भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.50

10.50.1

तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे
पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव! श्रीमन्! विचेरिथ धारयन्
गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥

10.50.2

विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं
ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥

10.50.3

विलसदुलपे कान्तारान्ते समीरणशीतले
विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः सञ्चारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥

10.50.4

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद् विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥

10.50.5

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे! ॥

10.50.6

सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥

10.50.7

क्वचन दिवसे भूयो भूयस्तरेपरुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥

10.50.8

पिबति सलिलं गोपव्राते भवनतमभिद्रुतः
स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात् त्रोट्याः कोट्या तदा यु भवान् विभो!
खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥

10.50.9

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् बके सुमनोगणे
किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥

10.50.10

ललितमुरलीनादं दूरान्निशम्य वधूजनैस्-
त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिर-
प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc