नारायणीय · अध्याय 3.11
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ॥
मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च ।
अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥
भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥
वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् ।
इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥
तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष! ।
खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥
त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्तौ यमौ च लोकस्य यमाविवायौ ॥
हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ॥
ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान् मरुदालयेश! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0