भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.45

10.45.1

अयि सबल! मुरारे! पाणिजानुप्रचारैः
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा-
श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥

10.45.2

मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
मतिमहरतमुच्चैः पश्यतां विश्वन् णाम् ॥

10.45.3

अनुसरति जनौघे कौतुकव्याकुलाक्षे
किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
बलितवदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव! ॥

10.45.4

दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग् युवां चुम्बितौ च ॥

10.45.5

स्नुतकुचभरमङ्के धारयन्ती भवन्तं
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते
दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ॥

10.45.6

तदनु चरणचारी दारकैः साकमारा-
न्निलयततिषु खेलन् बालचापल्यशाली ।
भवनशुकबिडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥

10.45.7

हलधरसहितस्त्वं यत्र यत्रोपयातो
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगलितगृहकृत्या विस्मृतापत्यभृत्या
मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ॥

10.45.8

प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥

10.45.9

मम खलु बलिगेहे याचनं जातमास्ताम्-
इह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव! सन्त्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥

10.45.10

तव दधिघृतमोषे घोषयोषाजनाना-
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथ! ॥

10.45.11

शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
चित्रं देव! शशी स ते करमगात् किं ब्रूमहे सम्पत-
ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥

10.45.12

किं किं बतेदमिति संभ्रमभाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्व-
न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc