नारायणीय · अध्याय 4.16
दशो विरिञ्चतनयोऽथ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पिऋषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः
पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥
दैत्यं सहस्रकवचं कवचैः परीतं
साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनीर्मिततपस्समरौ भवन्तौ
शिष्टैककङ्कटममुं न्यहतां सललिम् ॥
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा
दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥
कामो वसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वायाथ जगदे मृदुहासभाजा ॥
भीत्यालमङ्गजवसन्तसुराङ्गना! वो
मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां
प्रदर्शयः स्वपरिचारककातराक्षीः ॥
सम्मोहनाय मिलिता मदनादय्स्ते
त्वद्दासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥
दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः
पर्याकुलोऽजानि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरोऽवतारस्
त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ॥
दक्षस्तु धातुरतिलालनया रजोन्धो
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यन्रुन्ध स भवत्तनुमेव शर्वं
यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥
क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीवः ।
त्वत् पूरितक्रतुवरः पुनराप शान्तिं
स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0