नर्ममाला · अध्याय 2
[इति] नर्ममालायां प्रथमः परिहासः ॥
द्वितीयः परिहासः
सापि बालकुरङ्गाक्षी यौवनेन प्रमाथिना ।
भिद्यमानेव दर्पेण न ददर्श वसुन्धराम्
श्वश्रूजनविरुद्धा सा तरुणप्रातिवेश्मिका ।
परिहासकथाशीला गीतवाद्यानुरागिणी
चारुसौरभलिप्ताङ्गी न सा जग्राह कञ्चुकम् ।
दर्शयन्ती स्तनाभोगमर्धस्रस्तशिरोंशुका
जृम्भमाणा परावृत्त्य साचीकृतविलोचना ।
जनमैक्षत लोलाक्षी वलितत्रिवलीलता
अयत्नसाध्यां तां वीक्ष्य विटा ललितलोचनाम् ।
बभ्रमुस्तद्गृहोपान्ते निर्व्यापारगतागताः
चिरं तदर्थिनश्चित्रवस्त्र*वेषविभूषिताः ।
सुगन्धितैलताम्बूलधूपादिव्ययकारिणः
नियोगिधनबद्धाशाः स्त्रीरत्नप्राप्तिसोत्सुकाः ।
सस्मिताक्षिनिकोचादिविकारशतकारिणः
तज्ज्ञैरप्यपरिज्ञातपदाश्छिद्रप्रतीक्षिणः ।
दंशकामा भुजङ्गास्ते लीलाकुटिलगामिनः
शून्यां देवकुटीं गत्वा प्रसिद्धाः पारदारिकाः ।
द्वित्रास्तत्सङ्गमोपायं प्रातिवेश्म्या व्यचिन्तयन्
एको ऽवदत्तत्र विटः सुलभैषा न संशयः ।
खल्वाटं तुन्दिलं वृद्धं स्वपतिं सहते कथम्
नित्यप्रवासिनं लुब्धमीर्ष्यालुं सुरतासहम् ।
मत्तच्छागमदामोदं बहलष्ठीविनं शठम्
सुतोपरोधोवन्ध्याया नास्या न च वयःक्षयः ।
न च दुःखाभिभूतासौ रागदग्धा न लक्ष्यते
एतैर्हि दोषैर्नायान्ति दुःशीला अपि योषितः ।
अपरः प्राह भवता साभिप्रायं विचिन्तितम् ।
प्रत्यासत्त्या परिचये किन्तु यत्नो विधीयताम्
विवाहयज्ञतीर्थादिदेवयात्रोत्सवैर्विना ।
न लभ्यते परिचयः परदारोपसर्पणे
सुचिरं प्रेक्षणं लोलकुन्तलोत्तालनं मुहुः ।
तत्सम्बद्धाः सापदेशाः कथास्त्यागप्रकाशनम्
भोगसौभाग्ययशसां प्रसिद्धिप्रतिपादनम् ।
मन्दमन्दं वचः स्वैरं तद्वाक्यश्रवणादरः
तन्मुखन्यस्तनयनं चुम्बनालिङ्गनं शिशोः ।
शिल्पसम्पादनं चास्या वस्त्रालङ्कर*णेक्षितम्
जाते परिचये माल्यताम्बूलादिसमर्पणम् ।
भित्तौ निपीडनं गाढं विजने परिचुम्बनम्
गुह्यस्पर्शो रतिश्चेति शीलविध्वंसयुक्तयः ।
इत्थं का नाम न मया कृता शीलपराङ्मुखी
नियोगिभार्या लभ्यैव सर्वदा गमनोन्मुखी ।
इति पारदारिकः ।
अथावदत्तृतीयो ऽपि स्वाधीनं सर्वमेव नः ।
किन्त्वत्र विधिवैमुख्याद् विघ्नः समुपलक्ष्यते
यो ऽयं तीक्ष्णाक्षपटले चित्रगुप्तविचेष्टितः ।
निःशेषजीवनातङ्कविधायी निर्गुटान्तकः
भारकोच्छृङ्खलायासखण्डलेख्यादियुक्तिभिः ।
निर्गुटाः प्रापिता येन गोपालपशुपालताम्
न कालो यदि नामासौ तत् किं जीवनहृन्नृणाम् ।
पक्षा .. .. .. .. .. श्चेत्तत्किमेकाङ्गनाशनः
कियन्तो ऽद्य मृताः कुत्र पृच्छन्निति मुहुर्मुहुः ।
मृतजीवी श्वतुल्यो ऽसौ भुङ्क्ते कापालिकव्रतम्
हरणोद्यतहस्तो ऽसौ साधूनामपि वर्तने ।
सदोषैर्दीयते ऽस्माभिर्न[र]काय तिलाञ्जलिः
यद्यप्यसौ स्नुषाकामी कल्यपालकुलोज्ज्वलः ।
तथापि सर्वः सर्वज्ञः परदोषानुदर्शने
अथवास्त्येव मे मित्रं शक्तिमान्राजवल्लभः ।
वाङ्मात्रेणैव नः सर्वं संरक्षिष्यति जीवनम्
अगारदाहिनो धेनुस्त्रीशिशुब्राह्मणान्तकाः ।
बहवो रक्षितास्तेन दिग्वार्तामात्रसेवकाः
इति जीवनदिविरः ।
गृहं नियोगिकान्तायाः प्रविशत्यतिनिर्भरम् ।
एषा श्रमणिका नित्यं कुट्टनी वज्रयोगिनी
या माता वश्ययोगानां जाराणां सिद्धदूतिका ।
नरोपपत्तिदीक्षासु स्त्रीणां समयदेवता
अरुन्धतीमपि क्षिप्रं प्रतारयति लीलया ।
पुराणपुंश्चली सा हि जाह्नवीं मन्यते तृणम्
सा समीहितमस्माकमचिरेण विधास्यति ।
इत्युक्त्वा ते ययुर्धूर्ता वृद्धश्रमणिकागृहम्
श्रमणिका ।
कदाचिदथ तामेव हर्म्ये हरिणलोचनाम् ।
सत्त्रभोजनपूर्णाङ्गः पुनरायातयौवनः
निर्दग्धचन्दनस्फारतिलकः पृथुजूटभृत् ।
मायूरोपानदामन्दमन्दरारावगर्वितः
कक्षान्तसंवृतपटो ब्राह्मणानपि न स्पृशन् ।
रे रे दासीसुतेत्यादि जनं कोपेन भर्त्सयन्
मलपत्रं वहन्मूर्खो ददर्श मठदैशिकः ।
सहसा विस्मयाविष्टो दष्टो मकरकेतुना
नियोगिगृहबालानामुपाध्यायमुपेत्य सः ।
आययौ मासमूल्येन नित्यमक्षरशिक्षकः
लब्धप्रवेशस्तामेव ध्यायन्धू[र्तः] पपाठ सः ।
जानन्नपि लिपिं सर्वामोंकारमलिखच्छनैः
कौतुकाद्गृहनारीभिर्वृतस्तस्थौ तदुन्मुखः ।
उपाध्यायो ऽपि दीनारगणनां विदधद्धिया
अष्टावतारस्तोत्रेण सर्वज्ञ इव गर्वितः ।
दैशिकं पाठयामीति सो ऽभूदधिकमुद्धतः
पान्तु नो भगवत्पादा जघन्यजनवत्सलाः ।
परलोकस्य हन्तारो गमने क्षेमकारिणः
भाभूतो कुङ्कुमार्द्रौ ^ ^ ^ ^ ^ _ रैनैसद्दृशौ _ _ _ _ ^ _ _ ^ ^ ^ मुसिमुसि लक्षणौ फेनपर्वौ ।
_ _ _ _ ^ _ _ मणिकनकधरौ दिव्यगन्धानुलिप्तौ सङ्ग्रामेण प्रविष्टौ पलुप ^ ^ ^ नौ लभ्यतां राज्यलक्ष्मीः
गङ्गायमुनयोर्बिल्ववृषभं *पूर्णकुम्भयोः ।
पञ्चचन्दन ली पट्टबन्धं भविष्यति (?)
इत्यादि दत्त्वा बालानां नित्यं फलहकेषु सः ।
वर्षं तिष्ठति निःशंको गणयन्मासवेतनम्
कर्तनं लिखनं सूचीपट्टिकावानमौषधम् ।
कुर्वन्न *वेत्ति पुरतः स्थितान्नो वा कुमारकान्
उपाध्यायेत्यभिहितो वक्ति क्रोधाग्निना ज्वलन् ।
गान्धर्विकश्चर्मकृद्वा किं तवास्मीति निष्ठुरः
इति दार्कोपाध्यायः ।
सस्मितं सस्मितालापं मुहुर्गोष्ठीविधायिनम् ।
नियोगिकान्ता पश्यन्ती दैशिकं नाचलत् ततः
स भाषां बुद्ध्यमानो ऽपि तत्तत्स्त्रीभिरुदाहृताम् ।
किं भणन्तीति पप्रच्छ प्रोल्लसद्भ्रूलतो मुहुः
स ताभिर्नर्मसोत्प्राससाधिक्षेपविडम्बनैः ।
आयास्यमानो मत्ताभिरभूत्प्रहसिताननः
नायं किञ्चिन्महाभागो जानाति न च बुध्यते ।
इति नो भेजिरे लज्जा विवस्त्रा अपि तस्य ताः
ऋष्यशृङ्गव्रतः सो ऽथ वि .. .. .. .. .. .. .. ।
तासां गोष्ठीरसाभिज्ञः स्तनौ पस्पर्श पाणिना
स बीजाश्व इवोत्सृष्टो वडवामण्डले युवा ।
सिषेवे ललनाः सर्वाः प्रोषितस्य नियोगिनः
भ्रातृजायां स्वसारं च तां च भार्यां मृगीदृशम् ।
अन्याश्चास्य सदा स्वैरमकामयत दैशिकः
तास्तेन जारगुरुणा कृतदीक्षा वराङ्गनाः ।
बभूवुः सर्वगामिन्यो निर्विकल्पव्रते स्थिताः
इति मठदैशिकः ।
तया श्रमणिकादूत्या ततस्ते ऽपि कृतोद्यमाः ।
धूर्ताः स्वाधीनतां प्राप्तां स्वैरिणीं तां सिषेविरे
अथाधिकारी तरुणीं सोत्कण्ठस्तां स्मरन्प्रियाम् ।
भृतवस्त्रो विवेशाशु मिथ्याग्रामचिकित्सया
स सेवार्थं समानीतघृतमाक्षिकसर्पिषा ।
भारिकैर्धनिकैर्भीत्या नगरं समपूरयत्
प्राप्तं विलोक्य सुचिरात्तं दृष्टानेककामुका ।
पीवरं ग्राम्यमासन्नरोगं पूर्णमिवाम्बुना
तां च मेषघृतामिक्षाकिलाटमधुसम्पदम् ।
रुरोदैकेन नेत्रेण जहासान्येन तद्वधूः
इदं सुरुचिरं वस्त्रं क्रीतमाभरणञ्च ते ।
तस्येतिवादिनो दृप्ता सा चक्रे सर्वमश्रुतम्
सा शिरोवेदनाव्याजनिबद्धाभ्यङ्गपट्टिका ।
स्तनन्ती सस्वनं पत्युर्नाभवत्पार्श्ववर्तिनी
ततो वाचाल[वा]चालमालाकलकलाकुले ।
गृहे तस्याभवद्व्यग्रग्राम[दा]से महोत्सवः
दिनान्ते बहुभक्ताशी लोहितासवदुर्मदः ।
नियोगी शयने तस्थौ कुम्भकर्ण इवापरः
अथ कृच्छ्रादिवाभ्येत्य रात्रिशेषे तदङ्गना ।
आलिङ्गने समुद्विग्ना चुम्बने वलितानना
रुन्धाना जघनस्पर्शमूरुस्वस्तिकनिश्चला ।
गृहव्यापारखिन्नेव निद्रां चक्रे मुधैव सा
ततः प्रभाते प्रसृते भूर्जभाण्डादिके पुरः ।
वदन्ती सर्वगात्रेषु शूलं साप्यकरोत्क्लमम्
अथाहूतः परिजनैर्वैद्यो मद्यामिषप्रियः ।
निधिं हस्तगतं दैवान्मन्यमानः समाययौ
सभार्तृका ।
नमो विद्याविहीनाय वैद्यायावद्यकारिणे ।
निहतानेकलोकाय *सर्पायेवापमृत्यवे
भ्रान्तो गृहशतं तूर्णं भाराक्रान्त इवोच्छ्वसन् ।
ललाटस्वेदसलिलं पाणिना विक्षिपन्मुहुः
वहन्नौषधसङ्केतनामसंयोगचीरिकाम् ।
कृतान्ताधिकृतस्याग्राद्यः प्रायस्थ इवागतः
चिकित्सको ऽर्थप्राणानां व्याधीनामचिकित्सकः ।
आजीवमीश्वरः शूली येन न त्यज्यते जनः
स वैद्यः कालकूटो वा व्यालो वेताल एव वा ।
भूयसा याति मांसेन यः क्षिप्रमनुकूलताम्
स वैद्य एव कुपितो वायुरायुःक्षयङ्करः ।
हस्तस्पर्शेन त्रिमलक्षालकः क्षपितेन्द्रियः
कृच्छ्रसन्न्यासकृत्पुंसां प्राणाचार्यः किमुच्यते ।
स्थितं भुक्तं नु पीतं नु वैद्येनेति प्रलापिनः
या .. विधत्ते यत्नेन भिषगार्तोपजीवकः ।
नगरोत्सवयात्रासु विवाहेष्वतिभोजनात् ।
जनता याति यन्मान्द्यं तद्वैद्यस्य शनेः फलम्
गुह्याङ्गस्पर्शकृत्स्त्रीणां बह्वाशी जीवितापहः ।
नृणां त्रिदोषकृत्सत्यं वैद्य एव न तु ज्वरः
विद्याविरहिता वैद्याः कायस्थाः प्रभविष्णवः ।
दुराचाराश्च गुरवः प्रजानां क्षयहेतवः
उपसृत्य स पस्पर्श स्तनौ तस्याः सुसंहतौ ।
कठिनौ सततस्पर्शौ खलः खलतराविव
लङ्घनं सहते नैषा हितं शूले न वृंहणम् ।
करोतु मम चिन्तासु सर्वाहारं मया सह
जडा ह्यस्याः स्थिता बुद्धिर्धातुश्च विषमः स्थितः ।
तस्मात्स्निग्धा दधि पूर्वमत्र योज्यं सशर्करम्
इत्युक्ते वैद्यनाथेन स्त्रीभिः तूर्णं ससम्भ्रमम् ।
आहूतः पादपतनैर्ज्योतिर्गणक आययौ
वैद्यः ।
ज्योतिःशास्त्रविदे तस्मै नमो ऽस्तु ज्ञानचक्षुषे ।
वर्षं पृच्छत्यवर्षं वा धीवरान्यो विनष्टधीः
ग्रहनक्षत्रताराणां संख्याने ऽप्यकृतश्रमः ।
अतीतानागतज्ञानदम्भाय मलपत्रभृत्
तव वर्षत्रयीमध्ये कश्चिद्वित्तव्ययो भवेत् ।
ज्वरश्च नेत्रपीडा च लाभांशो ऽप्यविचिन्तितः
न कश्चिदुपकारं ते मन्यते शत्रवश्च ते ।
सन्ति तेभ्यो भयं देहरक्षायां नैव बाधते
दुर्बलो दृश्यसे भ्रातर्यूषं न कुरुषे कथम् ।
अप्यस्ति कामला नूनं तां मन्त्रेण नुदाम्यहम्
इति साधारणज्ञानमन्त्रवैद्यकमिश्रितम् ।
ज्योतिःशास्त्रं विगणयन्यो मुष्णाति जडाशयान्
प्राङ्नियोगिवधूवृत्तं जानन्नपि जनश्रुतम् ।
धूर्तो धूलिपटे चक्रे राशिचक्रं मुधैव सः
क्षिप्ते नियोगिना तत्र दीनारकुसुमोत्करे ।
दम्भस्तब्धश्चिरं तस्थौ स्वाङ्गुलीगणनापरः
ततो ऽवदन्मन्दमन्दं प्रोत्क्षिप्तभ्रूलतो मुहुः ।
इयमापाण्डुरमुखी रतिकामेन पीडिता
दुर्निवारश्च नारीणां पिशाचो रतिरागकृत् ।
पुनः शून्यगृहे स्नाता गुह्यकेन निरम्बरा ।
गृहीतेत्यत्र पश्यामि चक्रे शुक्रसमागमात्
इति गणकः ।
ततः प्रयाते गणके चिन्तिते शुक्रपूजने ।
निर्यत्पलालपूलीकः पादतो धूलिधूसरः
दामबद्धकटिर्ग्राम्यः शीर्णनिष्क .. .. लकः ।
विसृष्टं तत्सहायेन ददौ लेखं नियोगिनः
एडिकाव्यपदेशेन गावः पादैर्हृता दश ।
तासां मध्यान् मृताः पञ्च पञ्च शेषाः स्थिताः खले
तन्मुक्तये त्वरायाताः सहन्तो ऽपि दिनत्रयम् ।
तदभावे ऽपि लाभस्ते ग्रामे दण्डः पतिष्यति
घृतनाडीनिमित्तेन यश्चासौ बन्धने धृतः ।
सो ऽपि विप्रो निराहारस्तीक्ष्णः पञ्चत्वमागतः
पादान्तिके च प्रहितं तस्य प्रधनपत्रकम् ।
बद्धं मया तत्कलत्रं मुद्रितं सकलं गृहम्
यान्स्कन्धकनिमित्तेन प्रायस्थान्परिपालकः ।
प्रददौ मासवृत्त्यैव ते मया तद्गृहे धृताः
धान्यराशिः प्रभूतो ऽस्ति तूर्णमागम्यतामिह ।
तात्पर्यमिति विज्ञप्ताः पादा ज्येष्ठार्कवासरे
ख्वाशपतिः तूणरक्षको ।
वाचयन्नित्यसौ लेखं तस्य कर्मण्यतां *ततः ।
प्रशशंस सहायस्य नियोगी हर्षनिर्भरः
सो ऽभूत्पूर्वतरं बौद्धस्ततो दम्भाय वैष्णवः ।
रक्षार्थमथ भार्याया जातकौलागमादरः
आनिनाय गुरुं गर्वदम्भलोभनिकेतनम् ।
मायाकुहकलौल्यानां दीक्षासमयमण्डलम्
नमस्ते गुरुनाथाय धनदारापहारिणे ।
क्षोभिणे सर्वभक्षाय यक्षायेव क्षपाशिने
*भालन्यस्तार्धसिन्दूरपत्त्रिकापुष्पगुच्छकः ।
बि[न्दू]पबिन्दुनित्यार्द्रमहालालाटकर्परः
कर्णमूलशिखामात्रग्रथितस्वल्पजूटिकः ।
कुङ्कुमाङ्कितकर्णाग्रः काचराक्षो महाहनुः
खल्वाटो विरलश्मश्रुर्दीर्घवाक्प्रस्खलन्क्वचित् ।
बिभ्राणो वदनं वृद्धमहिषीभगविभ्रमम्
क्षणात्पिबति यो मद्यघटं घटघटारवैः ।
तस्य कण्ठप्रणालस्य स्थौल्यं केनोपमीयताम्
मद्यमांसदुरामोदमलिनं योगपट्टकम् ।
दधानः स्तनसम्पूर्णं वक्षसा *राक्षसाकृतिः
सिन्दूरपूर्णगम्भीरनाभिरन्ध्रोपशोभितः ।
लोपिकापूप*शफरामिक्षाभृतमहोदरः
मधुमांसकृताजीर्णप्रत्यग्रामोददुःसहान् ।
धूमोद्गार*गडत्कारान्मुञ्चन्मेघ इवाकुलः
गुरुर्गुरुतराविद्यावद्यमद्यमदान्धधीः ।
अहंकार इवाकारमागतः प्रत्यदृश्यत
आकारेण गुरुर्गुरुश्च वचसा कौसीद्यमौर्ख्यैर्गुरुर् मेढ्रेणातिगुरुस्तथास्यकुहरश्मश्रूदरस्फिग्गुरुः ।
वेश्याकामिनियोगिवञ्चनगुरुः सद्वृत्तशून्यो गुरुश् चित्रं सर्वगुरुः शिवोदितमहाशिक्षासु नित्यं लघुः
अपि नाम स जायेत पवित्रचरितः क्षितौ ।
अशौचनिधयो येन गुरवो नोपसेविताः
अहंपूर्विकया सर्वे पतितास्तस्य पादयोः ।
चक्रुः शिरोभिर्भूकम्पलुठत्पिठरकभ्रमम्
रक्षायै निजभार्यायाः सम्पदां च विवृद्धये ।
नियोगिना यागविधौ विज्ञप्तो भगवान्गुरुः
लिखित्वा कुङ्कुमेनाशु स्वल्पसम्भारचीरिकाम् ।
हृष्टः प्रातः समेष्यामीत्युक्त्वा प्रायात्सहानुगैः
गुरुः ।
श्वशुरो यागसम्भारे यत्नाहूतो नियोगिना ।
*पापी धर्माधिकरणदिविरो ऽथ समाययौ
तस्मै नमो ऽस्तु नगराचार्यवर्याय भोगिने ।
यस्य हस्ते स्थिता भूमिः सशैलवनकानना
करोति प्रश्रयं वक्ति मधुरं दिविरः पुरः ।
जरच्छगलशृङ्गाभां न च त्यजति वक्रताम्
कलमाङ्कितकर्णेन भूर्जपत्रकपाणिना ।
आस्थानदिविरेणेयं ग्रस्ता भगवती मही
मिथ्या महावराहेण दैत्येष्वाडम्बरः कृतः ।
आस्थानदिविरैर्ग्रस्ता यदियं नोद्धृता क्षितिः
उत्थाय वेश्याशयनात्प्रभाते मद्यघूर्णितः ।
धनार्थी दिविरः शस्तमुखं द्रष्टुं प्रतीक्षते
नूनं निशि भगापानं करोति दिविरः सदा ।
प्रातः प्रातर्मृदा वक्त्रं क्षालयत्यन्यथा कथम्
स्नातो मृद्दर्भतिलभृत्करोति सुचिरं जपम् ।
दिविरः कूटसंकेतपटीपात्राणि चिन्तयन्
विप्रं पुरः समायान्तं थूत्कृत्य त्वरितः पुनः ।
प्रविश्य गेहं निर्याति शङ्कमानः पराभवम्
श्रीकामो गोमयभ्रान्त्या वन्दते श्वशकृत्पथि ।
पुरश्चाप्तां सिद्धिकामश्चण्डालीं सकरण्डकाम्
सुप्रभाततरायातैः सकष्टशटिलैर्वृतः ।
आस्थानं याति कलयन्भृष्टमांसं सपानकम्
भूर्ज*पेटलडत्क्लिन्नमषी सुभृतभाजनः ।
कथयन्निव गन्धेन भाविनीं नरकस्थितिम्
मषीविषार्द्रया निघ्नन्साधून्कलमदंष्ट्रया ।
आस्थानजलधेरन्तर्दिविरो मकरायते
तन्मषीविप्रुषस्तस्य दृश्यन्ते कलमच्युताः ।
भुवो विलुण्ठ्यमानायाः साञ्जनाश्रुकणा इव
अधोमुखा विमानेभ्यः पतन्तो दिवि रोदनम् ।
कुर्वन्ति पितरस्तस्य यो भुङ्क्ते दिविरोदनम्
जामातुः श्रीमतो दृष्ट्वा स गृहं हर्षनिर्भरः ।
अचिन्तयत्कदास्यापि षटिर्दैवाद्भवेदिति
आस्थानदिविरः ।
तत्सङ्गत्याप्यदृश्यन्त भूर्जभट्टा भयङ्कराः ।
तद्गृहे कलयन्तो ऽन्तस्तस्य स्थावरविप्लवम्
संहरन्ति सदा लोकान्ये सस्थावरजङ्गमान् ।
तेभ्यः प्रलयकारिभ्यो भट्टेभ्यो ऽस्तु नमो नमः
षटीपाशसमाकृष्टः प्राप्तो ऽधिकरणं भयात् ।
साधुर्निगीर्यते भट्टैर्मत्स्यैरिव जले बलिः
भट्टैर्भट्टैः सदिविरैः शटीनिपतितो जनः ।
मुच्यते नास्थिशेषो ऽपि रक्तक्षीबैरिव श्वभिः
ब्राह्मण्याद्ये हता नैव रामेण ब्रह्मराक्षसाः ।
आस्थानभट्टास्ते मन्ये सदा खादन्ति मानुषान्
कृतः पराजितो जेता जयी यैश्च पराजितः ।
तेषां स्वतन्त्रवचसां वचसा केन जीव्यते
अन्ते नरकपालैर्ये वृता वेतालतां गताः ।
षट्यन्तःकृतहृद्घण्टा भट्टास्ते कस्य नान्तकाः
पश्यन्नन्धो वदन्मूकः शृण्वंश्च बधिरो ऽधमः ।
उत्कोचेन विना भट्टश्चिरं निद्रायते शठः
उत्कोचभक्षणं छिद्रशिक्षणं साधुतक्षणम् ।
षटिसन्धुक्षणं कूटरक्षणं भट्टलक्षणम्
चर्मकृन्नर्तकीभ्राता सङ्गत्या नर्तको ऽभवत् ।
सो ऽथ गारुडकल्पज्ञः प्रयातः सस्यपालताम्
सो ऽपि ग्रामगणेशस्य प्राप्तः प्रासादपालताम् ।
सन्धिविग्रहकायस्थचाक्रिकासेवको ऽधमः
भट्टत्वमाप्तवान्दूतो *द्रङ्गदेशगतागतात् ।
तस्य पुत्राश्च पौत्राश्च सर्वे ऽधिकरणद्विजाः
कुतो ऽन्यथा भवत्येषां वचश्चर्मकृतामिव ।
कक्षे सुमहती भस्त्रा शटिदीनारभाजनम्
मूल पाठ: Narmamālā · Edition: Fabrizia Baldissera: The Narmamālā of Kṣemendra. Critical Edition, Study and Translation. [Beträge zur Südasienforschung. Südasien-Institut Universität Heidelberg 197]. Würzburg: Ergon, 2005. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0