भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.333

12.333.1

कस्यचित् त्व् अथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥

12.333.2

ततस् तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥

12.333.3

त्वया मतिमतां श्रेष्ठ तन् मे शंस यथागमम्
किम् एतत् क्रियते कर्म फलं चास्य किम् इष्यते ॥

12.333.4

त्वयैतत् कथितं पूर्वं दैवं कर्तव्यम् इत्य् अपि
दैवतं च परो यज्ञः परमात्मा सनातनः ॥

12.333.5

ततस् तद्भावितो नित्यं यजे वैकुण्ठम् अव्ययम्
तस्माच् च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥

12.333.6

मम वै पितरं प्रीतः परमेष्ठ्य् अप्य् अजीजनत्
अहं संकल्पजस् तस्य पुत्रः प्रथमकल्पितः ॥

12.333.7

यजाम्य् अहं पितॄन् साधो नारायणविधौ कृते
एवं स एव भगवान् पिता माता पितामहः
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥

12.333.8

श्रुतिश् चाप्य् अपरा देव पुत्रान् हि पितरो ऽयजन्
वेदश्रुतिः प्रणष्टा च पुनर् अध्यापिता सुतैः
ततस् ते मन्त्रदाः पुत्राः पितृत्वम् उपपेदिरे ॥

12.333.9

नूनं पुरैतद् विदितं युवयोर् भावितात्मनोः
पुत्राश् च पितरश् चैव परस्परम् अपूजयन् ॥

12.333.10

त्रीन् पिण्डान् न्यस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान् इति
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥

12.333.11

नरनारायणाव् ऊचतुः: इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम्
गोविन्द उज्जहाराशु वाराहं रूपम् आश्रितः ॥

12.333.12

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः
जलकर्दमलिप्ताङ्गो लोककार्यार्थम् उदयतः ॥

12.333.13

प्राप्ते चाह्निककाले स मध्यंदिनगते_1 रवौ
दंष्ट्राविलग्नान् मृत्पिण्डान् विधूय सहसा प्रभुः
स्थापयाम् आस वै पृथ्व्यां कुशान् आस्तीर्य नारद ॥

12.333.14

स तेष्व् आत्मानम् उद्दिश्य पित्र्यं चक्रे यथाविधि
संकल्पयित्वा त्रीन् पिण्डान् स्वेनैव विधिना प्रभुः ॥

12.333.15

आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस् तिलैर् अपि
प्रोक्ष्यापवर्गं देवेशः प्राङ्मुखः कृतवान् स्वयम् ॥

12.333.16

मर्यादास्थापनार्थं च ततो वचनम् उक्तवान्
अहं हि पितरः स्रष्टुम् उद्यतो लोककृत् स्वयम् ॥

12.333.17

तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम्
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम्
आश्रिता धरणीं पिण्डास् तस्मात् पितर एव ते ॥

12.333.18

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास् त्व् इमे
भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥

12.333.19

पिता पितामहश् चैव तथैव प्रपितामहः
अहम् एवात्र विज्ञेयस् त्रिषु पिण्डेषु संस्थितः ॥

12.333.20

नास्ति मत्तो ऽधिकः कश्चित् को वाभ्यर्च्यो मया स्वयम्
को वा मम पिता लोके अहम् एव पितामहः ॥

12.333.21

पितामहपिता चैव अहम् एवात्र कारणम्
इत्य् एवम् उक्त्वा वचनं देवदेवो वृषाकपिः ॥

12.333.22

वराहपर्वते विप्र दत्त्वा पिण्डान् सविस्तरान्
आत्मानं पूजयित्वैव तत्रैवा-दर्शनं गतः ॥

12.333.23

एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः
लभन्ते सततं पूजां वृषाकपिवचो यथा ॥

12.333.24

ये यजन्ति पितॄन् देवान् गुरूंश् चैवातिथींस् तथा
गाश् चैव द्विजमुख्यांश् च पृथिवीं मातरं तथा
कर्मणा मनसा वाचा विष्णुम् एव यजन्ति ते ॥

12.333.25

अन्तर्गतः स भगवान् सर्वसत्त्वशरीरगः_1
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः
महान् महात्मा सर्वात्मा नारायण इति श्रुतः ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc