भाषा

ENहिગુ
ग्रंथ पाठ

नर्ममाला · अध्याय 3

3.1

इति अधिकरणभट्टाः सातिका वा ।
इति नर्ममालायां द्वितीयः परिहासः ॥
तृतीयः परिहासः
अथ यागोत्सवे तस्मिन्सर्वे दिविरबान्धवाः ।
अलङ्कृताश्च ललना नियोगिगृहमाययुः

3.2

खटिका करणी हैमी पारतो रत्नमूटिका ।
सिन्दूराद्या रजोभेदाः पञ्चरङ्गकसूत्रकम्

3.3

शालिचूर्णं सितच्छत्रं श्वेतवस्त्रं वितानकम् ।
नाराचाः क्षुरिका सूत्रं दर्पणं वीरकर्तरी

3.4

पताका व्यजनं कूर्चः पुष्पलक्षाणि षोडश ।
वार्धनीकलशौ ताम्रौ तिलास्तैलं मृगाजिनम्

3.5

स्रुक्स्रुवौ समिधो दर्भा लाजाः सिद्धार्तका घृतम् ।
बिल्वपूगफलाक्षोटजातीफलयवाक्षतम्

3.6

धूपकुङ्कुमकर्पूरकौतुकौषधिचन्दनम् ।
पादुकापीठपर्यङ्कघण्टिकाघटकुण्डकम्

3.7

मद्यमांससुरापूपपलाण्डुशफरौदनम् ।
पिष्टभृष्टरसस्वच्छभक्ष्यरोचकमोदकम्

3.8

चटकापूर्णपात्राणि क्षीरिणी कृसरा दधि ।
दश कृष्णा दश श्वेताश्छागा मेषाश्चतुर्दश

3.9

भस्त्रा चेत्यादिसम्भारश्चीरिकालिखितं क्षणात् ।
सज्जीकृतं श्रीसचिवैर्भोगमित्रैर्नियोगिनः (?)

3.10

ततो नित्यावधानेन भगलिङ्गविभूषितम् ।
चकार मण्डलं शिष्यः सिन्दूरान्तरितान्तरम्

3.11

अथात्मारामतादम्भमीलिताघूर्णितेक्षणः ।
गुरुर्गृहीतः शिष्याभ्यां सव्यदक्षिणहस्तयोः

3.12

शतमात्रेणानुयातः शिष्याणामाययौ शनैः ।
लुण्ठिं कर्तुमिवात्युग्रो नगराधिपतिः स्वयम्

3.13

चर्मकृत्सौनिकश्चक्री धीवरो हट्टतापसः ।
वृद्धवेश्या कल्यपालो मद्यभट्टो जरद्विटः

3.14

पञ्च नारङ्गका रुग्णास्त्रिटाङ्कारो ऽथ पाचकः ।
गोभक्षो भैरवाचार्यः कुलाचार्यो ऽथ वायकः

3.15

चूलिकाकृतरुद्राक्षो घटिलश्छिन्ननासिकः ।
महाव्रती भगमुखः शैवाचार्यस्त्रिघण्टिकः

3.16

नग्नो वेलाव्रती मौनी स्तोत्रकृज्जानुघण्टिकः ।
द्वित्राश्चोन्मत्तवनिताः श्वभिः परिवृतास्तथा

3.17

गूथलिप्तस्तथोन्मत्तो मन्त्रवादी रसायनी ।
इन्द्रजाली लतावेशी विज्ञानी कामतात्त्विकः

3.18

भट्टाश्चान्ये गुरोर्धूर्ताः पानभोजनसेवकाः ।
विविशुः स्विन्ननैवेद्यामोदवक्त्रोदकाकुलाः

3.19

अथामपक्वसंहारकारिणः सर्वहारिणः ।
मत्ता गुरुभट्टाश्चक्रुस्तिलधूपघृतक्षयम्

3.20

एको द्वौ बहवः पश्चान्निन्युस्ते भस्त्रया तथा ।
शालिचूर्णयवाक्षोटबिल्वार्घघृतचन्दनम्

3.21

इति गुरुभट्टाः ।
ततः स्वभगिनी रण्डा बालैव व्रतशालिनी ।
धृता नियोगिना यागपरिचर्याविधौ गुरोः

3.22

जयत्यखण्डशीतांशुमण्डलद्युतितस्करी ।
पुण्डरीकमुखी रण्डा नवयौवनमण्डिता

3.23

मदशौण्डं समुद्दण्डचण्डं सुखकरण्डकम् ।
विना चण्डरतोद्घृष्टं रण्डा खण्डितमानसा

3.24

विस्तीर्णश्रोणिपुलिना पीवरोरुकुचस्थली ।
हरिणीहारिनयना रण्डा नेत्ररसायनम्

3.25

रण्डा स्कन्धद्वयासक्तमुक्तकेशी विराजते ।
नेत्रोत्पलमुखाम्भोजभृङ्गव्याप्तेव पद्मिनी

3.26

निःसूत्ररुचिरः कण्ठः सुवर्णसुभगो भगः ।
रण्डायाः कर्णपाशौ च निराभरणसुन्दरौ

3.27

पुष्पताम्बूलरहिता रण्डा सन्त्यक्तभूषणा ।
लावण्येनातिमात्रेण संविभक्तेव वेधसा

3.28

हारेण किं सुमध्यायाः सुकेश्याः कुसुमेन किम् ।
किमञ्जनेनायताक्ष्या रण्डाया मण्डनेन किम्

3.29

किं धर्मो यत्र नो रण्डा धिक्सुखं रण्डया विना ।
रण्डाहीनो ऽस्तु मा मोक्षः प्रौढैरित्युदितं विटैः

3.30

रण्डा विलोक्य तरुणं करोति भ्रुकुटिं मृषा ।
कण्ठग्रहं चिन्तयन्ती मनसा तु प्रहृष्यति

3.31

संस्मरन्ती रतिसुखं पीवरोरुकुचस्थली ।
रण्डा भगस्थलीं रात्रौ मृद्नात्युच्छ्वासिनी सदा

3.32

वीक्षते तरुणं तिर्यक्कान्तं सुभगमानता ।
स्रवन्ती निर्भरं रेतो रण्डा धेनुः पयो यथा

3.33

गौरः सुपीवरो धत्ते रण्डाया मुण्डितो भगः ।
मेरोरर्कहयोल्लीढशष्पहेमतटभ्रमम्

3.34

तुरगाद्याचितानीतस्तब्धदीर्घध्वजो नरः ।
यदि नाम रते शक्तो रण्डां तोषयितुं न वा

3.35

श्राद्धेषु मुग्धविप्राणां जटिनां च तपस्विनाम् ।
वशे पतति धन्यानां रण्डा रसतरङ्गिणी

3.36

चूलिकान्यस्तकुसुमः कर्णे कृतपवित्रकः ।
युवा रण्डाप्रियो विप्रः कन्दर्पेणोपमीयते

3.37

उदञ्चद्गुरुदण्डस्य चण्डस्य ब्रह्मचारिणः ।
रण्डा ददाति सततं श्रद्धया मृतभोजनम्

3.38

तमेव तीर्थयात्रासु पश्चान्नयति सर्वदा ।
वहन्ती खड्गपात्रेण बलिधूपसमुद्गिकाम्

3.39

परस्परप्रार्थनया सुमुण्डितभगध्वजौ ।
भूकम्पकारिणौ रात्रौ तौ रण्डाब्रह्मचारिणौ

3.40

दिवा दम्भनिधानाय नमस्तीर्थोपसेविने ।
रात्रौ रण्डाभगापानक्षीबाय ब्रह्मचारिणे

3.41

रण्डा जटाभृतां भीत्या गौडलाटतपस्विनाम् ।
ददाति .. र्जितां प्रीत्या तल्लिप्तोरु .. वासकृत्

3.42

गत्वा गुरुगृहं रण्डा पत्युः पर्वदिने सती ।
कषन्ती कटिमा .. भी रण्डा निर्दयमोहनैः

3.43

रण्डा तत्तन्मृतोद्धारदीक्षादिव्रतकारिणी ।
ददाति निशि निःशङ्का कामसत्त्रं तपस्विनाम्

3.44

लिङ्गार्चनापदेशेन दत्त्वा वेश्मनि तालकम् ।
करोति चर्मलिङ्गेन रण्डा कण्डूविखण्डनम्

3.45

तयोपचर्यमाणो ऽथ मृगाक्ष्या गुरुराकुलः ।
शिष्याश्च तां पपुर्नेत्रैः क्षुधार्ताः क्षीरिणीमिव

3.46

[इति] रण्डा ।
ततः प्रविविशुस्ते ते दीक्षासमयिनो नराः ।
बद्धनेत्रपटा मिथ्यामोहेनेवान्धकारिताः

