भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 4.18

4.18.1

जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
रङ्गस्य व्यजनि सुतः स वेननामा ।
यद्दोषव्यथितमतिः स राजवर्य-
स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥

4.18.2

पापोऽपि क्षितितलपालनाय वेनः
पौराद्यैरुपनिहितः कठिरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्प्रशंसन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥

4.18.3

सम्प्राप्ते हितकथनाय तापसौधे
मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥

4.18.4

तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै-
स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डाद्
दोर्दण्डे परिमथिते त्वमाविरासीः ॥

4.18.5

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्री-
माक्रान्तां निजधनुषा समामकार्षी ॥

4.18.6

भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
देवाद्यैः समुचितचारुभाजनेसु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥

4.18.7

आत्मानं यहति सखैस्त्वयि त्रिधाम-
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वाश्वं तव तनयात् पराजितोऽभूत् ॥

4.18.8

देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात् त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥

4.18.9

तद्दतं वरमुपलभ्य भक्तिमेकां
गङ्गान्ते विहितपदः कदापि देव! ।
सत्रस्थं मुनिनिवहं हितानि शंस-
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥

4.18.10

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश! सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन्! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc