नारायणीय · अध्याय 12.330
सूर्याचन्द्रमसौ शश्वत् केशैर् मे अंशुसंज्ञितैः
बोधयंस् तापयंश् चैव जगद् उत्तिष्ठतः पृथक् ॥
बोधनात् तापनाच् चैव जगतो हर्षणं भवेत्
अग्नीषोमकृतैर् एभिः कर्मभिः पाण्डुनन्दन
हृषीकेशो ऽहम् ईशानो वरदो लोकभावनः ॥
इडोपहूतयोगेन हरे भागं क्रतुष्व् अहम्
वर्णश् च मे हरिश्रेष्ठस् तस्माद् धरिर् अहं स्मृतः ॥
धाम सारो हि लोकानाम् ऋतं चैव विचारितम्
ऋतधामा ततो विप्रैः सत्यश् चाहं प्रकीर्तितः ॥
नष्टां च धरणीं पूर्वम् अविन्दं वै गुहागताम्
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत्
तेनाविष्टं हि यत् किंचिच् छिपिविष्टं हि तत् स्मृतम् ॥
यास्को माम् ऋषिर् अव्यग्रो नैकयज्ञेषु गीतवान्
शिपिविष्ट इति ह्य् अस्माद् गुह्यनामधरो ह्य् अहम् ॥
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिर् उदारधी उदारधीः
मत्प्रसादाद् अधो नष्टं निरुक्तम् अभिजग्मिवान् ॥
न हि जातो न जाये ऽहं न जनिष्ये कदाचन
क्षेत्रज्ञः सर्वभूतानां तस्माद् अहम् अजः स्मृतः ॥
नोक्तपूर्वं मया क्षुद्रम् अस्लीलं वा कदाचन
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥
सच् चा-सच् चैव कौन्तेय मयावेशितम् आत्मनि
पौष्करे ब्रह्मसदने सत्यं माम् ऋषयो विदुः ॥
सत्त्वान् न च्युतपूर्वो ऽहं सत्त्वं वै विद्धि मत्कृतम्
जन्मनीहाभवत् सत्त्वं पौर्विकं मे धनंजय ॥
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय
सात्वतज्ञानदृष्टो ऽहं सात्वतः सात्वतां पतिः ॥
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान्
कृष्णो वर्णश् च मे यस्मात् तस्मात् कृष्णो ऽहम् अर्जुन ॥
मया संश्लेषिता भूमिर् अद्भिर् व्योम च वायुना
वायुश् च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥
निर्वाणं परमं सौख्यं धर्मो ऽसौ पर उच्यते
तस्मान् न च्युतपूर्वो ऽहम् अच्युतस् तेन कर्मणा ॥
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके
तयोः संधारणार्थं हि माम् अधोअक्षजम् अञ्जसा ॥
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः
ते मां गायन्ति प्राग्वंशे अधोअक्षज इति स्थितिः ॥
शब्द एकमतैर् एष व्याहृतः परमर्1षिभिः
नान्यो ह्य् अधोअक्षजो लोके ऋते नारायणं प्रभुम् ॥
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम्
घृतार्चिर् अहम् अव्यग्रैर् वेदज्ञैः परिकीर्तितः ॥
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः
पित्तं श्लेष्मा च वायुश् च एष संघात उच्यते ॥
एतैश् च धार्यते जन्तुर् एतैः क्षीणैश् च क्षीयते
आयुर्वेदविदस् तस्मात् त्रिधातुं मां प्रचक्षते ॥
वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत
नैघण्टुकपदाख्यातं विद्धि मां वृषम् उत्तमम् ॥
कपिर् वराहः श्रेष्ठश् च धर्मश् च वृष उच्यते
तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥
न चादिं न मध्यं तथा नैव चान्तं
कदाचिद् विदन्ते सुराश् चासुराश् च
अनाद्यो ह्य् अमध्यस् तथा चाप्य् अनन्तः
प्रगीतो ऽहम् ईशो विभुर् लोकसाक्षी
शुचीनि श्रवणीयानि शृणोमीह धनंजय
न च पापानि गृह्णामि ततो ऽहं वै शुचिश्रवाः ॥
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः
इमाम् उद्धृतवान् भूमिम् एकशृङ्गस् ततो ह्य् अहम् ॥
तथैवासं त्रिककुदो वाराहं रूपम् आस्थितः
त्रिककुत् तेन विख्यातः शरीरस्य तु मापनात् ॥
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः
स प्रजापतिर् एवाहं चेतनात् सर्वलोककृत् ॥
विद्यासहायवन्तं माम् आदित्यस्थं सनातनम्
कपिलं प्राहुर् आचार्याः सांख्या निश्चितनिश्चयाः ॥
हिरण्यगर्भो द्युतिमान् एष यश् छन्दसि स्तुतः
योगैः संपूज्यते नित्यं स एवाहं विभुः स्मृतः ॥
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते
सहस्रशाखं यत् साम ये वै वेदविदो जनाः
गायन्त्य् आरण्यके विप्रा मद्भक्तास् ते ऽपि दुर्लभाः ॥
षट्पञ्चाशतम् अष्टौ च सप्तत्रिंशतम् इत्य् उत
यस्मिञ् शाखा यजुर्वेदे सो ऽहम् आध्वर्यवे स्मृतः ॥
पञ्चकल्पम् अथर्वाणं कृत्याभिः परिबृंहितम्
कल्पयन्ति हि मां विप्रा अथर्वाणविदस् तथा ॥
शाखाभेदाश् च ये केचिद् याश् च शाखासु गीतयः
स्वरवर्णसमुच्चाराः सर्वांस् तान् विद्धि मत्कृतान् ॥
यत् तद् धयशिरः पार्थ समुदेति वरप्रदम्
सो ऽहम् एवोत्तरे भागे क्रमा-क्षरविभागवित् ॥
रामादेशितमार्गेण मत्प्रसादान् महात्मना
पाञ्चालेन क्रमः प्राप्तस् तस्माद् भूतात् सनातनात्
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः_1 ॥
नारायणाद् वरं लब्ध्वा प्राप्य योगम् अनुत्तमम्
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥
कण्डरीको ऽथ राजा च ब्रह्मदत्तः प्रतापवान्
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः
सप्तजातिषु मुख्यत्वाद् योगानां संपदं गतः ॥
पुराहं आत्मजः पार्थ प्रथितः कारणान्तरे
धर्मस्य कुरुशार्दूल ततो ऽहं धर्मजः स्मृतः ॥
नरनारायणौ पूर्वं तपस् तेपतुर् अव्ययम्
धर्मयानं समारूढौ पर्वते गन्धमादने ॥
तत्कालसमयं चैव दक्षयज्ञो बभूव ह
नैवाकल्पयद् भागं दक्षो रुद्रस्य भारत ॥
ततो दधीचिवचनाद् दक्षयज्ञम् अपाहरत्
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर् मुहुः ॥
तच्छूलं भस्मसात् कृत्वा दक्षयज्ञं सविस्तरम्
आवयोः सहसागच्छद् बदर्य्-आश्रमम् अन्तिकात्
वेगेन महता पार्थ पतन् नारायणोरसि ॥
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह
बभूवुर् मुञ्जवर्णास् तु ततो ऽहं मुञ्जकेशवान् ॥
तच् च शूलं विनिर्धूतं हुंकारेण महात्मना
जगाम शंकरकरं नारायणसमाहतम् ॥
अथ रुद्र उपाधावत् ताव् ऋषी तपसान्वितौ
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥
अथ रुद्रविघातार्थम् इषीकां जगृहे नरः
मन्त्रैश् च संयुयोजाशु सो ऽभवत् परशुर् महान् ॥
क्षिप्तश् च सहसा रुद्रे खण्डनं प्राप्तवांस् तदा
ततो ऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥
अस्मिन् युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा
जयं कः प्राप्तवांस् तत्र शंसैतन् मे जनार्दन ॥
तयोः संलग्नयोर् युद्धे रुद्रनारायणात्मनोः
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वे ऽभवंस् तदा ॥
नागृह्णात् पावकः शुभ्रं मखेषु सुहुतं हविः
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥
देवान् रजस् तमश् चैव समाविविशतुस् तदा
वसुधा संचकम्पे ऽथ नभश् च विपफाल ह ॥
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच् च्युतः
अगाच् छोषं समुद्रश् च हिमवांश् च व्यशीर्यत ॥
तस्मिन्न् एवं समुत्पन्ने निमित्ते पाण्डुनन्दन
ब्रह्मा वृतो देवगणैर् ऋषिभिश् च महात्मभिः
आजगामाशु तं देशं यत्र युद्धम् अवर्तत ॥
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः_1
उवाच वचनं रुद्रं लोकानाम् अस्तु वै शिवम्
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥
यद् अक्षरम् अथा-व्यक्तम् ईशं लोकस्य भावनम्
कूटस्थं कर्तृनिर्द्वंद्वम् अकर्तेति च यं विदुः ॥
व्यक्तिभावगतस्यास्य एका मूर्तिर् इयं शिवा
नरो नारायणश् चैव जातौ धर्मकुलोद्वहौ ॥
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ
अहं प्रसादजस् तस्य कस्मिंश्चित् कारणान्तरे
त्वं चैव क्रोधजस् तात पूर्वसर्गे सनातनः ॥
मया च सार्धं वरदं विबुधैश् च महर्2षिभिः
प्रसादयाशु लोकानां शान्तिर् भवतु माचिरम् ॥
ब्रह्मणा त्व् एवम् उक्तस् तु रुद्रः क्रोधाग्निम् उत्सृजन्
प्रसादयाम् आस ततो देवं नारायणं प्रभुम्
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥
ततो ऽथ वरदो देवो जितक्रोधो जितेन्द्रियः
प्रीतिमान् अभवत् तत्र रुद्रेण सह संगतः ॥
ऋषिभिर् ब्रह्मणा चैव विबुधैश् च सुपूजितः
उवाच देवम् ईशानम् ईशः स जगतो हरिः ॥
यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु
नावयोर् अन्तरं किंचिन् मा ते भूद् बुद्धिर् अन्यथा ॥
अद्यप्रभृति श्रीवत्सः शूलाङ्को ऽयं भवत्व् अयम्
मम पाण्यङ्कितश् चापि श्रीकण्ठस् त्वं भविष्यसि ॥
एवं लक्षणम् उत्पाद्य परस्परकृतं तदा
सख्यं चैवा-तुलं कृत्वा रुद्रेण सहिताव् ऋषी
तपस् तेपतुर् अव्यग्रौ विसृज्य त्रिदिवौकसः ॥
एष ते कथितः पार्थ नारायणजयो मृधे
नामानि चैव गुह्यानि निरुक्तानि च भारत
ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥
एवं बहुविधै रूपैश् चरामीह वसुंधराम्
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम्
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ् जयम् ॥
यस् तु ते सो ऽग्रतो याति युद्धे संप्रत्युपस्थिते
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥
कालः स एव कथितः क्रोधजेति मया तव
निहतांस् तेन वै पूर्वं हतवान् असि वै रिपून् ॥
अप्रमेयप्रभावं तं देवदेवम् उमापतिम्
नमस्व देवं प्रयतो विश्वेशं हरम् अव्ययम् ॥
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0