नारायणीय · अध्याय 10.43
त्वमेकदा गुरुमरुत्पुरनाथ! वोढुं
गाढाधिरूड्ःअगरिमाणमपारयन्ती ।
माता नोधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥
तावद् विदूरमुपकर्णितघोरघोष-
व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव-
र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥
उद्दामपांसुतिमिराहतदृष्तिपाते
द्रष्टुं किमप्यकुशले पशुपाललोके ।
हा बालक्स्य किमिति त्वदुपान्तमाप्ता
माता भवन्तमविलोक्य भृशं रुरोद् ॥
तावत् स दानववरोऽपि च दीनमूर्तिर्-
भावत्कभारपरिधारणलूनवेगः ।
सङ्कोचमाप तदनु क्षतपांसुघोषे
घोषे व्यतायत भवज्जननीनिनादः ॥
रोदोपकर्णनवशादुपगम्य गेहं
क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्-
त्वय्यप्रमुञ्चति पपात् वियत्प्रदेशात् ॥
रोदाकुलास्तदनु गोपगणा बहिष्ठ-
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपन्तममुष्य वक्ष-
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥
ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोप दधुर्गिरिवरादिव नीलरत्नम् ॥
एकैकमाशु परिगृह्य निकामनन्द-
न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् ।
आदातुकामपरिशङ्कितगोपनारी-
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥
भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
इत्यादि मातरपितृप्रसुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो! त्वमेव ॥
वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान् मम गदान् किमु नो धुनोषि ।
किं वा करोमि पुरनप्यनिलालयेश!
निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0