भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.332

12.332.1

नरनारायणाव् ऊचतुः: धन्यो ऽस्य् अनुगृहीतो ऽसि यत् ते दृष्टः स्वयं प्रभुः
न हि तं दृष्टवान् कश्चित् पद्मयोनिर् अपि स्वयम् ॥

12.332.2

अव्यक्तयोनिर् भगवान् दुर्दर्शः पुरुषोत्तमः
नारदैतद् धि ते सत्यं वचनं समुदाहृतम् ॥

12.332.3

नास्य भक्तैः प्रियतरो लोके कश्चन विद्यते
ततः स्वयं दर्शितवान् स्वम् आत्मानं द्विजोत्तमम् ॥

12.332.4

तपो हि तप्यतस् तस्य यत् स्थानं परमात्मनः
न तत् संप्राप्नुते कश्चिद् ऋते ह्य् आवां द्विजोत्तम ॥

12.332.5

या हि सूर्यसहस्रस्य समस्तस्य भवेद् द्युतिः
स्थानस्य सा भवेत् तस्य स्वयं तेन विराजता ॥

12.332.6

तस्माद् उत्तिष्ठते विप्र देवाद् विश्वभुवः पतेः
क्षमा क्षमावतां श्रेष्ठ यया भूमिस् तु युज्यते ॥

12.332.7

तस्माच् चोत्तिष्ठते देवात् सर्वभूतहितो रसः
आपो येन हि युज्यन्ते द्रवत्वं प्राप्नुवन्ति च ॥

12.332.8

तस्माद् एव समुद्भूतं तेजो रूपगुणात्मकम्
येन स्म युज्यते सूर्यस् ततो लोकान् विराजते ॥

12.332.9

तस्माद् देवात् समुद्भूतः स्पर्शस् तु पुरुषोत्तमात्
येन स्म युज्यते वायुस् ततो लोकान् विवात्य् असौ ॥

12.332.10

तस्माच् चोत्तिष्ठते शब्दः सर्वलोकेश्वरात् प्रभोः
आकाशं युज्यते येन ततस् तिष्ठत्य् असंवृतम् ॥

12.332.11

तस्मात् चोत्तिष्ठते देवात् सर्वभूतगतं मनः
चन्द्रमा येन संयुक्तः प्रकाशगुणधारणः ॥

12.332.12

षड्भूतोत्पादकं नाम तत् स्थानं वेदसंज्ञितम्
विद्यासहायो यत्रास्ते भगवान् हव्यकव्यभुक् ॥

12.332.13

ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः
तेषां वै क्षेमम् अध्वानं गच्छतां द्विजसत्तम
सर्वलोकतमोहन्ता आदित्यो द्वारम् उच्यते ॥

12.332.14

आदित्यदग्धसर्वाङ्गा अदृश्याः केनचित् क्वचित्
परमाणुभूता भूत्वा तु तं देवं प्रविशन्त्य् उत ॥

12.332.15

तस्माद् अपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः
मनोभूतास् ततो भूयः प्रद्युम्नं प्रविशन्त्य् उत ॥

12.332.16

प्रद्युम्नाच् चापि निर्मुक्ता जीवं संकर्षणं तथा
विशन्ति विप्रप्रवराः सांख्या भागवतैः सह ॥

12.332.17

ततस् त्रैगुण्यहीनास् ते परमात्मानम् अञ्जसा
प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम्
सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः ॥

12.332.18

समाहितमनस्काश् च नियताः संयतेन्द्रियाः
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥

12.332.19

आवाम् अपि च धर्मस्य गृहे जातौ द्विजोत्तम
रम्यां विशालाम् आश्रित्य तप उग्रं समास्थितौ ॥

12.332.20

ये तु तस्यैव देवस्य प्रादुर्भावाः सुरप्रियाः
भविष्यन्ति त्रिलोकस्थास् तेषां स्वस्तीत्य् अतो द्विज ॥

12.332.21

विधिना स्वेन युक्ताभ्यां यथापूर्वं द्विजोत्तम
आस्थिताभ्यां सर्वकृच्छ्रं व्रतं सम्यक् तद् उत्तमम् ॥

12.332.22

आवाभ्याम् अपि दृष्टस् त्वं श्वेतद्वीपे तपोधन
समागतो भगवता संजल्पं कृतवान् यथा ॥

12.332.23

सर्वं हि नौ संविदितं त्रैलोक्ये सचरा-चरे
यद् भविष्यति वृत्तं वा वर्तते वा शुभा-शुभम् ॥

12.332.24

एतच् छ्रुत्वा तयोर् वाक्यं तपस्य् उग्रे ऽभ्यवर्तत
नारदः प्राञ्जलिर् भूत्वा नारायणपरायणः ॥

12.332.25

जजाप विधिवन् मन्त्रान् नारायणगतान् बहून्
दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे ॥

12.332.26

अवसत् स महातेजा नारदो भगवान् ऋषिः
तम् एवाभ्यर्चयन् देवं नरनारायणौ च तौ ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc