भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.338

12.338.1

बहवः पुरुषा ब्रह्मन्न् उताहो एक एव तु
को ह्य् अत्र पुरुषः श्रेष्ठः को वा योनिर् इहोच्यते ॥

12.338.2

बहवः पुरुषा लोके सांख्ययोगविचारिणाम्
नैतद् इच्छन्ति पुरुषम् एकं कुरुकुलोद्वह ॥

12.338.3

बहूनां पुरुषाणां च यथैका योनिर् उच्यते
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥

12.338.4

नमस्कृत्वा तु गुरवे व्यासाया-मिततेजसे
तपोयुक्ताय दान्ताय वन्द्याय परमर्1षये ॥

12.338.5

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव
ऋतं सत्यं च विख्यातम् ऋषिसिंहेन चिन्तितम् ॥

12.338.6

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः
अध्यात्मचिन्ताम् आश्रित्य शास्त्राण्य् उक्तानि भारत ॥

12.338.7

समासतस् तु यद् व्यासः पुरुषैकत्वम् उक्तवान्
तत् ते ऽहं संप्रवक्ष्यामि प्रसादाद् अमितौजसः ॥

12.338.8

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशां पते ॥

12.338.9

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः
वैजयन्त इति ख्यातः पर्वतप्रवरो नृ

12.338.10

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन्
वैराजसदने नित्यं वैजयन्तं निषेवते ॥

12.338.11

अथ तत्रासतस् तस्य चतुर्वक्त्रस्य धीमतः
ललाटप्रभवः पुत्रः शिव आगाद् यदृच्छया
आकाशेनैव योगीशः पुरा त्रिनयनः प्रभुः ॥

12.338.12

ततः खान् निपपाताशु धरणीधरमूर्धनि
अग्रतश् चाभवत् प्रीतो ववन्दे चापि पादयोः ॥

12.338.13

तं पादयोर् निपतितं दृष्ट्वा सव्येन पाणिना
उत्थापयाम् आस तदा प्रभुर् एकः प्रजापतिः ॥

12.338.14

उवाच चैनं भगवांश् चिरस्यागतम् आत्मजम्
स्वागतं ते महाबाहो दिष्ट्या प्राप्तो ऽसि मे ऽन्तिकम् ॥

12.338.15

कच्चित् ते कुशलं पुत्र स्वाध्यायतपसोः सदा
नित्यम् उग्रतपास् त्वं हि ततः पृच्छामि ते पुनः ॥

12.338.16

त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर् मम
कुशलं चा-व्ययं चैव सर्वस्य जगतस् तथा ॥

12.338.17

चिरदृष्टो हि भगवान् वैराजसदने मया
ततो ऽहं पर्वतं प्राप्तस् त्व् इमं त्वत्पादसेवितम् ॥

12.338.18

कौतूहलं चापि हि मे एकान्तगमनेन ते
नैतत् कारणम् अल्पं हि भविष्यति पितामह ॥

12.338.19

किं नु तत् सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम्
सुरासुरैर् अध्युषितम् ऋषिभिश् चा-मितप्रभैः ॥

12.338.20

गन्धर्वैर् अप्सरोभिश् च सततं संनिषेवितम्
उत्सृज्येमं गिरिवरम् एकाकी प्राप्तवान् असि ॥

12.338.21

ब्रह्मोवाच: वैजयन्तो गिरिवरः सततं सेव्यते मया
अत्रैकाग्रेण मनसा पुरुषश् चिन्त्यते विराट् ॥

12.338.22

बहवः पुरुषा ब्रह्मंस् त्वया सृष्टाः स्वयंभुवा
सृज्यन्ते चापरे ब्रह्मन् स चैकः पुरुषो विराट् ॥

12.338.23

को ह्य् असौ चिन्त्यते ब्रह्मंस् त्वया वै पुरुषोत्तमः
एतन् मे संशयं ब्रूहि महत् कौतूहलं हि मे ॥

12.338.24

ब्रह्मोवाच: बहवः पुरुषाः पुत्र ये त्वया समुदाहृताः
एवम् एतद् अतिक्रान्तं द्रष्टव्यं नैवम् इत्य् अपि
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ॥

12.338.25

बहूनां पुरुषाणां स यथैका योनिर् उच्यते
तथा तं पुरुषं विश्वं परमं सुमहत्तमम्
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc