भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 4.17

4.17.1

उत्तानपादनृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुनराद्दता सा
त्वामेव नित्यमगतिः शरणं गताभूत् ॥

4.17.2

अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं
दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥

4.17.3

त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।
सापि स्वकर्मगतिसन्तरणाय पुंसां
त्वत्पादमेव शरणं शिशवे शशंस ॥

4.17.4

आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्गस्
त्वामारराध तपसा मधुकाननान्ते ॥

4.17.5

ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्च मासान् ॥

4.17.6

तावत् तपोबलनिरुच्छ्वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो! गरुडाधिरूढः ॥

4.17.7

त्वद्दर्शनप्रमदभारतरङ्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
संस्पृष्टवानसि दरेण तथादरेण ॥

4.17.8

तावद् विबोधविमलं प्रणुवन्तमेण-
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनम् ॥

4.17.9

इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-
वानन्दिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकामस्
ताते गते च वनमादृतराज्यभारः ॥

4.17.10

यक्षेण देव! निहते पुनरुत्तमेऽस्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्या ।
शान्त्या प्रसन्नहृदयाद् धनदादुपेतात्
त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥

4.17.11

अन्ते भवत्पुरुषनीतविमानयातो
मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं
वातालयाधिप! निरुन्धि ममामयौघान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc