भाषा

ENहिગુ
ग्रंथ पाठ

नर्ममाला · अध्याय 1

1.1

क्षेमेन्द्र: नर्ममाला
प्रथमः परिहासः
येनेदं स्वेच्छया सर्वं मायया मोहितं जगत् ।
स जयत्यजितः श्रीमान् कायस्थः परमेश्वरः

1.2

अस्ति स्वस्तिमतामग्र्यं मण्डितं बुधमण्डलैः ।
खण्डिताखण्डलावासदर्पं कश्मीरमण्डलम्

1.3

यस्मिन् प्राज्यभुजस्तम्भस्तम्भिताहितविक्रमः ।
त्रिविक्रम इव श्रीमाननन्तो बलिजिन्नृपः

1.4

तेन प्रजोपसर्गेषु वारितेषु विवेकिना ।
दुर्नियोगिषु .. .. .. नीतेषु स्मृतिशेषताम्

1.5

विदग्धचूडामणिना केनचित्केलिशालिना ।
विद्वद्गोष्ठीगरिष्ठेन कश्चित्सहृदयो जनः

1.6

हासायातीतकायस्थचरितं कर्तुमीरितः ।
करोति तत्प्रसङ्गेन दुराचारविडम्बनाम्

1.7

कृतविश्वप्रपञ्चाय नमो मायाविधायिने ।
उत्पत्तिस्थितिसंहारकारिणे पुरहारिणे

1.8

व्यापिने जन्महीनाय निर्गुणाय कलाभृते ।
सर्वाधिकारिणे सर्वकालकूटाशनाय ते

1.9

पुरा हतेषु दैत्येषु विष्णुना प्रभविष्णुना ।
दुःखितो दीर्घवैराग्यस्तद्गेहगणनापतिः

1.10

गत्वा वैतरणीतीरं तपो वार्षसहस्रकम् ।
स्वमूत्रचुलकाहारः सुरवैराच्चकार सः

1.11

तुष्टस्तमेत्य वरदः कलिः साक्षादभाषत ।
सर्वदेवविनाशाय गच्छ वत्स महीतलम्

1.12

अनेन कलमास्त्रेण मद्दत्तेन प्रहारिणा ।
विच्छिन्नदीपकुसुमान्धूपहीनान्निरम्बरान्

1.13

भ्रष्टालयान्धूलिलिप्तान्हाहाभूतान्श्वभिर्वृतान् ।
करिष्यसि सुरान्सर्वान्भक्तपानीयकाङ्क्षिणः

1.14

जगति ब्राह्मणानां च वृत्तिच्छेदे त्वया कृते ।
यज्ञच्छेदाद्विनङ्क्ष्यन्ति दिवि देवा न संशयः

1.15

दैत्यक्षये कृते यस्माद्भवता दिवि रोदितम् ।
तस्मात्त्वं दिविरो नाम भुवि ख्यातो भविष्यसि

1.16

मषी सकलमा यस्य काली कवलिताखिला ।
सदा सकलमायस्य तस्य सर्वार्थसिद्धिदा

1.17

त्वद्वंशे ऽत्र भविष्यन्ति दैत्या दिविररूपिणः ।
यैरियं लब्धविभवैः पृथिवी न भविष्यति

1.18

इत्युक्त्वान्तर्हिते तस्मिन्कलौ कल्मषमानसः ।
याति काले सुविपुले महीमवततार सः

1.19

सौनिकेन प्रजातो ऽथ भूतले मर्मघातिना ।
स *कुद्दालिकभार्यायां जगदुन्मूलनव्रतः

1.20

तीक्ष्णैस्तदन्वये जातैः सर्ववृत्तिविलोपिभिः ।
रूक्षैर्न कस्यचिन्मित्रैः पापैः सर्वापहारिभिः

1.21

कल्पान्तैरिव सर्वत्र ग्रस्तस्थावरजङ्गमैः ।
मषीविलिप्तसर्वाङ्गैः कालेनालिङ्गितैरिव

1.22

अधोगतैर्मृदुतरैः स्तब्धैरभ्युद्गतैः क्षणात् ।
पुरीषैरिव कायस्थैः कायस्थैर्दोषकारिभिः

1.23

सेवाकाले बहुमुखैर्लुब्धकैर्बहुबाहुभिः ।
वञ्चने बहुमायैश्च बहुरूपैः सुरारिभिः

1.24

व्याप्तासु नगरग्रामपुरपत्तनभूमिषु ।
तस्मिन्काले मषीलिप्तकलमेन खमुल्लिखन्

1.25

ननर्त कर्तरीहस्तो भूर्जप्रावरणः कलिः ।
भस्त्राकक्ष्याभिधानो ऽयं सर्वभक्षो महासुरः ।
जातो जगत्क्षयायेति पिशाचनिचया जगुः

1.26

देवापहारिणा तेन गोघासलवणच्छिदा ।
भुज्यते पीयते भूरि दिविरेण दिवानिशम्

1.27

भक्त्या भगवतो विष्णोस्त्रैलोक्याक्रमणे पुरा ।
धर्मः प्रयातो द्रवतां मषीरूपेण तिष्ठति

1.28

देवनागमनुष्याणां नित्यनैमित्तिकच्छिदः ।
तस्य कायस्थनाथस्य त्रैलोक्याक्रमणे पुनः

1.29

कलिः प्रयातो द्रवतां मषीरूपेण तिष्ठति ।
यथा स्वर्गप्रदा गङ्गा तथैषा नरकप्रदा

1.30

व्यथितः प्रथितैर्ग्रामैर्निगडैर्लगुडैस्तथा ।
भयाद्वैराग्यमापन्नः स बभूव महाव्रती

1.31

भग्नव्यथो ऽथ सन्त्यज्य व्रतं प्रायाद्दिगन्तरम् ।
कालेन विस्मृतो ऽभ्येत्य भूर्जज्ञो ऽलीकनिःस्पृहः

1.32

क्रमाद्ग्रामनियोगेन नगरे गणनापतेः ।
दम्भसम्भावितः प्राप गृहकृत्यं विधेर्वशात्

1.33

तस्यानुजीविभिः क्रूरैरनुवर्तनजीविभिः ।
वसुहीना वसुमती कृता प्रकटतस्करैः

1.34

दम्भध्वजो निष्प्रपञ्चो लुब्धकः कलमाकरः ।
सूचीमुखो भूर्जगुप्तो महीमण्डश्च दुःसहाः

1.35

दैत्यावताराः सप्तैते तन्माहात्म्यान्नियोगिनः ।
लुण्ठ्या वध्याश्च पूज्या ये सर्व इत्यवदन्मदात्

1.36

उपतापो वज्रपातः परिघो द्वारभञ्जकः ।
धूमकेतुः कपिमुखः कुक्षिभेदो गृहोल्मुकः

1.37

अष्टौ पिशाचास्तस्यैते भटमुख्याः पुरःसराः ।
मर्त्यलोकविनाशाय बभ्रमुर्यष्टिपाणयः

1.38

स वृतः सेवकशतैः सदा दम्भहरार्चने ।
स्तोत्रं पठति हाहेति कुर्वन्सास्रुविलोचनः

1.39

सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
ह्यः कियन्तो मया दत्ताः प्रायस्था विजयेश्वरे

1.40

जयत्युल्लासितानन्तमहिमा परमेश्वरः ।
आदौ स्थितानामुपरि प्रयान्त्वेते त्रिसप्ततिः

1.41

यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा ।
प्रायस्थाने मृता भट्टाः कृष्यन्तां गुल्फदामभिः

1.42

विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः ।
निर्धामधूमकर्तारो ग्रामान्यान्तु नियोगिनः