3.47

अथ व्यजिज्ञपद्भूमिन्यस्तजानुः कृताञ्जलिः ।
गुरुं नियोगिनः श्रद्धाशुद्धान्तं हट्टतापसः

3.48

इहैव सुचिरं नाथ यागव्यग्रे त्वयि स्थिते ।
प्रतीक्षन्ते परे शिष्या यागोत्सवसमुत्सुकाः

3.49

य एष प्रथितो लोके गृहकृत्ये महत्तमः ।
कृतयागसमारम्भः स भवन्तमुदीक्षते

3.50

ब्रह्महत्यादि पापं यन्निःसंख्यं तस्य विद्यते ।
एकघण्टाटनत्कारमात्रेण भवता हृतम्

3.51

मन्यते स तृणं सर्वं सर्वसंहारपातकम् ।
यतो मूर्ध्नि त्वया हस्तस्तस्य पञ्चफणो धृतः

3.52

त्वत्प्रसादात्समुत्तीर्णां स कामपि दशां श्रितः ।
शङ्करायतनेभ्यो ऽपि शैवः सर्वं जहार यत्

3.53

सर्वस्वहरणं धर्मसत्कार्यं ब्राह्मणक्षयः ।
यत्तस्य निर्विकल्पस्य तत्तवैव विजृम्भितम्

3.54

[इति] *गृहकृत्यमहत्तमः स्वकषणकामिकारो वा ।
त्वामियं नाथ गणिका निमन्त्रयितुमागता ।
घटीप्रतिष्ठा गेहे ऽस्याः क्रियतां शिष्यवत्सल

3.55

वितीर्णैर्भवता नित्यं वशीकरणचूर्णकैः ।
अस्थिशेषाः कृतास्ते ते यया धनिककामुकाः

3.56

श्मशानकोशशपथैः क्षीणजिह्वाकराधरा ।
त्वद्रक्षारक्षितैवैषा कामुकच्छद्मचारिणी

3.57

तैलोन्मृष्टे मनाक्स्नेहो वदने न तु चक्षुषि ।
वेश्यायाः क्षीणवित्तेषु संकोचो नान्त्यजातिषु

3.58

यदि सद्भाविनी *वैश्या यदि कालः कृपापरः ।
अचौरो यदि कायस्थस्तद्वेश्याप्यनुरागिणी

3.59

वेश्या ।
चक्षुर्वैद्यो ऽयमायातस्तपस्वी सर्वसंश्रयः ।
किंशारुवर्तिभिर्येन सर्वमन्धीकृतं जगत्

3.60

ग्रीष्मे ऽक्षिकोपबाहुल्यादस्य लग्ने शरत्फले ।
सम्पूर्णः क्रियतां यागः पाण्डुवल्लीनिरन्तरः

3.61

इति चक्षुर्वैद्यः ।
नापितः शल्यहर्तायं नृणां येनोपजीविना ।
नीतान्यण्डानि दुर्लेपैः स्थूलस्थालीप्रमाणताम्

3.62

प्राक्प्रतिष्ठापिता येन चामुण्डामुण्डकार्थिना ।
*यो ऽसौ तस्यास्त्वया वर्षदिने यागं समीहते

3.63

मूल्येन महता धीमान्नासासंश्लेषणाय यः ।
मांसपेषीमपि छित्त्वा ददाति स्ववधूभगात्

3.64

शल्यहर्ता ।
अयञ्च तरुणीभार्यो वणिग्वृद्धो महाधनः ।
मैथुने शक्तिदारिद्र्याद्वाजीकरणमिच्छति

3.65

लालिना स्रुतनेत्रेण वृद्धेन श्वासकासिना ।
श्लथप्रलम्बशिश्नेन तरुणी रमते कथम्

3.66

आरूढो ऽपि रते यत्नादुत्थानोपहतध्वजः ।
वृद्धः प्राप्नोति नो निद्रामृणं ध्यायन्निवाधनः

3.67

निष्पीडितान्त्रसंकाशशिश्नो ऽपि सुरतोत्सुकः ।
हस्तं दत्त्वा भगे वृद्धो निधानमिव रक्षति

3.68

मांसक्षीरघृताहारं कृत्वा वृद्धो रताशया ।
रात्रौ वमति तत्सर्वं भजते वा विषूचिकाम्

3.69

शुष्कचर्मोपमं वृद्धं मधुपर्के क्षणं पतिम् ।
सजने तरुणी दृष्ट्वा ह्रीता याति रसातलम्

3.70

एतेन वृद्धवणिजा द्रव्यैर्वृद्धविटोदितैः ।
लिप्तलिङ्गेन सततं दग्धेवायासिता वधूः

3.71

स एष बहुनिक्षेपसंभक्षणकृतक्षणः ।
द्रविणावस्करक्षेत्रं वणिग्वासरतस्करः

3.72

नृत्यति व्याधिकालेषु कुटिलः कलिपन्नगः ।
अज्ञाततृणकाष्ठादिविक्रयी द्रव्यनामभिः

3.73

तरुणाकाङ्क्षिणीं वृद्धः प्रियामविचलेक्षणः ।
सो ऽयं निरीक्षते दूरान्मृष्टं भोज्यमिवातुरः

3.74

तस्मात्पौष्पिकमासाद्य क्रियतां मन्त्रसंपदा ।
गृहिणी रागिणी येन लब्धशक्तेः प्रजायते

3.75

वृद्धवणिक् ।
इत्यादिशिष्यैराह्वानं श्रुत्वा तेन निवेदितम् ।
सर्वं करोमीत्यवदद्भ्रूविकाराकुलो गुरुः

3.76

ततो दिनान्ते विपुलां कृत्वाग्रे शिवकुण्डिकाम् ।
गुरुणा सह ते शिष्याः पपुर्भुक्तोत्तरं चिरम्

3.77

नियोगिललनाः सर्वास्ते च तन्मित्रबान्धवाः ।
कपालेषु तदुच्छिष्टं *वमित्वा बहुशः पपुः

3.78

कश्चिद्गातुं प्रवृत्तो ऽथ कश्चिद्रोदिति सस्वनम् ।
कश्चिद्व्याघूर्णते कश्चित्प्लवते कृतशूत्कृतिः

3.79

कश्चिदत्यन्तवैकल्यं नाटयन्भक्तिसम्भवम् ।
निश्चेष्टस्तिष्ठति चिरं संप्राप्तः शवतामिव

3.80

कश्चिद्विलोलस्रग्दामभूषितो मदनिर्भरः ।
कृतकण्ठग्रहः पुंसां चुचुम्ब ललना अपि

3.81

ततः क्षीबो गुरुः किं चित्स्वकाव्यं देशभाषया ।
वीणावंशरवोदग्रं कोच्छिकावाद्यकृज्जगौ

3.82

अथैकभुजमानन्दादुद्यम्यैकेन पाणिना ।
गुरुर्ननर्त द्वाभ्यां च शनैरुत्थाय चासनात्

3.83

ततः शिष्याः समुत्तस्थुरट्टहासनिनादिनः ।
कृताङ्गनापरिष्वङ्गा विस्रस्तकटिकर्पटाः

3.84

शनैः प्रयाते रात्र्यर्धे विनष्टे दीपमण्डले ।
निर्विभागो ऽभवत्तेषां रतिचक्रमहोत्सवः

3.85

प्रभाते गुरुरुत्थाय त्वरया कलशप्रदः ।
कृतवद्विदधे सर्वं शिष्यैरन्यैर्निमन्त्रितः

3.86

ज्वरादिकाले वैद्यानां शरत्काले नियोगिनाम् ।
पुष्पकाले गुरूणां च हेमपूर्णा वसुन्धरा

3.87

अथाविशत्पृथुश्वासः कम्पमानः स्फुटन्निव ।
पार्श्वावलोकी पुरुषः परमाप्तो नियोगिनः

3.88

सो ऽब्रवीदद्य रात्र्यर्धे गृहकृत्यमहत्तमः ।
राजराशिधनं भूरि हृत्वा यातः सहानुगः

3.89

अनुक्त्वापसृते तस्मिंस्तत्सम्बन्धिनियोगिनाम् ।
पलायनव्यतिकरः को ऽपि जातो गृहे गृहे

3.90

चपेटोत्स्फोटितमुखस्त्वत्स्वामी बन्धनं भटैः ।
नीतः पतत्पुरीषो ऽग्रे स तावत्परिपालकः

3.91

यावन्नो*ल्लुञ्चितश्मश्रुर्बद्ध्वा त्वमपि नीयसे ।
तावद्राजभये घोरे नीतिरस्मिन् विधीयताम्

3.92

इति ब्रुवाणे तन्मित्रे तैः शिष्यैः सहिते गुरौ ।
तूर्णं प्रयाते निःश्वस्य नियोगी दुःखितो ऽवदत्

