भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.48

10.48.1

मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥

10.48.2

कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥

10.48.3

सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥

10.48.4

भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥

10.48.5

युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥

10.48.6

अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥

10.48.7

अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द! भवानपि स्तवैः ॥

10.48.8

इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद् भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥

10.48.9

ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान् विमोक्षदः ॥

10.48.10

महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर! पाहि मां गदात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc