नारायणीय · अध्याय 12.329
अग्नीषोमौ कथं पूर्वम् एकयोनी प्रवर्तितौ
एष मे संशयो जातस् तं छिन्धि मधुसूदन ॥
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन
आत्मतेजोउद्भवं पार्थ शृणुष्वैकमना मम ॥
विश्वं ब्रह्मासृजत् पूर्वं सर्वादिर् निरवस्करम्
ब्रह्मघोषैर् दिवं तिष्ठन्त्य् अमरा ब्रह्मयोनयः ॥
ब्राह्मणानां मतिर् वाक्यं कर्म श्रद्धा तपांसि च
धारयन्ति महीं द्यां च शैत्याद् वार्य् अमृतं यथा ॥
नास्ति सत्यात् परो धर्मो नास्ति मातृसमो गुरुः
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥
नैषाम् उक्षा वर्धते नोत वाहा
न गर्गरो मथ्यते संप्रदाने
अपध्वस्ता दस्युभूता भवन्ति
येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0