नारायणीय · अध्याय 12.336
अहो ह्य् एकान्तिनः सर्वान् प्रीणाति भगवान् हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान् स्वयम् ॥
ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः ॥
चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्
एकान्तिनस् तु पुरुषा गछन्ति परमं पदम् ॥
नूनम् एकान्तधर्मो ऽयं श्रेष्ठो नारायणप्रियः
अगत्वा गतयस् तिस्रो यद् गच्छन्त्य् अव्ययं हरिम् ॥
सहोपनिषदान् वेदान् ये विप्राः सम्यग् आस्थिताः
पठन्ति विधिम् आस्थाय ये चापि यतिधर्मिणः ॥
तेभ्यो विशिष्टां जानामि गतिम् एकान्तिनां नृणाम्
केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥
एकान्तिनां च का चर्या कदा चोत्पादिता विभो
एतन् मे संशयं छिन्धि परं कौतूहलं हि मे ॥
समुपोढेष्व् अनीकेषु कुरुपाण्डवयोर् मृधे
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥
आगतिश् च गतिश् चैव पूर्वं ते कथिता मया
गहनो ह्य् एष धर्मो वै दुर्विज्ञेयो ऽकृतात्मभिः ॥
संमितः सामवेदेन पुरैवादियुगे कृतः
धार्यते स्वयम् ईशेन राजन् नारायणेन ह ॥
एतम् अर्थं महाराज पृष्टः पार्थेन नारदः
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥
गुरुणा च ममाप्य् एष कथितो नृप_2-सत्तम
यथा तु कथितस् तत्र नारदेन तथा शृणु ॥
यदासीन् मानसं जन्म नारायणमुखोद्गतम्
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्
तेन धर्मेण कृतवान् दैवं पित्र्यं च भारत ॥
फेनपा_1 ऋषयश् चैव तं धर्मं प्रतिपेदिरे
वैखानसाः फेनपेभ्यो_1 धर्मम् एतं प्रपेदिरे
वैखानसेभ्यः सोमस् तु ततः सो ऽन्तर्दधे पुनः ॥
यदासीच् चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप_2
तदा पितामहात् सोमाद् एतं धर्मम् अजानत
नारायणात्मकं राजन् रुद्राय प्रददौ च सः ॥
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप_2
वालखिल्यान् ऋषीन् सर्वान् धर्मम् एतम् अपाठयत्
अन्तर्दधे ततो भूयस् तस्य देवस्य मायया ॥
तृतीयं ब्रह्मणो जन्म यदासीद् वाचिकं महत्
तत्रैष धर्मः संभूतः स्वयं नारायणान् नृ
सुपर्णो नाम तम् ऋषिः प्राप्तवान् पुरुषोत्तमात्
तपसा वै सुतप्तेन दमेन नियमेन च ॥
त्रिः परिक्रान्तवान् एतत् सुपर्णो धर्मम् उत्तमम्
यस्मात् तस्माद् व्रतं ह्य् एतत् त्रिसौपर्णम् इहोच्यते ॥
ऋग्वेदपाठपठितं व्रतम् एतद् धि दुश्चरम्
सुपर्णाच् चाप्य् अधिगतो धर्म एष सनातनः ॥
वायुना द्विपदां श्रेष्ठ प्रथितो जगद् आयुषा
वायोः सकाशात् प्राप्तश् च ऋषिभिर् विघसाशिभिः ॥
तेभ्यो महोदधिश् चैनं प्राप्तवान् धर्मम् उत्तमम्
ततः सो ऽन्तर्दधे भूयो नारायणसमाहितः ॥
यदा भूयः श्रवणजा सृष्टिर् आसीन् महात्मनः
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥
जगत् स्रष्टुमना देवो हरिर् नारायणः स्वयम्
चिन्तयाम् आस पुरुषं जगत् सर्गकरं प्रभुः ॥
अथ चिन्तयतस् तस्य कर्णाभ्यां पुरुषः सृतः
प्रजासर्गकरो ब्रह्मा तम् उवाच जगत्पतिः ॥
सृज प्रजाः पुत्र सर्वा मुखतः पादतस् तथा
श्रेयस् तव विधास्यामि बलं तेजश् च सुव्रत ॥
धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि ॥
ततो ब्रह्मा नमश् चक्रे देवाय हरिमेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्
आरण्यकेन सहितं नारायणमुखोद्गतम् ॥
उपदिश्य ततो धर्मं ब्रह्मणे ऽमिततेजसे
तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम्
जगाम तमसः पारं यत्रा-व्यक्तं व्यवस्थितम् ॥
ततो ऽथ वरदो देवो ब्रह्मलोकपितामहः
असृजत् स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥
ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
ततो हि सात्वतो धर्मो व्याप्य लोकान् अवस्थितः ॥
तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्
पूजयाम् आस देवेशं हरिं नारायणं प्रभुम् ॥
धर्मप्रतिष्ठाहेतोश् च मनुं स्वारोचिषं ततः
अध्यापयाम् आस तदा लोकानां हितकाम्यया ॥
ततः स्वारोचिषः पुत्रं वयं शङ्खपदं नृप_2
अध्यापयत् पुरा-व्यग्रः सर्वलोकपतिर् विभुः ॥
ततः शङ्खपदश् चापि पुत्रम् आत्मजम् औरसम्
दिशापालं सुधर्माणम् अध्यापयत भारत
ततः सो ऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः ॥
नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
धर्मम् एतं स्वयं देवो हरिर् नारायणः प्रभुः
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस् तदा ॥
सनत्कुमारो भगवांस् ततः प्राधीतवान् नृप_2
सनत्कुमाराद् अपि च वीरणो वै प्रजापतिः
कृतादौ कुरुशार्दूल धर्मम् एतम् अधीतवान् ॥
वीरणश् चाप्य् अधीत्यैनं रौच्याय मनवे ददौ
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥
कुक्षिनाम्ने ऽथ प्रददौ दिशां पालाय धर्मिणे
ततः सो ऽन्तर्दधे भूयो नारायणमुखोद्गतः ॥
अण्डजे जन्मनि पुनर् ब्रह्मणे हरियोनये
एष धर्मः समुद्भूतो नारायणमुखात् पुनः ॥
गृहीतो ब्रह्मणा राजन् प्रयुक्तश् च यथाविधि
अध्यापिताश् च मुनयो नाम्ना बर्हिषदो नृ
बर्हिषद्भ्यश् च संक्रान्तः सामवेदान्तगं_1 द्विजम्
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥
ज्येष्ठाच् चाप्य् अनुसंक्रान्तो राजानम् अविकम्पनम्
अन्तर्दधे ततो राजन्न् एष धर्मः प्रभोर् हरेः ॥
यद् इदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप_2
तत्रैष धर्मः कथितः स्वयं नारायणेन हि ॥
पितामहाय शुद्धाय युगादौ लोकधारिणे
पितामहश् च दक्षाय धर्मम् एतं पुरा ददौ ॥
ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृप_2-उत्तम
आदित्ये सवितुर् ज्येष्ठे विवस्वाञ् जगृहे ततः ॥
त्रेतायुगादौ च पुनर् विवस्वान् मनवे ददौ
मनुश् च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥
इक्ष्वाकुणा च कथितो व्याप्य लोकान् अवस्थितः
गमिष्यति क्षयान्ते च पुनर् नारायणं नृ
व्रतिनां चापि यो धर्मः स ते पूर्वं नृप_2-उत्तम
कथितो हरिगीतासु समासविधिकल्पितः ॥
नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः
एष धर्मो जगन्नाथात् साक्षान् नारायणान् नृ
एवम् एष महान् धर्म आद्यो राजन् सनातनः
दुर्विज्ञेयो दुष्करश् च सात्वतैर् धार्यते सदा ॥
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
अहिंसाधर्मयुक्तेन प्रीयते हरिर् ईश्वरः ॥
एकव्यूहविभागो वा क्वचिद् द्विव्यूहसंज्ञितः
त्रिव्यूहश् चापि संख्यातश् चतुर्व्यूहश् च दृश्यते ॥
हरिर् एव हि क्षेत्रज्ञो निर्ममो निष्कलस् तथा
जीवश् च सर्वभूतेषु पञ्चभूतगुणातिगः ॥
मनश् च प्रथितं राजन् पञ्चेन्द्रियसमीरणम्
एष लोकनिधिर् धीमान् एष लोकविसर्गकृत् ॥
अकर्ता चैव कर्ता च कार्यं कारणम् एव च
यथेच्छति तथा राजन् क्रीडते पुरुषो ऽव्ययः ॥
एष एकान्तिधर्मस् ते कीर्तितो नृप_2-सत्तम
मया गुरुप्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृ
यद्य् एकान्तिभिर् आकीर्णं जगत् स्यात् कुरुनन्दन
अहिंसकैर् आत्मविद्भिः सर्वभूतहिते रतैः
भवेत् कृतयुगप्राप्तिर् आशीःकर्मविवर्जितैः ॥
एवं स भगवान् व्यासो गुरुर् मम विशां पते
कथयाम् आस धर्मज्ञो धर्मराज्ञे द्विजोत्तमः ॥
ऋषीणां संनिधौ राजञ् शृण्वतोः कृष्णभीष्मयोः
तस्याप्य् अकथयत् पूर्वं नारदः सुमहातपाः ॥
देवं परमकं ब्रह्म श्वेतं चन्द्राभम् अच्युतम्
यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥
एवं बहुविधं धर्मं प्रतिबुद्धैर् निषेवितम्
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥
तिस्रः प्रकृतयो राजन् देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चेति भारत ॥
देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
सात्त्विकः पुरुषव्याघ्र भवेन् मोक्षार्थनिश्चितः ॥
अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्
नारायणपरो मोक्षस् ततो वै सात्त्विकः स्मृतः ॥
मनीषितं च प्राप्नोति चिन्तयन् पुरुषोत्तमम्
एकान्तभक्तिः सततं नारायणपरायणः ॥
मनीषिणो हि ये केचिद् यतयो मोक्षकाङ्क्षिणः
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः
सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः ॥
सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः
नारायणात्मके मोक्षे ततो यान्ति परां गतिम् ॥
नारायणेन दृष्टश् च प्रतिबुद्धो भवेत् पुमान्
एवम् आत्मेच्छया राजन् प्रतिबुद्धो न जायते ॥
राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते
तदात्मकं हि पुरुषं जायमानं विशां पते
प्रवृत्तिलक्षणैर् युक्तं नावेक्षति हरिः स्वयम् ॥
पश्यत्य् एनं जायमानं ब्रह्मा लोकपितामहः
रजसा तमसा चैव मानुषं समभिप्लुतम् ॥
कामं देवाश् च ऋषयः सत्त्वस्था नृप_2-सत्तम
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥
कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्
सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिर् अक्षरैः
पुरुषः पुरुषं गच्छेन् निष्क्रियः पञ्चविंशकम् ॥
एवम् एकं सांख्ययोगं वेदारण्यकम् एव च
परस्पराङ्गान्य् एतानि पञ्चरात्रं च कथ्यते
एष एकान्तिनां धर्मो नारायणपरात्मकः ॥
यथा समुद्रात् प्रसृता जलौघास्
तम् एव राजन् पुनर् आविशन्ति
इमे तथा ज्ञानमहाजलौघा
नारायणं वै पुनर् आविशन्ति
एष ते कथितो धर्मः सात्वतो यदुबान्धव
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥
एवं हि सुमहाभागो नारदो गुरवे मम
श्वेतानां यतिनाम् आह एकान्तगतिम् अव्ययाम् ॥
व्यासश् चाकथयत् प्रीत्या धर्मपुत्राय धीमते
स एवायं मया तुभ्यम् आख्यातः प्रसृतो गुरोः ॥
इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥
कृष्ण एव हि लोकानां भावनो मोहनस् तथा
संहारकारकश् चैव कारणं च विशां पते ॥
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0