भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 3.14

3.14.1

समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥

3.14.2

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥

3.14.3

गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥

3.14.4

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥

3.14.5

स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥

3.14.6

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥

3.14.7

सपुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥

3.14.8

शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥

3.14.9

निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥

3.14.10

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
कपिलात्मक! वायुमदिरेश्! त्वरितं त्वं परिपाहि मां गदौघात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc