भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 10.41

10.41.1

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित् पदार्थं शरणं गतस्त्वाम् ॥

10.41.2

निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥

10.41.3

त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।
शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ॥

10.41.4

मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद् भवतामपि स्यात् ।
उत्युल्लपन् वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिम् ॥

10.41.5

चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥

10.41.6

दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् ।
भवन्निवासादयि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ॥

10.41.7

गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥

10.41.8

अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्युपसार्य पाणिं त्वयाश! किं किं न कृतं वधूभिः ॥

10.41.9

भवद्वपुःस्पर्शनकौतुकेन करात् करं गोपवधूजनेन ।
नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥

10.41.10

निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्माम् ॥

मूल पाठ: Nārāyaṇīya · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc