नारायणीय · अध्याय 12.339
ब्रह्मोवाच: शृणु पुत्र यथा ह्य् एष पुरुषः शाश्वतो ऽव्ययः
अक्षयश् चा-प्रमेयश् च सर्वगश् च निरुच्यते ॥
न स शक्यस् त्वया द्रष्टुं मयान्यैर् वापि सत्तम
सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्य् असौ स्मृतः ॥
अशरीरः शरीरेषु सर्वेषु निवसत्य् असौ
वसन्न् अपि शरीरेषु न स लिप्यति कर्मभिः ॥
ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः
सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित् क्वचित् ॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः
एकश् चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥
क्षेत्राणि हि शरीराणि बीजानि च शुभा-शुभे
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥
नागतिर् न गतिस् तस्य ज्ञेया भूतेन केनचित्
सांख्येन विधिना चैव योगेन च यथाक्रमम् ॥
चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तमाम्
यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् ॥
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः
महापुरुषशब्दं स बिभर्त्य् एकः सनातनः ॥
हित्वा गुणमयं सर्वं कर्म हित्वा शुभा-शुभम्
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥
अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम्
विचरेद् यो यतिर् यत्तः स गच्छेत् पुरुषं प्रभुम् ॥
एवं हि परमात्मानं केचिद् इच्छन्ति पण्डिताः
एकात्मानं तथात्मानम् अपरे ऽध्यात्मचिन्तकाः ॥
तत्र यः परमात्मा हि स नित्यं निर्गुणः स्मृतः
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः
न लिप्यते फलैश् चापि पद्मपत्रम् इवाम्भसा ॥
कर्मात्मा त्व् अपरो यो ऽसौ मोक्षबन्धैः स युज्यते
ससप्तदशकेनापि राशिना युज्यते हि सः
एवं बहुविधः प्रोक्तः पुरुषस् ते यथाक्रमम् ॥
द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं
ज्ञाता ज्ञेयं सगुणं निर्गुणं च
यद् वै प्रोक्तं गुणसाम्यं प्रधानं
नित्यं चैतच् छाश्वतं चा-व्ययं च
यद् वै सूते धातुर् आद्यं निधानं
तद् वै विप्राः प्रवदन्ते ऽनिरुद्धम्
यद् वै लोके वैदिकं कर्म साधु
आशीर्युक्तं तद् धि तस्योपभोज्यम्
देवाः सर्वे मुनयः साधु दान्तास्
तं प्राग्यज्ञैर् यज्ञभागं यजन्ते
अहं ब्रह्मा आद्य ईशः प्रजानां
तस्माज् जातस् त्वं च मत्तः प्रसूतः
मत्तो जगज् जङ्गमं स्थावरं च
सर्वे वेदाः सरहस्या हि पुत्र
चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति
एवं स एव भगवाञ् ज्ञानेन प्रतिबोधितः ॥
एतत् ते कथितं पुत्र यथावद् अनुपृच्छतः
सांख्यज्ञाने तथा योगे यथावद् अनुवर्णितम् ॥
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0