नारायणीय · अध्याय 12.337
सांख्यं योगं पञ्चरात्रं वेदारण्यकम् एव च
ज्ञानान्य् एतानि ब्रह्मर्1षे लोकेषु प्रचरन्ति ह ॥
किम् एतान्य् एकनिष्ठानि पृथङ्निष्ठानि वा मुने
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥
जज्ञे बहुज्ञं परम् अत्युदारं
यं द्वीपमध्ये सुतम् आत्मवन्तम्
पराशराद् गन्धवती महर्2षिं
तस्मै नमो ऽज्ञानतमोनुदाय
पितामहाद्यं प्रवदन्ति षष्ठं
महर्2षिम् आर्षेयविभूतियुक्तम्
नारायणस्यांशजम् एकपुत्रं
द्वैपायनं वेदमहानिधानम्
तम् आदिकालेषु महाविभूतिर्
नारायणो ब्रह्ममहानिधानम्
ससर्ज पुत्रार्थम् उदारतेजा
व्यासं महात्मानम् अजः पुराणः
त्वयैव कथितः पूर्वं संभवो द्विजसत्तम
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः
भूयो नारायणसुतं त्वम् एवैनं प्रभाषसे ॥
किम् अतः पूर्वजं जन्म व्यासस्या-मिततेजसः_1
कथयस्वोत्तममते_2 जन्म नारायणोद्भवम् ॥
वेदार्थान् वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः
गुरोर् मे ज्ञाननिष्ठस्य हिमवत्पादए आसतः ॥
कृत्वा भारतम् आख्यानं तपःश्रान्तस्य धीमतः
शुश्रूषां तत्परा राजन् कृतवन्तो वयं तदा ॥
सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस् तथा ॥
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिर् उत्तमैः
शुशुभे हिमवत्पादे भूतैर् भूतपतिर् यथा ॥
वेदान् आवर्तयन् साङ्गान् भारतार्थांश् च सर्वशः
तम् एकमनसं दान्तं युक्ता वयम् उपास्महे ॥
कथान्तरे ऽथ कस्मिंश्चित् पृष्टो ऽस्माभिर् द्विजोत्तमः
वेदार्थान् भारतार्थांश् च जन्म नारायणात् तथा ॥
स पूर्वम् उक्त्वा वेदार्थान् भारतार्थांश् च तत्त्ववित्
नारायणाद् इदं जन्म व्याहर्तुम् उपचक्रमे ॥
शृणुध्वम् आख्यानवरम् एतद् आर्षेयम् उत्तमम्
आदिकालोद्भवं विप्रास् तपसाधिगतं मया ॥
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे
नारायणो महायोगी शुभा-शुभविवर्जितः ॥
ससृजे नाभितः पुत्रं ब्रह्माणम् अमितप्रभम्
ततः स प्रादुर् अभवद् अथैनं वाक्यम् अब्रवीत् ॥
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः
सृज प्रजास् त्वं विविधा ब्रह्मन् सजडपण्डिताः ॥
स एवम् उक्तो विमुखश् चिन्ताव्याकुलमानसः
प्रणम्य वरदं देवम् उवाच हरिम् ईश्वरम् ॥
का शक्तिर् मम देवेश प्रजाः स्रष्टुं नमो ऽस्तु ते
अप्रज्ञावान् अहं देव विधत्स्व यद् अनन्तरम् ॥
स एवम् उक्तो भगवान् भूत्वाथान्तर्हितस् ततः
चिन्तयाम् आस देवेशो बुद्धिं बुद्धिमतां वरः ॥
स्वरूपिणी ततो बुद्धिर् उपतस्थे हरिं प्रभुम्
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ॥
स ताम् ऐश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम्
उवाच वचनं देवो बुद्धिं वै प्रभुर् अव्ययः ॥
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये
ततस् तम् ईश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः
भूयश् चैनं वचः प्राह सृजेमा विविधाः प्रजाः ॥
एवम् उक्त्वा स भगवांस् तत्रैवान्तरधीयत
प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम् ॥
तां चैव प्रकृतिं प्राप्य एकीभावगतो ऽभवत्
अथास्य बुद्धिर् अभवत् पुनर् अन्या तदा किल ॥
सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना
दैत्यदानवगन्धर्व रक्षोगणसमाकुलाः
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः
भविष्यन्ति तपोयुक्ता वरान् प्राप्स्यन्ति चोत्तमान् ॥
अवश्यम् एव तैः सर्वैर् वरदानेन दर्पितैः
बाधितव्याः सुरगणा ऋषयश् च तपोधनाः
तत्र न्याय्यम् इदं कर्तुं भारावतरणं मया ॥
अथ नानासमुद्भूतैर् वसुधायां यथाक्रमम्
निग्रहेण च पापानां साधूनां प्रग्रहेण च ॥
इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम्
मया ह्य् एषा हि ध्रियते पातालस्थेन भोगिना ॥
मया धृता धारयति जगद् धि सचरा-चरम्
तस्मात् पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥
एवं स चिन्तयित्वा तु भगवान् मधुसूदनः
रूपाण्य् अनेकान्य् असृजत् प्रादुर्भावभवाय सः ॥
वाराहं नारसिंहं च वामनं मानुषं तथा
एभिर् मया निहन्तव्या दुर्विनीताः सुरारयः ॥
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्
सरस्वतीम् उच्चचार तत्र सारस्वतो ऽभवत् ॥
अपान्तरतमा नाम सुतो वाक्संभवो विभोः
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥
तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर
तस्मात् कुरु यथाज्ञप्तं मयैतद् वचनं मुने ॥
तेन भिन्नास् तदा वेदा मनोः स्वायंभुवे ऽन्तरे
ततस् तुतोष भगवान् हरिस् तेनास्य कर्मणा
तपसा च सुतप्तेन यमेन नियमेन च ॥
मन्वन्तरेषु पुत्र त्वम् एवं लोकप्रवर्तकः
भविष्यस्य् अचलो ब्रह्मन्न् अप्रधृष्यश् च नित्यशः ॥
पुनस् तिष्ये च संप्राप्ते कुरवो नाम भारताः
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति
परस्परविनाशार्थं त्वाम् ऋते द्विजसत्तम ॥
तत्राप्य् अनेकधा वेदान् भेत्स्यसे तपसान्वितः
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥
धर्माणां विविधानां च कर्ता ज्ञानकरस् तथा
भविष्यसि तपोयुक्तो न च रागाद् विमोक्ष्यसे ॥
वीतरागश् च पुत्रस् ते परमात्मा भविष्यति
महेश्वरप्रसादेन नैतद् वचनम् अन्यथा ॥
यं मानसं वै प्रवदन्ति पुत्रं
पितामहस्योत्तमबुद्धियुक्तम्
वसिष्ठम् अग्र्यं तपसो निधानं
यश् चापि सूर्यं व्यतिरिच्य भाति
तस्यान्वये चापि ततो महर्2षिः
पराशरो नाम महाप्रभावः
पिता स ते वेदनिधिर् वरिष्ठो
महातपा वै तपसो निवासः
कानीनगर्भः पितृकन्यकायां
तस्माद् ऋषेस् त्वं भविता च पुत्रः
भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः
ये ह्य् अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥
तांश् च सर्वान् मयोद्दिष्टान् द्रक्ष्यसे तपसान्वितः
पुनर् द्रक्ष्यसि चानेक सहस्रयुगपर्ययान् ॥
अनादिनिधनं लोके चक्रहस्तं च मां मुने
अनुध्यानान् मम मुने नैतद् वचनम् अन्यथा ॥
शनैश्चरः सूर्यपुत्रो भविष्यति मनुर् महान्
तस्मिन् मन्वन्तरे चैव सप्तर्1षिगणपूर्वकः
त्वम् एव भविता वत्स मत्प्रसादान् न संशयः ॥
एवं सारस्वतम् ऋषिम् अपान्तरतमं तदा
उक्त्वा वचनम् ईशानः साधयस्वेत्य् अथाब्रवीत् ॥
सो ऽहं तस्य प्रसादेन देवस्य हरिमेधसः
अपान्तरतमा नाम ततो जातो आज्ञया हरेः
पुनश् च जातो विख्यातो वसिष्ठकुलनन्दनः ॥
तद् एतत् कथितं जन्म मया पूर्वकम् आत्मनः
नारायणप्रसादेन तथा नारायणांशजम् ॥
मया हि सुमहत् तप्तं तपः परमदारुणम्
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥
एतद् वः कथितं सर्वं यन् मां पृच्छथ पुत्रकाः
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥
एष ते कथितः पूर्वं संभवो ऽस्मद्गुरोर् नृप_2
व्यासस्या-क्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥
सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा
ज्ञानान्य् एतानि राजर्1षे विद्धि नानामतानि वै ॥
सांख्यस्य वक्ता कपिलः परमर्1षिः स उच्यते
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥
अपान्तरतमाश् चैव वेदाचार्यः स उच्यते
प्राचीनगर्भं तम् ऋषिं प्रवदन्तीह केचन ॥
उमापतिर् भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः
उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम्
सर्वेषु च नृप_2-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः
न चैनम् एवं जानाति तमोभूता विशां पते ॥
तम् एव शास्त्रकर्तारं प्रवदन्ति मनीषिणः
निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः
ससंशयान् हेतुबलान् नाध्यावसति माधवः ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप_2
एकान्तभावोपगतास् ते हरिं प्रविशन्ति वै ॥
सांख्यं च योगं च सनातने द्वे
वेदाश् च सर्वे निखिलेन राजन्
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो
नारायणो विश्वम् इदं पुराणम्
शुभा-शुभं कर्म समीरितं यत्
प्रवर्तते सर्वलोकेषु किंचित्
तस्माद् ऋषेस् तद् भवतीति विद्याद्
दिव्य् अन्तरिक्षे भुवि चाप्सु चापि
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0