नारायणीय · अध्याय 12.328
अस्तौषीद् यैर् इमं व्यासः सशिष्यो मधुसूदनम्
नामभिर् विविधैर् एषां निरुक्तं भगवन् मम ॥
वक्तुम् अर्हसि शुश्रूषोः प्रजापतिपतेर् हरेः
श्रुत्वा भवेयं यत् पूतः शरच्चन्द्र इवा-मलः ॥
शृणु राजन् यथाचष्ट फल्गुनस्य हरिर् विभुः
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥
नामभिः कीर्तितैस् तस्य केशवस्य महात्मनः
पृष्टवान् केशवं राजन् फल्गुनः परवीरहा ॥
भगवन् भूतभव्येश सर्वभूतसृग् अव्यय
लोकधाम जगन्नाथ लोकानाम् अभयप्रद ॥
यानि नामानि ते देव कीर्तितानि महर्2षिभिः
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥
तेषां निरुक्तं त्वत्तो ऽहं श्रोतुम् इच्छामि केशव
न ह्य् अन्यो वर्तयेन् नाम्नां निरुक्तं त्वाम् ऋते प्रभो ॥
ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु
पुराणे सोपनिषदे तथैव ज्योतिषे ऽर्जुन ॥
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च
बहूनि मम नामानि कीर्तितानि महर्2षिभिः ॥
गौणानि तत्र नामानि कर्मजानि च कानिचित्
निरुक्तं कर्मजानां च शृणुष्व प्रयतो ऽनघ
कथ्यमानं मया तात त्वं हि मे ऽर्धं स्मृतः पुरा ॥
नमो ऽतियशसे तस्मै देहिनां परमात्मने
नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥
यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोधसंभवः
यो ऽसौ योनिर् हि सर्वस्य स्थावरस्य चरस्य च ॥
अष्टादशगुणं यत् तत् सत्त्वं सत्त्ववतां वर
प्रकृतिः सा परा मह्यं रोदसी योगधारिणी
ऋता सत्या-मरा-जय्या लोकानाम् आत्मसंज्ञिता ॥
तस्मात् सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः
ततो यज्ञश् च यष्टा च पुराणः पुरुषो विराट्
अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमिततेजसः_1
प्रसादात् प्रादुर् अभवत् पद्मं पद्मनिभेक्षण
तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः ॥
अह्नः क्षये ललाटाच् च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ
तदादेशितपन्थानौ सृष्टिसंहारकारकौ
निमित्तमात्रं ताव् अत्र सर्वप्राणिवरप्रदौ ॥
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः
उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥
दक्षक्रतुहरश् चैव भगनेत्रहरस् तथा
नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥
तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे
संपूजितो भवेत् पार्थ देवो नारायणः प्रभुः ॥
अहम् आत्मा हि लोकानां विश्वानां पाण्डुनन्दन
तस्माद् आत्मानम् एवाग्रे रुद्रं संपूजयाम्य् अहम् ॥
यद्य् अहं नार्चयेयं वै ईशानं वरदं शिवम्
आत्मानं नार्चयेत् कश्चित् इति मे भावितं मनः
मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥
प्रमाणानि हि पूज्यानि ततस् तं पूजयाम्य् अहम्
यस् तं वेत्ति स मां वेत्ति यो ऽनु तं स हि माम् अनु ॥
रुद्रो नारायणश् चैव सत्त्वम् एकं द्विधाकृतम्
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥
न हि मे केनचिद् देयो वरः पाण्डवनन्दन
इति संचिन्त्य मनसा पुराणं विश्वम् ईश्वरम्
पुत्रार्थम् आराधितवान् आत्मानम् अहम् आत्मना ॥
न हि विष्णुः प्रणमति कस्मैचिद् विबुधाय तु
ऋतए आत्मानम् एवेति ततो रुद्रं भजाम्य् अहम् ॥
सब्रह्मकाः सरुद्राश् च सेन्द्रा देवाः सहर्7षिभिः
अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥
भविष्यतां वर्ततां च भूतानां चैव भारत
सर्वेषाम् अग्रणीर् विष्णुः सेव्यः पूज्यश् च नित्यशः ॥
नमस्व हव्यदं विष्णुं तथा शरणदं नम
वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ॥
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम्
तेषाम् एकान्तिनः श्रेष्ठास् ते चैवानन्यदेवताः
अहम् एव गतिस् तेषां निराशीःकर्मकारिणाम् ॥
ये च शिष्टास् त्रयो भक्ताः फलकामा हि ते मताः
सर्वे च्यवनधर्माणः प्रतिबुद्धस् तु श्रेष्ठभाक् ॥
ब्रह्माणं शितिकण्ठं च याश् चान्या देवताः स्मृताः
प्रबुद्धवर्याः सेवन्ते माम् एवैष्यन्ति यत्परम्
भक्तं प्रति विशेषस् ते एष पार्थानुकीर्तितः ॥
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ
भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ॥
जानाम्य् अध्यात्मयोगांश् च यो ऽहं यस्माच् च भारत
निवृत्तिलक्षणो धर्मस् तथाभ्युदयिको ऽपि च ॥
नराणाम् अयनं ख्यातम् अहम् एकः सनातनः
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं मम तत् पूर्वम् अतो नारायणो ह्य् अहम् ॥
छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः
सर्वभूताधिवासश् च वासुदेवस् ततो ह्य् अहम् ॥
गतिश् च सर्वभूतानां प्रजानां चापि भारत
व्याप्ता मे रोदसी पार्थ कान्तिश् चाभ्यधिका मम ॥
अधिभूतानि चान्ते ऽहं तद् इच्छंश् चास्मि भारत
क्रमणाच् चाप्य् अहं पार्थ विष्णुर् इत्य् अभिसंज्ञितः ॥
दमात् सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि
दिवं चोर्वीं च मध्यं च तस्माद् दामोदरो ह्य् अहम् ॥
पृश्निर् इत्य् उच्यते चान्नं वेदा आपो ऽमृतं तथा
ममैतानि सदा गर्भे पृश्निगर्भस् ततो ह्य् अहम् ॥
ऋषयः प्राहुर् एवं मां त्रितकूपाभिपातितम्
पृश्निगर्भ त्रितं पाहीत्य् एकतद्वितपातितम् ॥
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस् त्रितः
उत्ततारोदपानाद् वै पृश्निगर्भानुकीर्तनात् ॥
सूर्यस्य तपतो लोकान् अग्नेः सोमस्य चाप्य् उत
अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः
सर्वज्ञाः केशवं तस्मान् माम् आहुर् द्विजसत्तमाः ॥
स्वपत्न्याम् आहितो गर्भ उतथ्येन महात्मना
उतथ्ये ऽन्तर्हिते चैव कदाचिद् देवमायया
बृहस्पतिर् अथाविन्दत् तां पत्नीं तस्य भारत ॥
ततो वै तम् ऋषिश्रेष्ठं मैथुनोपगतं तथा
उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ॥
पूर्वागतो ऽहं वरद नार्हस्य् अम्बां प्रबाधितुम्
एतद् बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥
मैथुनोपगतो यस्मात् त्वयाहं विनिवारितः
तस्माद् अन्धो जास्यसि त्वं मच्छापान् नात्र संशयः ॥
स शापाद् ऋषिमुख्यस्य दीर्घं तम उपेयिवान्
स हि दीर्घतमा नाम नाम्ना ह्य् आसीद् ऋषिः पुरा ॥
वेदान् अवाप्य चतुरः साङ्गोपाङ्गान् सनातनान्
प्रयोजयाम् आस तदा नाम गुह्यम् इदं मम ॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः
स चक्षुष्मान् समभवद् गौतमश् चाभवत् पुनः ॥
एवं हि वरदं नाम केशवेति ममार्जुन
देवानाम् अथ सर्वेषाम् ऋषीणां च महात्मनाम् ॥
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम्
अग्नीषोमात्मकं तस्माज् जगत् कृत्स्नं चरा-चरम् ॥
अपि हि पुराणे भवति
एकयोन्यात्मकाव् अग्नीषोमौ
देवाश् चाग्निमुखा इति
एकयोनित्वाच् च परस्परं महयन्तो लोकान् धारयत इति
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0