नारायणीय · अध्याय 12.327
कथं स भगवान् देवो यज्ञेष्व् अग्रहरः प्रभुः
यज्ञधारी च सततं वेदवेदाङ्गवित् तथा ॥
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः
प्रवृत्तिधर्मान् विदधे स एव भगवान् प्रभुः ॥
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः
कथं निवृत्तिधर्माश् च कृता व्यावृत्तबुद्धयः ॥
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम्
त्वया नारायणकथा श्रुता वै धर्मसंहिता ॥
इमे सब्रह्मका लोकाः ससुरासुरमानवाः
क्रियास्व् अभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः
मोक्षश् चोक्तस् त्वया ब्रह्मन् निर्वाणं परमं सुखम् ॥
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः
ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ॥
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः
यं हित्वा देवताः सर्वा हव्यकव्यभुजो ऽभवन् ॥
किं नु ब्रह्मा च रुद्रश् च शक्रश् च बलभित् प्रभुः
सूर्यस् ताराधिपो वायुर् अग्निर् वरुण एव च
आकाशं जगती चैव ये च शेषा दिवौकसः ॥
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्
ततस् ते नास्थिता मार्गं ध्रुवम् अक्षयम् अव्ययम् ॥
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः
दोषः कालपरीमाणे महान् एष क्रियावताम् ॥
एतन् मे संशयं विप्र हृदि शल्यम् इवार्पितम्
छिन्धीतिहासकथनात् परं कौतूहलं हि मे ॥
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज
किमर्थं चाध्वरे ब्रह्मन्न् इज्यन्ते त्रिदिवौकसः ॥
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥
अहो गूढतमः प्रश्नस् त्वया पृष्टो जनेश्वर
ना-तप्ततपसा ह्य् एष ना-वेदविदुषा तथा
ना-पुराणविदा चापि शक्यो व्याहर्तुम् अञ्जसा ॥
हन्त ते कथयिष्यामि यन् मे पृष्टः पुरा गुरुः
कृष्णद्वैपायनो व्यासो वेदव्यासो महान् ऋषिः ॥
सुमन्तुर् जैमिनिश् चैव पैलश् च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै पञ्चमश् च शुकः स्मृतः ॥
एतान् समागतान् सर्वान् पञ्च शिष्यान् दमान्वितान्
शौचाचारसमायुक्ताञ् जितक्रोधाञ् जितेन्द्रियान् ॥
वेदान् अध्यापयाम् आस महाभारतपञ्चमान्
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥
तेषाम् अभ्यस्यतां वेदान् कदाचित् संशयो ऽभवत्
एष वै यस् त्वया पृष्टस् तेन तेषां प्रकीर्तितः
ततः श्रुतो मया चापि तवाख्येयो ऽद्य भारत ॥
शिष्याणां वचनं श्रुत्वा सर्वा-ज्ञानतमोनुदः
पराशरसुतः श्रीमान् व्यासो वाक्यम् उवाच ह ॥
मया हि सुमहत् तप्तं तपः परमदारुणम्
भूतं भव्यं भविष्यच् च जानीयाम् इति सत्तमाः ॥
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च
नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥
त्रैकालिकम् इदं ज्ञानं प्रादुर्भूतं यथेप्सितम्
तच् छृणुध्वं यथाज्ञानं वक्ष्ये संशयम् उत्तमम्
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः
महापुरुषसंज्ञां स लभते स्वेन कर्मणा ॥
तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः
अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्यर्थम् ईश्वरात् ॥
अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते
यो ऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम्
सो ऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥
पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
अहंकारप्रसूतानि महाभूतानि भारत ॥
महाभूतानि सृष्ट्वाथ तद्गुणान् निर्ममे पुनः
भूतेभ्यश् चैव निष्पन्ना मूर्तिमन्तो ऽष्ट ताञ् शृणु ॥
मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठश् च महात्मा वै मनुः स्वायंभुवस् तथा
ज्ञेयाः प्रकृतयो ऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥
वेदान् वेदाङ्गसंयुक्तान् यज्ञान् यज्ञाङ्गसंयुतान्
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः
अष्टाभ्यः प्रकृतिभ्यश् च जातं विश्वम् इदं जगत् ॥
रुद्रो रोषात्मको जातो दशान्यान् सो ऽसृजत् स्वयम्
एकादशैते रुद्रास् तु विकाराः पुरुषाः स्मृताः ॥
ते रुद्राः प्रकृतिश् चैव सर्वे चैव सुरर्1षयः
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥
वयं हि सृष्टा भगवंस् त्वया वै प्रभविष्णुना
येन यस्मिन्न् अधीकारे वर्तितव्यं पितामह ॥
यो ऽसौ त्वया विनिर्दिष्टो अधिकारो ऽर्थचिन्तकः
परिपाल्यः कथं तेन सो ऽधिकारो ऽधिकारिणा ॥
प्रदिशस्व बलं तस्य यो ऽधिकारार्थचिन्तकः
एवम् उक्तो महादेवो देवांस् तान् इदम् अब्रवीत् ॥
साध्व् अहं ज्ञापितो देवा युष्माभिर् भद्रम् अस्तु वः
ममाप्य् एषा समुत्पन्ना चिन्ता या भवतां मता ॥
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः
कथं बलक्षयो न स्याद् युष्माकं ह्य् आत्मनश् च मे ॥
इतः सर्वे ऽपि गच्छामः शरणं लोकसाक्षिणम्
महापुरुषम् अव्यक्तं स नो वक्ष्यति यद् धितम् ॥
ततस् ते ब्रह्मणा सार्धम् ऋषयो विबुधास् तथा
क्षीरोदस्योत्तरं कूलं जग्मुर् लोकहितार्थिनः ॥
ते तपः समुपातिष्ठन् ब्रह्मोक्तं वेदकल्पितम्
स महानियमो नाम तपश्चर्या सुदारुणा ॥
ऊर्ध्वं दृष्टिर् बाहवश् च एकाग्रं च मनो ऽभवत्
एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः ॥
दिव्यं वर्षसहस्रं ते तपस् तप्त्वा तद् उत्तमम्
शुश्रुवुर् मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥
भो भोः सब्रह्मका देवा ऋषयश् च तपोधनाः
स्वागतेनार्च्य वः सर्वाञ् श्रावये वाक्यम् उत्तमम् ॥
विज्ञातं वो मया कार्यं तच् च लोकहितं महत्
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥
सुतप्तं वस् तपो देवा ममाराधनकाम्यया
भोक्ष्यथास्य महासत्त्वास् तपसः फलम् उत्तमम् ॥
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥
सर्वे भागान् कल्पयध्वं यज्ञेषु मम नित्यशः
तथा श्रेयो विधास्यामि यथाधीकारम् ईश्वराः ॥
श्रुत्वैतद् देवदेवस्य वाक्यं हृष्टतनूरुहाः
ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्2षयः ॥
वेददृष्टेन विधिना वैष्णवं क्रतुम् आहरन्
तस्मिन् सत्त्रे तदा ब्रह्मा स्वयं भागम् अकल्पयत्
देवा देवर्1षयश् चैव सर्वे भागान् अकल्पयन् ॥
ते कार्तयुगधर्माणो भागाः परमसत्कृताः
प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम्
बृहन्तं सर्वगं_1 देवम् ईशानं वरदं प्रभुम् ॥
ततो ऽथ वरदो देवस् तान् सर्वान् अमरान् स्थितान्
अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ॥
येन यः कल्पितो भागः स तथा समुपागतः
प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम् ॥
एतद् वो लक्षणं देवा मत्प्रसादसमुद्भवम्
यूयं यज्ञैर् इज्यमानाः समाप्तवरदक्षिणैः
युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ॥
यज्ञैर् ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः
कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान् ॥
यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥
यूयं लोकान् धारयध्वं यज्ञभागफलोदिताः
सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ॥
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः
ताभिर् आप्यायितबला लोकान् वै धारयिष्यथ ॥
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः
मां ततो भावयिष्यध्वम् एषा वो भावना मम ॥
इत्यर्थं निर्मिता वेदा यज्ञाश् चौषधिभिः सह
एभिः सम्यक् प्रयुक्तैर् हि प्रीयन्ते देवताः क्षितौ ॥
निर्माणम् एतद् युष्माकं प्रवृत्तिगुणकल्पितम्
मया कृतं सुरश्रेष्ठा यावत् कल्पक्षयाद् इति
चिन्तयध्वं लोकहितं यथाधीकारम् ईश्वराः ॥
मरीचिर् अङ्गिराश् चात्रिः पुलस्त्यः पुलहः क्रतुः
वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ॥
एते वेदविदो मुख्या वेदाचार्याश् च कल्पिताः
प्रवृत्तिधर्मिणश् चैव प्राजापत्येन कल्पिताः ॥
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥
सनः सनत्सुजातश् च सनकः ससनन्दनः
सनत्कुमारः कपिलः सप्तमश् च सनातनः ॥
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः
स्वयमागतविज्ञाना निवृत्तं धर्मम् आस्थिताः ॥
एते योगविदो मुख्याः सांख्यधर्मविदस् तथा
आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ॥
यतो ऽहं प्रसृतः पूर्वम् अव्यक्तात् त्रिगुणो महान्
तस्मात् परतरो यो ऽसौ क्षेत्रज्ञ इति कल्पितः
सो ऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ॥
यो यथा निर्मितो जन्तुर् यस्मिन् यस्मिंश् च कर्मणि
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सो ऽश्नुते ऽवशः ॥
एष लोकगुरुर् ब्रह्मा जगदादिकरः प्रभुः
एष माता पिता चैव युष्माकं च पितामहः
मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥
अस्य चैवानुजो रुद्रो ललाटाद् यः समुत्थितः
ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ॥
गच्छध्वं स्वान् अधीकारांश् चिन्तयध्वं यथाविधि
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस् तथा
परिनिर्मितकालानि आयूंषि च सुरोत्तमाः ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते
अहिंस्या यज्ञपशवो युगे ऽस्मिन् नैतद् अन्यथा
चतुष्पात् सकलो धर्मो भविष्यत्य् अत्र वै सुराः ॥
ततस् त्रेतायुगं नाम त्रयी यत्र भविष्यति
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे
तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ॥
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति
द्विपादहीनो धर्मश् च युगे तस्मिन् भविष्यति ॥
ततस् तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥
देवा ऊचुः: एकपादस्थिते धर्मे यत्रक्वचनगामिनि
कथं कर्तव्यम् अस्माभिर् भगवंस् तद् वदस्व नः ॥
यत्र वेदाश् च यज्ञाश् च तपः सत्यं दमस् तथा
अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः
स वै देशः सेवितव्यो मा वो ऽधर्मः पदा स्पृशेत् ॥
[x द्7 त् ग्1-3.6:: गुरवो यत्र पूज्यन्ते !साधुवृत्ताः शमान्विताः
ते ऽनुशिष्टा भगवता देवाः सर्1षिगणास् तथा
नमस्कृत्वा भगवते जग्मुर् देशान् यथेप्सितान् ॥
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः
दिदृक्षुर् भगवन्तं तम् अनिरुद्धतनौ स्थितम् ॥
तं देवो दर्शयाम् आस कृत्वा हयशिरो महत्
साङ्गान् आवर्तयन् वेदान् कमण्डलुगणित्रधृक् ॥
ततो ऽश्वशिरसं दृष्ट्वा तं देवम् अमितौजसम्
लोककर्ता प्रभुर् ब्रह्मा लोकानां हितकाम्यया ॥
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिर् अग्रतः
स परिष्वज्य देवेन वचनं श्रावितस् तदा ॥
लोककार्यगतीः सर्वास् त्वं चिन्तय यथाविधि
धाता त्वं सर्वभूतानां त्वं प्रभुर् जगतो गुरुः
त्वय्य् आवेशितभारो ऽहं धृतिं प्राप्स्याम्य् अथाञ्जसा ॥
यदा च सुरकार्यं ते अविषह्यं भविष्यति
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ॥
एवम् उक्त्वा हयशिरास् तत्रैवान्तरधीयत
तेनानुशिष्टो ब्रह्मापि स्वं लोकम् अचिराद् गतः ॥
एवम् एष महाभागः पद्मनाभः सनातनः
यज्ञेष्व् अग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥
निवृत्तिं चास्थितो धर्मं गतिम् अक्षयधर्मिणाम्
प्रवृत्तिधर्मान् विदधे कृत्वा लोकस्य चित्रताम् ॥
स आदिः स मध्यः स चान्तः प्रजानां
स धाता स धेयः स कर्ता स कार्यम्
युगान्ते स सुप्तः सुसंक्षिप्य लोकान्
युगादौ प्रबुद्धो जगद् ध्य् उत्ससर्ज
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥
महाभूताधिपतये रुद्राणां पतये तथा
आदित्यपतये चैव वसूनां पतये तथा ॥
अश्विभ्यां पतये चैव मरुतां पतये तथा
वेदयज्ञाधिपतये वेदाङ्गपतये ऽपि च ॥
समुद्रवासिने नित्यं हरये मुञ्जकेशिने
शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ॥
तपसां तेजसां चैव पतये यशसो ऽपि च
वाचश् च पतये नित्यं सरितां पतये तथा ॥
कपर्दिने वराहाय एकशृङ्गाय धीमते
विवस्वते ऽश्वशिरसे चतुर्मूर्तिधृते सदा ॥
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च
एष देवः संचरति सर्वत्रगतिर् अव्ययः ॥
एवम् एतत् पुरा दृष्टं मया वै ज्ञानचक्षुषा
कथितं तच् च वः सर्वं मया पृष्टेन तत्त्वतः ॥
क्रियताम् मद्वचः शिष्याः सेव्यतां हरिर् ईश्वरः
गीयतां वेदशब्दैश् च पूज्यतां च यथाविधि ॥
इत्य् उक्तास् तु वयं तेन वेदव्यासेन धीमता
सर्वे शिष्याः सुतश् चास्य शुकः परमधर्मवित् ॥
स चास्माकम् उपाध्यायः सहास्माभिर् विशां पते
चतुर्वेदोद्गताभिश् च ऋग्भिस् तम् अभितुष्टुवे ॥
एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि
एवं मे ऽकथयद् राजन् पुरा द्वैपायनो गुरुः ॥
यश् चेदं शृणुयान् नित्यं यश् चेदं परिकीर्तयेत्
नमो भगवते कृत्वा समाहितमना नरः ॥
भवत्य् अरोगो द्युतिमान् बलरूपसमन्वितः
आतुरो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ॥
कामकामी लभेत् कामं दीर्घम् आयुर् अवाप्नुयात्
ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत्
वैश्यो विपुललाभः स्याच् छूद्रः सुखम् अवाप्नुयात् ॥
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्
लग्नगर्भा विमुच्येत गर्भिणी जनयेत् सुतम्
वन्ध्या प्रसवम् आप्नोति पुत्रपौत्रसमृद्धिमत् ॥
क्षेमेण गच्छेद् अध्वानम् इदं यः पठते पथि
यो यं कामं कामयते स तम् आप्नोति च ध्रुवम् ॥
इदं महर्2षेर् वचनं विनिश्चितं
महात्मनः पुरुषवरस्य कीर्तनम्
समागमं चर्7षिदिवौकसाम् इमं
निशम्य भक्ताः सुसुखं लभन्ते
मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0