नारायणीय · अध्याय 12.335
श्रुतं भगवतस् तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ॥
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः
स तथा नः श्रुतो ब्रह्मन् कथ्यमानस् त्वयानघ ॥
यच् च तत् कथितं पूर्वं त्वया हयशिरो महत्
हव्यकव्यभुजो विष्णोर् उदक्पूर्वे महोदधौ
तच् च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥
किं तद् उत्पादितं पूर्वं हरिणा लोकधारिणा
रूपं प्रभावमहताम् अपूर्वं धीमतां वर ॥
दृष्ट्वा हि विबुधश्रेष्ठम् अपूर्वम् अमितौजसम्
तद् अश्वशिरसं पुण्यं ब्रह्मा किम् अकरोन् मुने ॥
एतन् नः संशयं ब्रह्मन् पुराणज्ञानसंभवम्
कथयस्वोत्तममते महापुरुषनिर्मितम्
पाविताः स्म त्वया ब्रह्मन् पुण्यां कथयता कथाम् ॥
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्
जगौ यद् भगवान् व्यासो राज्ञो धर्मसुतस्य वै ॥
श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः
उत्पन्नसंशयो राजा तम् एव समचोदयत् ॥
यत् तद् दर्शितवान् ब्रह्मा देवं हयशिरोधरम्
किमर्थं तत् समभवद् वपुर् देवोपकल्पितम् ॥
यत् किंचिद् इह लोके वै देहबद्धं विशां पते
सर्वं पञ्चभिर् आविष्टं भूतैर् ईश्वरबुद्धिजैः ॥
ईश्वरो हि जगत्स्रष्टा प्रभुर् नारायणो विराट्
भूतान्तरात्मा वरदः सगुणो निर्गुणो ऽपि च
भूतप्रलयम् अव्यक्तं शृणुष्व नृप_2-सत्तम ॥
धरण्याम् अथ लीनायाम् अप्सु चैकार्णवे पुरा
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥
वायौ चाकाशसंलीने आकाशे च मनोअनुगे
व्यक्ते मनसि संलीने व्यक्ते चा-व्यक्ततां
अव्यक्ते पुरुषं याते पुंसि सर्वगते_1 ऽपि च
तम एवाभवत् सर्वं न प्राज्ञायत किंचन ॥
तमसो ब्रह्म संभूतं तमोमूलम् ऋतात्मकम्
तद् विश्वभावसंज्ञान्तं पौरुषीं तनुम् आस्थितम् ॥
सो ऽनिरुद्ध इति प्रोक्तस् तत् प्रधानं प्रचक्षते
तद् अव्यक्तम् इति ज्ञेयं त्रिगुणं नृप_2-सत्तम ॥
विद्यासहायवान् देवो विष्वक्सेनो हरिः प्रभुः
अप्स्व् एव शयनं चक्रे निद्रायोगम् उपागतः
जगतश् चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् ॥
तस्य चिन्तयतः सृष्टिं महान् आत्मगुणः स्मृतः
अहंकारस् ततो जातो ब्रह्मा शुभचतुर्मुखः
हिरण्यगर्भो भगवान् सर्वलोकपितामहः ॥
पद्मे ऽनिरुद्धात् संभूतस् तदा पद्मनिभेक्षणः
सहस्रपत्रे द्युतिमान् उपविष्टः सनातनः ॥
ददृशे ऽद्भुतसंकाशे लोकान् आपोमयान् प्रभुः
सत्त्वस्थः परमेष्ठी स ततो भूतगणान् सृजत् ॥
पूर्वम् एव च पद्मस्य पत्रे सूर्यांशुसप्रभे
नारायणकृतौ बिन्दू अपाम् आस्तां गुणोत्तरौ ॥
ताव् अपश्यत् स भगवान् अनादिनिधनो ऽच्युतः
एकस् तत्राभवद् बिन्दुर् मध्वाभो रुचिरप्रभः ॥
स तामसो मधुर् जातस् तदा नारायणाज्ञया
कठिनस् त्व् अपरो बिन्दुः कैटभो राजसस् तु सः ॥
ताव् अभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥
ददृशाते ऽरविन्दस्थं ब्रह्माणम् अमितप्रभम्
सृजन्तं प्रथमं वेदांश् चतुरश् चारुविग्रहान् ॥
ततो विग्रहवन्तौ तौ वेदान् दृष्ट्वासुरोत्तमौ
सहसा जगृहतुर् वेदान् ब्रह्मणः पश्यतस् तदा ॥
अथ तौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान्
रसां विविशतुस् तूर्णम् उदक्पूर्वे महोदधौ ॥
ततो हृतेषु वेदेषु ब्रह्मा कश्मलम् आविशत्
ततो वचनम् ईशानं प्राह वेदैर् विनाकृतः ॥
वेदा मे परमं चक्षुर् वेदा मे परमं बलम्
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम् ॥
मम वेदा हृताः सर्वे दानवाभ्यां बलाद् इतः
अन्धकारा हि मे लोका जाता वेदैर् विनाकृताः
वेदान् ऋते हि किं कुर्यां लोकान् वै स्रष्टुम् उद्यतः ॥
अहो बत महद् दुःखं वेदनाशनजं मम
प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन् ॥
को हि शोकार्णवे मग्नं माम् इतो ऽद्य समुद्धरेत्
वेदांस् तान् आनयेन् नष्टान् कस्य चाहं प्रियो भवे ॥
इत्य् एवं भाषमाणस्य ब्रह्मणो नृप_2-सत्तम
हरेः स्तोत्रार्थम् उद्भूता बुद्धिर् बुद्धिमतां वर
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥
नमस् ते ब्रह्महृदय नमस् ते मम पूर्वज
लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो ॥
व्यक्ता-व्यक्तकरा-चिन्त्य क्षेमं पन्थानम् आस्थित
विश्वभुक् सर्वभूतानाम् अन्तरात्मन्न् अयोनिज ॥
अहं प्रसादजस् तुभ्यं लोकधाम्ने स्वयंभुवे
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥
चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम्
त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत् ॥
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो
नासिक्यं चापि मे जन्म त्वत्तः पञ्चमम् उच्यते ॥
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्
इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ ॥
सर्गे सर्गे ह्य् अहं पुत्रस् तव त्रिगुणवर्जितः
प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः ॥
त्वम् ईश्वरस्वभावश् च स्वयंभूः पुरुषोत्तमः
त्वया विनिर्मितो ऽहं वै वेदचक्षुर् वयोअतिगः ॥
ते मे वेदा हृताश् चक्षुर् अन्धो जातो ऽस्मि जागृहि
ददस्व चक्षुषी मह्यं प्रियो ऽहं ते प्रियो ऽसि मे ॥
एवं स्तुतः स भगवान् पुरुषः सर्वतोमुखः
जहौ निद्राम् अथ तदा वेदकार्यार्थम् उद्यतः
ऐश्वरेण प्रयोगेण द्वितीयां तनुम् आस्थितः ॥
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस् तदा
कृत्वा हयशिरः शुभ्रं वेदानाम् आलयं प्रभुः ॥
तस्य मूर्धा समभवद् द्यौः सनक्षत्रतारका
केशाश् चास्याभवन् दीर्घा रवेर् अंशुसमप्रभाः ॥
कर्णाव् आकाशपाताले ललाटं भूतधारिणी
गङ्गा सरस्वती पुण्या भ्रुवाव् आस्तां महानदी ॥
चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता
ओंकारस् त्व् अथ संस्कारो विद्युज् जिह्वा च निर्मिता ॥
दन्ताश् च पितरो राजन् सोमपा इति विश्रुताः
गोलोको ब्रह्मलोकश् च ओष्ठाव् आस्तां महात्मनः
ग्रीवा चास्याभवद् राजन् कालरात्रिर् गुणोत्तरा ॥
एतद् धयशिरः कृत्वा नानामूर्तिभिर् आवृतम्
अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः ॥
रसां पुनः प्रविष्टश् च योगं परमम् आस्थितः
शैक्षं स्वरं समास्थाय ओम् इति प्रासृजत् स्वरम् ॥
स स्वरः सानुनादी च सर्वगः_1 स्निग्ध एव च
बभूवान्तर्महीभूतः सर्वभूतगुणोदितः ॥
ततस् ताव् असुरौ कृत्वा वेदान् समयबन्धनान्
रसातले विनिक्षिप्य यतः शब्दस् ततो द्रुतौ ॥
एतस्मिन्न् अन्तरे राजन् देवो हयशिरोधरः
जग्राह वेदान् अखिलान् रसातलगतान् हरिः
प्रादाच् च ब्रह्मणे भूयस् ततः स्वां प्रकृतिं गतः ॥
स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ
वेदानाम् आलयश् चापि बभूवाश्वशिरास् ततः ॥
अथ किंचिद् अपश्यन्तौ दानवौ मधुकैटभौ
पुनर् आजग्मतुस् तत्र वेगितौ पश्यतां च तौ
यत्र वेदा विनिक्षिप्तास् तत् स्थानं शून्यम् एव च ॥
तत उत्तमम् आस्थाय वेगं बलवतां वरौ
पुनर् उत्तस्थतुः शीघ्रं रसानाम् आलयात् तदा
ददृशाते च पुरुषं तम् एवादिकरं प्रभुम् ॥
श्वेतं चन्द्रविशुद्धाभम् अनिरुद्धतनौ स्थितम्
भूयो ऽप्य् अमितविक्रान्तं निद्रायोगम् उपागतम् ॥
आत्मप्रमाणरचिते अपाम् उपरि कल्पिते
शयने नागभोगाढ्ये ज्वालामालासमावृते ॥
निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम्
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम् अमुञ्चताम् ॥
ऊचतुश् च समाविष्टौ रजसा तमसा च तौ
अयं स पुरुषः श्वेतः शेते निद्राम् उपागतः ॥
अनेन नूनं वेदानां कृतम् आहरणं रसात्
कस्यैष को नु खल्व् एष किं च स्वपिति भोगवान् ॥
इत्य् उच्चारितवाक्यौ तौ बोधयाम् आसतुर् हरिम्
युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे
अथ युद्धं समभवत् तयोर् नारायणस्य च ॥
रजस्तमोविष्टतनू ताव् उभौ मधुकैटभौ
ब्रह्मणोपचितिं कुर्वञ् जघान मधुसूदनः ॥
ततस् तयोर् वधेनाशु वेदापहरणेन च
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥
ततः परिवृतो ब्रह्मा हतारिर् वेदसत्कृतः
निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥
दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम्
तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥
तौ दानवौ हरिर् हत्वा कृत्वा हयशिरस् तनुम्
पुनः प्रवृत्तिधर्मार्थं ताम् एव विदधे तनुम् ॥
एवम् एष महाभागो बभूवाश्वशिरा हरिः
पौराणम् एतद् आख्यातं रूपं वरदं ऐश्वरम् ॥
यो ह्य् एतद् ब्राह्मणो नित्यं शृणुयाद् धारयेत वा
न तस्याध्ययनं नाशम् उपगच्छेत् कदाचन ॥
आराध्य तपसोग्रेण देवं हयशिरोधरम्
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥
एतद् धयशिरो राजन्न् आख्यानं तव कीर्तितम्
पुराणं वेदसमितं यन् मां त्वं परिपृच्छसि ॥
यां याम् इच्छेत् तनुं देवः कर्तुं कार्यविधौ क्वचित्
तां तां कुर्याद् विकुर्वाणः स्वयम् आत्मानम् आत्मना ॥
एष वेदनिधिः श्रीमान् एष वै तपसो निधिः
एष योगश् च सांख्यं च ब्रह्म चाग्र्यं हरिर् विभुः ॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः
तपो नारायणपरं नारायणपरा गतिः ॥
नारायणपरं सत्यम् ऋतं नारायणात्मकम्
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥
प्रवृत्तिलक्षणश् चैव धर्मो नारायणात्मकः
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥
अपां चैव गुणो राजन् रसो नारायणात्मकः
ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥
नारायणात्मकश् चापि स्पर्शो वायुगुणः स्मृतः
नारायणात्मकश् चापि शब्द आकाशसंभवः ॥
मनश् चापि ततो भूतम् अव्यक्तगुणलक्षणम्
नारायणपरः कालो ज्योतिषाम् अयनं च यत् ॥
नारायणपरा कीर्तिः श्रीश् च लक्ष्मीश् च देवताः
नारायणपरं सांख्यं योगो नारायणात्मकः ॥
कारणं पुरुषो येषां प्रधानं चापि कारणम्
स्वभावश् चैव कर्माणि दैवं येषां च कारणम् ॥
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥
तत्त्वम् एको महायोगी हरिर् नारायणः प्रभुः
सब्रह्मकानां लोकानाम् ऋषीणां च महात्मनाम् ॥
सांख्यानां योगिनां चापि यतीनाम् आत्मवेदिनाम्
मनीषितं विजानाति केशवो न तु तस्य ते ॥
ये केचित् सर्वलोकेषु दैवं पित्र्यं च कुर्वते
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥
सर्वेषाम् आश्रयो विष्णुर् ऐश्वरं विधिम् आस्थितः
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥
अयं हि नित्यः परमो महर्2षिर्
महाविभूतिर् गुणवान् निर्गुणाख्यः
गुणैश् च संयोगम् उपैति शीघ्रं
कालो यथर्2ताव् ऋतुसंप्रयुक्तः
नैवास्य विन्दन्ति गतिं महात्मनो
न चागतिं कश्चिद् इहानुपश्यति
ज्ञानात्मकाः संयमिनो महर्2षयः
पश्यन्ति नित्यं पुरुषं गुणाधिकम्
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0