3.93

अहो नु कालदौरात्म्याद्घोरता कियती कलेः ।
साधवः सर्वथा नष्टाः कष्टं धर्मो ऽस्तमागतः

3.94

इत्युक्त्वा सानुगो यावत्पलायनकृतोद्यमः ।
स सुस्राव भयान्मूत्रं तावदेत्य भटैर्वृतः

3.95

स राज्ञा हृतसर्वस्वः प्रक्लिन्नो बन्धने चिरम् ।
धनेन वेश्यया स्वस्रा मोचितो निरगात्ततः

3.96

ततो विभवहीनो ऽसौ जापी स्वप्ननिरीक्षकः ।
बभूव सर्वप्रणतश्चाटुकारः प्रियंवदः

3.97

यो ऽभूदभ्युत्थितस्तब्धो नियोगी लिङ्गसन्निभः ।
अधिकारपरिभ्रंशात्स वृद्धवृषणायते

3.98

अधिकारमदान्धानां दृष्टिकोपवतां सदा ।
नेत्रनैर्मल्यजननं बन्धनं परमाञ्जनम्

3.99

यः पादपतितानार्तान्पूज्यानप्यवमन्यते ।
भ्रष्टाधिकारश्चरणौ शकृल्लिप्तौ स वन्दते

3.100

अहो बत मुहूर्तेन भवन्ति न भवन्ति च ।
पलालदहनज्वालाचपला दिविरश्रियः

3.101

स्वयमुत्थाय यातायां जायायां निर्धनो ऽथ सः ।
बभ्राम लौल्यनिलयः पिण्डार्थी बन्धुवेश्मसु

3.102

रूक्षः कृशो ऽतिमलिनः स्यूतदग्धपटच्चरः ।
पिशाच इव दुष्प्रेक्ष्यो दिनैरेव बभूव सः

3.103

तुषाग्निकुण्डिकातापदग्धस्फिग्वृषणोदरः ।
वातशूलापनोदाय जानुग्रथितदामकः

3.104

देवद्विजधन*ग्रासजातकोष्ठगलग्रहः ।
क्षुत्क्षामकुक्षिः शुष्कास्यः पतितो ऽवस्करे भ्रमन्

3.105

श्वजग्धजानुचरणः प्रस्रवद्भूरिशोणितः ।
कृपार्द्रोच्छिष्टभुग्दत्तभक्तगोलकनिर्वृतः

3.106

दग्धार्धकर्पटीनिर्यत्सकेशवृषणद्वयः ।
भस्मप्रलिप्त*शीर्षांसवक्षःपार्श्वो गतत्रपः

3.107

प्रलपन्काञ्चिकाकाङ्क्षी केनचिद्दत्तमण्डकः ।
प्रपापालिकया डोम्बभ्रान्त्या पाने तिरस्कृतः

3.108

रजस्वलापलालेन छन्नाङ्गस्तुहिनागमे ।
शरावकर्परादानकलहे याचकार्भकैः ।
वह्निपात्रप्रहारेण दग्धभ्रूश्मश्रुलोचनः

3.109

चण्डालैः प्रेतकार्येषु लगुडैराहतो ऽसकृत् ।
पङ्कशायी स चुक्रोश सत्त्रतीर्थाग्रवर्त्मसु

3.110

नृपुरीषप्रणाले ऽथ पतितो ऽसावधोमुखः ।
उच्चैःकृतकटिः प्राणानुत्ससर्ज नराधमः

3.111

इति दौर्गत्यतपसा प्रयातः सो ऽस्थिशेषतां ।
सशरीरः स्वयं प्राप्तो नरकं नरकण्टकः

3.112

एवं क्रमेण शान्तेषु नियोगिदिविराग्निषु ।
मोदते गतसन्तापः सन्तोषसुभगो जनः

3.113

इति दिविरनियोगिव्रातदुश्चेष्टितानां कुसृतिचरितचर्चा नर्ममाला कृतेयम् ।
अपि सुजनविनोदायोम्भिता हास्यसिद्ध्यै कथयति फलभूतं सर्वलोकोपदेशम्

मूल पाठ: Narmamālā · Edition: Fabrizia Baldissera: The Narmamālā of Kṣemendra. Critical Edition, Study and Translation. [Beträge zur Südasienforschung. Südasien-Institut Universität Heidelberg 197]. Würzburg: Ergon, 2005. · Data entry Martin Straube · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc