भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 3.13

3.13.1

हिरण्याक्षं तावद् वरद! भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥

3.13.2

स मायावी विष्णुर्हरति भवदीयं वसुमतीं
प्रभो! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितप्थो
भवन्तं संप्रापद् धरणिधरमुद्यन्तमुदकात् ॥

3.13.3

अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर्
दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्! ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥

3.13.4

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥

3.13.5

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद् भूमौ झटिति पतितायामहह भोः! ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥

3.13.6

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयिच्छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥

3.13.7

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥

3.13.8

महाकायः सोऽयं तव करसरोजप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुदामप्रमदभरविद्योतिहृदया
मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥

3.13.9

त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा
विभो! सोमो वीर्यं वरद! गलदेशेऽप्युपसन्दः ॥

3.13.10

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो!
निरुन्ध्या रोगं मे सकलमपि वातालयपते! ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc