भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 3.10

3.10.1

वैकुण्ट्ःअ! वर्धितबलोऽथ भवत्प्रसादा-
दम्भोजयोनिरसृजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातीर्मनुष्यनिवहानपि देवभेदान् ॥

3.10.2

मिथ्याग्रहास्मिमतिरागविकोपभीतिर्
अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदूनस्
तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥

3.10.3

तावत् ससर्ज मनसा सनकं सनन्दं
भूयं सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमानास्
त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥

3.10.4

तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चेत्
यदौ रुरोद् किल तेन स रुद्रनामा ॥

3.10.5

एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सदारं तम् ॥

3.10.6

रुद्राभिसृष्तभयदाकृतिरुद्रसङ्घ-
संपूर्यमाणाभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलायेत्
याचष्ट तं कमलभूर्भवदीरितात्मा ॥

3.10.7

तस्याथ सर्गरसिकस्य मरीचिरत्रिस्
तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः ।
अङ्गादजयत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवान् भवदङ्घ्रिदासः ॥

3.10.8

धर्मादिकानभ्सृजन्नथ कर्दमं च
वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर्
उद्बोधितश्च विरराम तमो विमुञ्चन् ॥

3.10.9

देवान् पुराणनिवहानपि सर्वविद्याः
कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥

3.10.10

जानन्नुपायमथ देहमजो विभज्य
स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द! मारुतपुराधिप! रुन्धि रोगान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc