नारायणीय · अध्याय 3.12
स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमघ्नाम् ।ष्
स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥
कष्टं प्रजाः सृजति मय्यवनी निमग्ना
स्थानं सरोजभव! कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुनि स्वयम्भू-
रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥
हा हा विभो! जलमहं न्यपिबं पुरस्ताद्
अद्यापि मज्जति मही किमहं करोमि ।
इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
नासापुटात् समभवः शिशुकोलरूपी ॥
अङ्गुष्ट्ःअमात्रवपुरुत्पतितः पुरस्ताद्
भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्
विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
घोणापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरिशैलमात्रः
सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्
तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥
ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा
प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोत् न् मुनीच्छिशिरयन्नवतेरिथ त्वम् ॥
अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था-
नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥
दृष्ट्वाथ दैत्यहतकेन रसातलान्ते
संवेशितां झटिति कूटकिटिर्विभो! त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥
अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
उद्धातघोरसलिलाज्जलधेरुदञ्चन्
क्तीडावराहवपुरीश्वर! पाहि रोगात् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0