1.43

सर्वानन्दस्वरूपाय सर्वमङ्गल्यहेतवे ।
सर्वस्वहरणं कृत्वा वध्या दण्डनिषेधिनः

1.44

सर्वक्लेशापहर्त्रे च चिद्रूपब्रह्मणे नमः ।
पीडिताः प्रस्रवन्त्येव प्रजा गुग्गुलुबीजवत्

1.45

इत्यादिस्तोत्रमुखरो घण्टाबधिरिताखिलः ।
समादिश्याविशच्चाशु नियोगिनिबिडां सभाम्

1.46

मरीचः प्रथितस्थानमास्थितो जनदुष्कृतैः ।
ददर्श दूरादायान्तं कार्यदूतं नियोगिनम्

1.47

पदाल[ग्ना]शिवं देवगृहोच्चाटनचाक्रिकम् ।
सुसूक्ष्मदलविन्यासविभागोन्नतटुप्पिकम्

1.48

अतसीकुसुमच्छायं मृदुस्पर्शाङ्गरक्षिकम् ।
जात्यकस्तूरिकामोदस्थूलतूलपटीवृतम्

1.49

हस्ताङ्गुलीन्यस्तहैमत्रिगुणावर्तवालिकम् ।
दूराध्वक्लमसोच्छ्वासात्कुर्वाणं विकृतीर्मुखे

1.50

दृष्ट्वा पिशुनमायान्तं तं भागवतमन्तिके ।
उत्थाय हर्षादालम्ब्य पाणौ पार्श्वे न्यवेशयत्

1.51

इति गृहकृत्याधिपतिः ।
पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः ।
दूरस्था अपि जायन्ते सहस्रश्रोत्रचक्षुषः

1.52

सो ऽब्रवीत्त्वामहं श्रुत्वा स्थितं शक्तिमतां धुरि ।
प्राप्तो देवगृहादेष राशिमार्गप्रदर्शकः

1.53

वस्त्रालङ्काररत्नादि यत्किंचिद्देववेश्मसु ।
विद्यमानमशेषं तत्करिष्ये प्रकटं तव

1.54

विजयेश्वरवाराहमार्तण्डादिषु विद्यते ।
त्वद्भाग्योपचयाद्राशिरपोष्यपरिपूरकः

1.55

अभीरुरपवादेषु निःशङ्कः पातकेषु च ।
तत्र तीक्ष्णो भृशं शश्वत्क्रियतां परिपालकः

1.56

स चास्ति भुवि विख्यातः कायस्थो भवता समः ।
विना धनं विनायासं सर्वस्वहरणं विना

1.57

ब्रह्महत्या न गण्यन्ते गोवधेषु कथैव का ।
प्रभुभक्तिकृता येन मूलादुन्मूल्यते जनः

1.58

अन्ये ऽपि सन्ति सर्वत्र तद्विधस्तु न लभ्यते ।
नीतः स्वजनको येन निधनं बन्धने धनी

1.59

यदि नाम भवत्पुण्यैः स समेष्यति मद्गिरा ।
तत्स्वगेहं निधानानां विद्धि स्वच्छन्दमन्दिरम्

1.60

इति ब्रुवाणमसकृत्कर्णे विहितसंविदम् ।
महत्तमस्तमवदत्तूर्णमानीयतामिति

1.61

ततः स सत्वरं द्वित्रैरादराय गतागतैः ।
तमानिनाय निश्चित्य पापिनं परिपालकम्

1.62

इति चाक्रिकः पुंश्चलको वा ।
काष्ठस्तब्धोन्नतग्रीवः सनिःस्पन्दोर्ध्वलोचनः ।
कामलाहरितच्छायशिरःशाटककञ्चुकः

1.63

लम्बमानेन महतामेध्यक्रोडानुकारिणा ।
*उदरेण दरेणेव व्याप्तः पिशितवेश्मना

1.64

तीव्रदर्पो महाकोपः प्राणहृन्निष्प्रतिक्रियः ।
सोपद्रवः सोपतापः सन्निपात इव ज्वरः

1.65

स महान्तं समासाद्य दुःसहं दंशनं विटम् ।
लीलयैव वशीकृत्य लेभे देवगृहान्बहून्

1.66

ततो मूर्तैरिवायासैः सहसैव पुरःसरैः ।
अर्घ वेलां ययौ कर्तुमसङ्ख्यैः परिवारितः

1.67

काचरो ऽयं हिरण्याक्षः पूर्ववैरमनुस्मरन् ।
देवानवाप्तः संहर्तुमिति तं बुबुधे जनः

1.68

भयात्पलाय्य यातेषु धनिकेषु सुरालयात् ।
तमयुः पुनरक्षीणा देवागारनिवासिनः

1.69

भटैरर्गलितद्वारकवाटस्फोटनाकुलैः ।
प्रारब्धे गृहभाण्डादिविलुण्ठनमहोत्सवे

1.70

सहसा हृतवस्त्राणां गृहिणीनां समाययौ ।
सन्त्रस्तबालकानां च करुणो रोदनध्वनिः

1.71

इति परिपालकः ।
अथाययौ चिरावाप्तबहुहर्षस्खलद्गतिः ।
कृशः शनैश्चराकारो धूसरः क्षुत्क्षतोदरः

1.72

बहुच्छिद्रशिरःशाटलडत्पर्यन्ततूस्तकः ।
शतचक्रलिकास्यूतमललिप्ताङ्गरक्षकः

1.73

शीर्णजीर्णपटीगुप्तकक्ष्यानियमिताञ्चलः ।
याचितानीतसंशुष्कपाद[त्र]व्यथितः खलः

1.74

लेखाधिकारी निःस्वो ऽपि लेखसंस्कारगर्वितः ।
परिपालकनिर्दिष्टो वायुभक्ष इवोरगः

1.75

तद्गेहिनी शीर्णवस्त्रख[ण्डा]वृतकटीतटा ।
कज्जलालिप्तनासाग्रा लडन्मृत्कर्णभूषणा

1.76

क्षुधितापत्यकुपिता शूर्पार्धावृतमस्तका ।
समुत्थाय सशूत्कारं कषन्ती बहुशः स्फिजौ

1.77

पत्यौ चिरात्प्राप्तपदे हृष्टादाय यतस्ततः ।
..क्षेपापूपधूपाद्यैर्गणाधिपमपूजयत्

1.78

सो ऽप्यनेकार्थसन्देशानाकर्ण्यावहितः प्रभोः ।
दाप्यप्रसारितकरो लेखानस्खलितो ऽलिखत्

1.79

धावत्कलमचीत्कारतारः कपिरिवाहतः ।
दीनारान्गणयन्नाशु ददौ लेखशतद्वयम्

1.80

परिपालकपादानां यत्किंचिदुपयुज्यते ।
दर्वी बृसी पटलिका कुण्डभाण्डकरण्डिका

1.81

इत्यादिलेखदानेन प्रसिद्धिं परमां गतः ।
सो ऽचिरेणाभवत्पुष्टः पूर्णपाणिर्मदोद्धतः

1.82

लेखपत्त्राणि विगलल्लोचनः परिवाचयन् ।
चकार विकृतीस्तास्ता नानाभ्रूनेत्रकुञ्चनैः

1.83

इति लेखकोपाध्यायः ।
ततो गृहीतमध्यस्थच्छत्त्रभङ्गव्यवस्थया (?) ।
आययौ गञ्जदिविरो भट्टभागवतार्थितः

1.84

स प्रायस्थखलीकारान्मानी सन्त्यक्तकर्पटः ।
शिरःशाटकविन्यासश्वित्रितार्धललाटभूः

1.85

सर्वदेवगृहग्रामराशिसंहारतत्परः ।
रज्जुशेषीकृताशेषनिर्जर..रिपालकः

1.86

स प्राप्य प्रददौ दीर्घां शरत्षण्मासकल्पनाम् ।
यस्या मध्ये ऽस्ति लिखितं सार्धं लक्षचतुष्टयम्

1.87

स्वार्थोपायं ततः पृष्टस्तेन स्वीकारसंविदा ।
उवाच भागसन्तोषात्किंचित्सद्भावमास्थितः

1.88

अस्मिन्देवगृहे ते ते प्रसिद्धाः परिपालकाः ।
विक्रीतनिजसर्वस्वाः प्रयाता मद्विरोधिनः

1.89

भवतो ऽद्य तु कर्तव्या स्नेहादुपकृतिर्मया ।
कुलाचार्यः स भगवानेको हि गुरुरावयोः

1.90

स्वीकृतैरिह दानेन पञ्चषैश्चाक्रिकाशिवैः ।
भुज्यते निखिलं देवद्रव्यं भुक्तिश्च पार्षदी

1.91

विक्रीतशेषं यत्किञ्चिद्विद्यते सुरमण्डले ।
तन्मतेनैव तत्सर्वं भुज्यते निजवत्त्वया

1.92

तथा हि ताम्रजः पूर्वं महान् नीतो घटो मया ।
भक्तितस्तच्छतांशेन कृता घण्टा सुरालये

1.93

कालेन घण्टां विक्रीय तदंशेन कृता घटी ।
क्रमेण भक्षिता सापि कृता शेषेण घण्टिका

1.94

चिरं सञ्चूर्णिता सापि कृता सूक्ष्मझिलीमली ।
इति कृत्वा ततः स्तोकघण्टांशः परिपालितः

1.95

एवं चतुर्भुजा लुण्ठिः क्रियते शिवपूजया ।
सन्ति धान्यसहस्राणि क्रियतां भवतात्र तु ।
क्रयविक्रयिका नाम ततो विज्ञप्यसे मया

1.96

इत्युपायशतैस्तैस्तैस्तदुक्तैः परिपालकः ।
*जरठाखुरिवाक्षोटं शून्यं चक्रे सुरालयम्

1.97

इति गञ्जदिविरः ।
अथान्यराशिप्रवणः प्रवीणः साधुलुण्ठने ।
आपत्प्रशमनं प्राप ग्रामं तस्मान्नियोगवित्

1.98

तस्यावस्करसंछन्नमहारौरवसोदरे ।
खण्डस्फुटितनासाग्रवारिधानीमहाधने

1.99

दामप्रोतजरद्द्वारस्खलत्खडखडारवे ।
यस्य स्थितिरभूद्गेहे कुकुट्टीकोटरोदरे

1.100

दग्धकम्बलिकाखण्डकृतमुण्डावगुण्ठनः ।
श्वजग्धजीर्णशीर्णाग्रोपानत्खञ्जः शनैर्व्रजन्

1.101

कर्पटीतिलमृद्दर्भपवित्रार्घसमुद्गकैः ।
दारुपात्त्रीं वहन्पूर्णां भग्नामाखुविखण्डिताम्

1.102

स्नायी जपोच्चलत्कूर्चः सदाचारपदे स्थितः ।
दिनार्धमपठत्स्तोत्रं गत्वा यः सुरमन्दिरम्

1.103

गोप्रदक्षिणकृद्विप्रप्रणतो द्वादशीव्रतः ।
ददौ दीनजने मार्गे यत्नेनैककपर्दिकाम्

1.104

तस्यैव दैवादायातकार्यस्याशु नियोगिनः ।
उपस्करणभाण्डादिपरिपूर्णमभूद्गृहम्

1.105

शिशिरे यस्य नाङ्गारं प्रददुः प्रातिवेश्मिनः ।
अयाचितं ददुस्तस्य वस्त्रालङ्करणेप्सितम्

