भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.49

10.49.1

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ट्ःए ।
स्हेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥

10.49.2

तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥

10.49.3

बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्तयानानुगता विचेलुः ॥

10.49.4

अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥

10.49.5

निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥

10.49.6

नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥

10.49.7

अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥

10.49.8

मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥

10.49.9

समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥

10.49.10

तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc