नारायणीय · अध्याय 10.44
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान् विभो! गतवान् ॥
नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत् संस्कारान् विधातुमुत्सुकधीः ॥
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य! कार्यमिति कथयन् ।
गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो! ॥
कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥
अन्यांश्च नामभेदान् न्यीकुर्वन्नग्रजे च रामादीन् ।
अतिमानुषानुभावं न्यगदत् त्वामप्रकाशयन् पित्रे ॥
स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत् ते महत्त्वमृषिवर्यः ॥
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् ।
श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् ।
मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0