान्तकोऽयम् उररीचक्रे रथारोहणम् ।
इत्थं ते करुण-स्वर-स्तवकितं स्वप्नायितं शृण्वती
मन्ये तन्वि पतत् तुषार-कपटाच् चक्रन्द यामिन्य् अपि ॥ (7.10)
अत्र राधायाः स्वप्नायितम् ।
अथ लेखः -
विवक्षितार्थ-कलिता पत्रिका लेख ईरितः
यथा पञ्चमे -
पौर्णमासी -
अचिरं निरस्य रसितैः प्रतिपक्षं राजहंस-निकुरम्बम् ।
कृष्ण-घनस् त्वाम् अमृतैस् तृषितां चन्द्रकवतीं सिञ्च ॥ (5.7)
इत्य् असौ चन्द्रावली-पत्रिका-लेखः ।
अथ मदः -
मदस् तु मद्यजः...
यथा पञ्चमे -
भीष्मः (पुनर् अवधाय, सस्मितम्)
बिले क्व नु विलिल्यिरे नृप-पिपीलिकाः पीडिताः
पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति ।
शची-गृह-कुरङ्ग रे हससि किं त्वम् इत्य् उन्नदन्न्
उदेति मद्-अडम्बर-स्खलित-चूडम् अग्रे हली ॥(5.41)॥
अत्र बलदेवस्य मदः ।
अथ चित्रम् -
चित्रं त्व् आकाराणां विलोकनम्
मूल पाठ: Nāṭakacandrikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0