नारायणीय · अध्याय 10.42
कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥
ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥
ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ॥
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ॥
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥
अये सुतं देहि जगत्पतेः कृपातरङ्गपातात् परिपातमद्य मे ।
इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
रजोऽपि नोदृष्टममुष्य तत् कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश! रुजां जहीहि मे ॥
मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0