1.106

ततः सुधाधवलितं तस्य सम्मार्जिताङ्गनम् ।
बहुदासमभूद्गेहं सिन्दूरोदरमन्दिरम्

1.107

मिष्टभोजनसञ्जातनवलावण्यसच्छविः ।
तस्याभूत्तरुणी भार्या दि[नै]रप्सरसः समा

1.108

ततो ऽपि व्रजतो ग्रामं करण्डशयनादिकम् ।
निर्ययौ पुरतश्छत्त्रं कलशं ताम्रकुण्डकम्

1.109

शक्तिः पतद्ग्रहो घण्टा ताम्रपात्रमुपानहौ ।
करिका भगवत्पादा भूर्जभस्त्राथ स्रुक्स्रुवौ

1.110

अक्षसूत्रं मषीभाण्डं दर्पणः स्नानशाटिका ।
सम्पुटीटुप्पिकाखड्गाः पादुके मन्त्रपुस्तिका

1.111

नक्षत्रपत्त्रिका खड्गपत्रं लोहितकम्बलः ।
पवित्रसूत्रकं तन्त्री सूची कलमकर्तरी

1.112

वचा जतुमयी रक्षा क्षुरिका योगपट्टकः ।
स्तोत्रमन्त्राणि गङ्गामृद्बिल्वमुच्छिष्टफालकम्

1.113

इत्येकीकृत्य तस्याग्रे भाण्डोपस्करणं ययौ ।
इतस्ततः समानीतमपुनर्दानचेतसा

1.114

उच्चैःकृतलतापाणिर्भाटकानीतघोटकः ।
झाङ्कारपार्ष्णिप्रहतिर्वदनेनाञ्चता मुहुः

1.115

सन्तर्जयन्निव जनं ज्यो..र्तमिव कुर्वता ।
शिथिलस्थूलवसनः स ययौ पुरमुत्फलन्

1.116

प्रविवेश ततो ग्रामं सुधौतसितकर्पटः ।
क्षयाय ग्राम्यमत्स्यानां वृद्धो बक इवागतः

1.117

अथ भोजनचर्यादिव्यपदेशैः सहस्रशः ।
तस्य यक्षेश्वरस्येव निधानान्याययुः पुरः

1.118

योगी हरणचिन्तासु प्रयोगी भूर्जयोजने ।
वियोगी निजदाराणां भोगी नरकसम्पदाम्

1.119

नोपयोगी फलोत्पत्तौ दोषोद्योगी तु केवलम् ।
अशो[कः] सततं रोगी नियोगी जयति प्रभुः

1.120

वृक्षारोहसहस्रेषु प्रायःक्लान्तशतेषु च ।
ग्रामे तस्य विपन्नेषु नरकप्रतिमाभवत्

1.121

गवां दण्डाय यश्चक्रे निधनावधिबन्धनम् ।
का नाम गणना तस्य नृषु सर्वापराधिषु

1.122

सर्वस्वहरणं बन्धो निग्रहो गृहभञ्जनम् ।
इति तस्य मुखाद्घोरं न चचाल वचः सदा

1.123

पञ्चषाः सततं तस्य करभा इव भारिकाः ।
घृतमाक्षिकदीनारमरिचार्द्रकसैन्धवम्

1.124

मुद्गकम्बलमायूरोपानन्मेषविहङ्गमम् ।
बिसद्राक्षामधुघटाक्षोटपर्यङ्कपीठिकम्

1.125

कांस्यताम्रायसानेकगृहोपस्करणादिकम् ।
निन्युस्तत्तदविश्रान्ता गृहं यच्चावदद्वचः

1.126

दण्डत्याजनलेखांश्च स प्राप्तान्स्वामिनो ऽन्तिकात् ।
साधिक्षेपं सथूत्कारं चकार तिलशो नखैः

1.127

नित्यं मांसघृताहारः स राजपुरुषे स्थिते ।
भुङ्क्ते विलवणं दम्भादेको मुद्गपलद्वयम्

1.128

इति मार्गपतिर्व्यापारिको वा ।
निरस्य मूलदिविरं चौर्याणामचिकित्सकम् ।
चकार वारिकं सो ऽथ चिकित्साचतुरं परम्

