भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 3.15

3.15.1

मतिरिह गुणसक्ता बन्धकृत् तेष्वसक्ता
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.2

प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि
हृदपि दशाक्षी पूरुषः पञ्चविंशः ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.3

प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनैः साप्यपेयात्
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.4

विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
गुरुडसमधिरूढं दिव्यभूषायुधाङ्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.5

मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर्
मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.6

अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं
प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.7

युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.8

पितृसुरगणयाजी धार्मिको यो गृहस्थः
स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकां कर्म तूदक्पथार्थं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥

3.15.9

इति सुविदितवेद्यां देव! हे देवहूतिं
कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः ।
विमलमतिरथासौ भक्तियोगेन मुक्ता
त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥

3.15.10

परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं त्वद् विधूयामयान् मे
गुरुपवनपुरेश्! त्वय्युपाधत्स्व भक्तिम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc