नारायणीय · अध्याय 12.331
ब्रह्मन् सुमहद् आख्यानं भवता परिकीर्तितम्
यच् छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥
इदं शतसहस्राद् धि भारताख्यानविस्तरात्
आमथ्य मतिमन्थेन ज्ञानोदधिम् अनुत्तमम् ॥
नवनीतं यथा दध्नो मलयाच् चन्दनं यथा
आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा ॥
समुद्धृतम् इदं ब्रह्मन् कथा-मृतम् अनुत्तमम्
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ॥
स हीशो भगवान् देवः सर्वभूतात्मभावनः
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ॥
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः
ऋषयश् च सगन्धर्वा यच् च किंचिच् चरा-चरम्
न ततो ऽस्ति परं मन्ये पावनं दिवि चेह च ॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्
न तथा फलदं चापि नारायणकथा यथा ॥
सर्वथा पाविताः स्मेह श्रुत्वेमाम् आदितः कथाम्
हरेर् विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥
न चित्रं कृतवांस् तत्र यद् आर्यो मे धनंजयः
वासुदेवसहायो यः प्राप्तवाञ् जयम् उत्तमम् ॥
न चास्य किंचिद् अप्राप्यं मन्ये लोकेष्व् अपि त्रिषु
त्रैलोक्यनाथो विष्णुः स यस्यासीत् साह्यकृत् सखा ॥
धन्याश् च सर्वए एवासन् ब्रह्मंस् ते मम पूर्वकाः
हिताय श्रेयसे चैव येषाम् आसीज् जनार्दनः ॥
तपसापि न दृश्यो हि भगवांल् लोकपूजितः
यं दृष्टवन्तस् ते साक्षाच् छ्रीवत्साङ्कविभूषणम् ॥
तेभ्यो धन्यतरश् चैव नारदः परमेष्ठिजः
न चाल्पतेजसम् ऋषिं वेद्मि नारदम् अव्ययम्
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥
देवप्रसादानुगतं व्यक्तं तत् तस्य दर्शनम्
यद् दृष्टवांस् तदा देवम् अनिरुद्धतनौ स्थितम् ॥
बदरीम् आश्रमं यत् तु नारदः प्राद्रवत् पुनः
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥
श्वेतद्वीपान् निवृत्तश् च नारदः परमेष्ठिजः
बदरीम् आश्रमं प्राप्य समागम्य च ताव् ऋषी ॥
कियन्तं कालम् अवसत् काः कथाः पृष्टवांश् च सः
श्वेतद्वीपाद् उपावृत्ते तस्मिन् वा सुमहात्मनि ॥
किम् अब्रूतां महात्मानौ नरनारायणाव् ऋषी
तद् एतन् मे यथातत्त्वं सर्वम् आख्यातुम् अर्हसि ॥
नमो भगवते तस्मै व्यासाया-मिततेजसे
यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् ॥
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिम् अव्ययम्
निवृत्तो नारदो राजंस् तरसा मेरुम् आगमत्
हृदयेनोद्वहन् भारं यद् उक्तं परमात्मना ॥
पश्चाद् अस्याभवद् राजन्न् आत्मनः साध्वसं महत्
यद् गत्वा दूरम् अध्वानं क्षेमी पुनर् इहागतः ॥
ततो मेरोः प्रचक्राम पर्वतं गन्धमादनम्
निपपात च खात् तूर्णं विशालां बदरीम् अनु ॥
ततः स ददृशे देवौ पुराणाव् ऋषिसत्तमौ
तपश् चरन्तौ सुमहद् आत्मनिष्ठौ महाव्रतौ ॥
तेजसाभ्यधिकौ सूर्यात् सर्वलोकविरोचनात्
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥
जालपादभुजौ_2 तौ तु पादयोश् चक्रलक्षणौ
व्यूढोरस्कौ दीर्घभुजौ_2 तथा मुष्कचतुष्किणौ ॥
षष्टिदन्ताव् अष्टदंष्ट्रौ मेघौघसदृशस्वनौ
स्वास्यौ पृथुललाटौ च सुहनू सुभ्रुनासिकौ ॥
आतपत्रेण सदृशे शिरसी देवयोस् तयोः
एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ॥
तौ दृष्ट्वा नारदो हृष्टस् ताभ्यां च प्रतिपूजितः
स्वागतेनाभिभाष्याथ पृष्टश् चानामयं तदा ॥
बभूवान्तर्गतमतिर् निरीक्ष्य पुरुषोत्तमौ
सदोगतास् तत्र ये वै सर्वभूतनमस्कृताः ॥
श्वेतद्वीपे मया दृष्टास् तादृशाव् ऋषिसत्तमौ
इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम्
उपोपविवेशे तत्र पीठे कुशमये शुभे ॥
ततस् तौ तपसां वासौ यशसां तेजसाम् अपि
ऋषी शमदमोपेतौ कृत्वा पूर्वाह्णिकं विधिम् ॥
पश्चान् नारदम् अव्यग्रौ पाद्यार्घ्याभ्यां प्रपूज्य च
पीठयोश् चोपविष्टौ तौ कृतातिथ्याह्निकौ नृ
तेषु तत्रोपविष्टेषु स देशो ऽभिव्यराजत
आज्याहुतिमहाज्वालैर् यज्ञवाटो ऽग्निभिर् यथा ॥
अथ नारायणस् तत्र नारदं वाक्यम् अब्रवीत्
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥
अपीदानीं स भगवान् परमात्मा सनातनः
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥
दृष्टो मे पुरुषः श्रीमान् विश्वरूपधरो ऽव्ययः
सर्वे हि लोकास् तत्रस्थास् तथा देवाः सहर्1षिभिः
अद्यापि चैनं पश्यामि युवां पश्यन् सनातनौ ॥
यैर् लक्षणैर् उपेतः स हरिर् अव्यक्तरूपधृक्
तैर् लक्षणैर् उपेतौ हि व्यक्तरूपधरौ युवाम् ॥
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः
इह चैवागतो ऽस्म्य् अद्य विसृष्टः परमात्मना ॥
को हि नाम भवेत् तस्य तेजसा यशसा श्रिया
सदृशस् त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥
तेन मे कथितं पूर्वं नाम क्षेत्रज्ञसंज्ञितम्
प्रादुर्भावाश् च कथिता भविष्यन्ति हि ये यथा ॥
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः
प्रतिबुद्धाश् च ते सर्वे भक्ताश् च पुरुषोत्तमम् ॥
ते ऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः
प्रियभक्तो हि भगवान् परमात्मा द्विजप्रियः ॥
रमते सो ऽर्च्यमानो हि सदा भागवतप्रियः
विश्वभुक् सर्वगो_1 देवो बान्धवो भक्तवत्सलः
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ॥
तपसा योज्य सो आत्मानं श्वेतद्वीपात् परं हि यत्
तेज इत्य् अभिविख्यातं स्वयंभासावभासितम् ॥
शान्तिः सा त्रिषु लोकेषु सिद्धानां भावितात्मनाम्
एतया शुभया बुद्ध्या नैष्ठिकं व्रतम् आस्थितः ॥
न तत्र सूर्यस् तपति न सोमो ऽभिविराजते
न वायुर् वाति देवेशे तपश् चरति दुश्चरम् ॥
वेदीम् अष्टतलोत्सेधां भूमाव् आस्थाय विश्वभुक्
एकपादस्थितो देव ऊर्ध्वबाहुर् उदङ्मुखः
साङ्गान् आवर्तयन् वेदांस् तपस् तेपे सुदुश्चरम् ॥
यद् ब्रह्मा ऋषयश् चैव स्वयं पशुपतिश् च यत्
शेषाश् च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्1षयश् च ये
हव्यं कव्यं च सततं विधिपूर्वं प्रयुञ्जते
कृत्स्नं तत् तस्य देवस्य चरणाव् उपतिष्ठति ॥
याः क्रियाः संप्रयुक्तास् तु एकान्तगतबुद्धिभिः
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥
न तस्यान्यः प्रियतरः प्रतिबुद्धैर् महात्मभिः
विद्यते त्रिषु लोकेषु ततो ऽस्म्य् ऐकान्तिकं गतः
इह चैवागतस् तेन विसृष्टः परमात्मना ॥
एवं मे भगवान् देवः स्वयम् आख्यातवान् हरिः
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0