1.129

स मुक्तो बन्धनात्तेन क्षिप्रं द्वादशवार्षिकात् ।
लिलेख कूटकपटं प्रकटाक्षरकोविदः

1.130

कृत्ताङ्गुष्ठः स वामेन पाणिना दिविरो रहः ।
खल..स्य गृहं गत्वा विदधे भूर्जयोजनम्

1.131

गृहीत्वा मद्यकलशं स जानुयुगलान्तरे ।
मुहुर्मुहुः परिमितं पिबन्बहुतरं शनैः

1.132

लिलेख चीरीचीत्कारतारं कलमरेखया ।
अन्त्याङ्गुल्या सनिर्घोषं लालयोत्पुंसिताक्षरः

1.133

विलुम्पन्विप्रगोदेवनित्यनैमित्तिकव्ययम् ।
श्रीचर्मकारगुरुणा रुग्णनाथेन भाषितम्

1.134

शिवभक्तिभराक्रन्दं मुहुर्गायन्खरस्वरः ।
यूकाः पिषन्नखाग्रेण मुहुरुच्चित्य कम्बलात्

1.135

मुहुर्निःश्वस्य निःश्वस्य निन्दन्संसारचेष्टितम् ।
व्ययेन स समीकुर्वन्प्रवेशं हर्षनिर्भरः

1.136

आविष्ट इव वेतालश्चकम्पे मद्यघूर्णितः ।
उत्सरत्पटलीमिश्रकङ्कावलयमालितः

1.137

स्थूलभूर्जफडत्कारस्फारवाद्यरसाकुलः ।
कर्परीच्छिद्रनिर्यातव्यावल्गिवृषणद्वयः

1.138

लुठत्पूर्णमषीभाण्डच्छटाच्छुरितविग्रहः ।
ननर्त दिविरः क्षीबो नग्नो भग्नबृसीघटः

1.139

धूसरो मलदिग्धाङ्गः स पिशाच इवोत्थितः ।
जनजीवापहारेण ननन्द मदनिर्भरः

1.140

कक्षाकुट्टनसङ्घट्टटांकारा..जकारिणः ।
स्कन्धवाद्यरसः को ऽपि तस्याभून्निर्जने चिरम्

1.141

इति ग्रामदिविरः ।
व्यापृतो ऽप्यनिशं तेन दिविरेणापहारिणा ।
वातेनेवानलः सार्धं जज्वाल जनकाननम्

1.142

अचिरादथ संवृत्ते गृहे तस्य महाधने ।
अलङ्कृता माल्यवती ताम्बूलदलनव्रता

1.143

गृहिणी दर्पणपरा राजमार्गावलोकिनी ।
बभार तद्विरहिता भूपालललनामदम्

1.144

हारो भारायते हेमताटङ्कं मे न वल्लभम् ।
धिग्वणिग्वनितायोग्यां गुर्वीं कनकसूत्रिकाम्

1.145

एकैवैकावली कान्ता ललितेयं प्रिया मम ।
इति दर्पगिरा तस्या नाभवत् कस्य विस्मयः

1.146

अहो भगवती कार्यसर्वसिद्धिप्रदा मषी ।
अहो प्रबलवान्को ऽपि कलमः कमलाश्रयः

1.147

या पपौ याचितं चामं भग्नस्यूताश्मभाजने ।
तयैव पीयते रौप्यपात्रे कस्तूरिकामधु

1.148

इत्यधस्तां समालोक्य हर्म्ये कायस्थसुन्दरीम् ।
तत्प्रातिवेश्मिकसुताः कुलीना जगुरङ्गनाः

मूल पाठ: Narmamālā · Edition: Fabrizia Baldissera: The Narmamālā of Kṣemendra. Critical Edition, Study and Translation. [Beträge zur Südasienforschung. Südasien-Institut Universität Heidelberg 197]. Würzburg: Ergon, 2005. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc