नारायणीय · अध्याय 12.334
श्रुत्वैतन् नारदो वाक्यं नरनारायणेरितम्
अत्यन्तभक्तिमान् देवे एकान्तित्वम् उपेयिवान् ॥
प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिम् अव्ययम्
हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ॥
ताव् अपि ख्याततपसौ नरनारायणाव् ऋषी
तस्मिन्न् एवाश्रमे रम्ये तेपतुस् तप उत्तमम् ॥
त्वम् अप्य् अमितविक्रान्तः पाण्डवानां कुलोद्वहः
पावितात्माद्य संवृत्तः श्रुत्वेमाम् आदितः कथाम् ॥
नैव तस्य परो लोको नायं पार्थिवसत्तम
कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम् ॥
मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः
यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम् ॥
कथं नाम भवेद् द्वेष्य आत्मा लोकस्य कस्यचित्
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुर् इति स्थितिः ॥
य एष गुरुर् अस्माकम् ऋषिर् गन्धवतीसुतः
तेनैतत् कथितं तात माहात्म्यं परमात्मनः
तस्माच् छ्रुतं मया चेदं कथितं च तवानघ ॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्
को ह्य् अन्यः पुरुषव्याघ्र महाभारतकृद् भवेत्
धर्मान् नानाविधांश् चैव को ब्रूयात् तम् ऋते प्रभुम् ॥
वर्ततां ते महायज्ञो यथा संकल्पितस् त्वया
संकल्पिताश्वमेधस् त्वं श्रुतधर्मश् च तत्त्वतः ॥
एतत् तु महद् आख्यानं श्रुत्वा पारिक्षितो नृपः_2
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥
नारायणीयम् आख्यानम् एतत् ते कथितं मया
नारदेन पुरा राजन् गुरवे मे निवेदितम्
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥
स हि परमगुरुर् भुवनपतिर्
धरणिधरः शमनियमनिधिः
श्रुतिविनयनिधिर् द्विजपरमहितस्
तव भवतु गतिर् हरिर् अमरहितः
तपसां निधिः सुमहतां महतो
यशसश् च भाजनम् अरिष्टकहा
एकान्तिनां शरणदो ऽभयदो गतिदो ऽस्तु वः स मखभागहरस् त्रिगुणातिगः
चतुष्पञ्चधरः पूर्तेष्टयोश् च फलभागहरः
विदधाति नित्यम् अजितो ऽतिबलो
गतिम् आत्मगां_1 सुकृतिनाम् ऋषिणाम्
तं लोकसाक्षिणम् अजं पुरुषं
रविवर्णम् ईश्वरगतिं बहुशः
प्रणमध्वम् एकमतयो यतयः
सलिलोद्भवो ऽपि तम् ऋषिं प्रणतः
स हि लोकयोनिर् अमृतस्य पदं
सूक्ष्मं पुराणम् अचलं परमम्
तत् सांख्ययोगिभिर् उदारधृतं
बुद्ध्या यतात्मभिर् विदितं सततम्
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0