भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.326

12.326.1

एवं स्तुतः स भगवान् गुह्यैस् तथ्यैश् च नामभिः
तं मुनिं दर्शयाम् आस नारदं विश्वरूपधृक् ॥

12.326.2

किंचिच् चन्द्रविशुद्धात्मा किंचिच् चन्द्राद् विशेषवान्
कृशानुवर्णः किंचिच् च किंचिद् धिष्ण्याकृतिः प्रभुः ॥

12.326.3

शुकपत्रवर्णः किंचिच् च किंचित् स्फटिकसप्रभः
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित् ॥

12.326.4

प्रवालाङ्कुरवर्णश् च श्वेतवर्णः क्वचिद् बभौ
क्वचित् सुवर्णवर्णाभो वैडूर्यसदृशः क्वचित् ॥

12.326.5

नीलवैडूर्यसदृश इन्द्रनीलनिभः क्वचित्
मयूरग्रीवावर्णाभो मुक्ताहारनिभः क्वचित् ॥

12.326.6

एतान् वर्णान् बहुविधान् रूपे बिभ्रत् सनातनः
सहस्रनयनः श्रीमाञ् शतशीर्षः सहस्रपात् ॥

12.326.7

सहस्रोदरबाहुश् च अव्यक्त इति च क्वचित्
ओंकारम् उद्गिरन् वक्त्रात् सावित्रीं च तदन्वयाम् ॥

12.326.8

शेषेभ्यश् चैव वक्त्रेभ्यश् चतुर्वेदोद्गतं वसु

12.326.8

आरण्यकं जगौ देवो हरिर् नारायणो वशी ॥

12.326.9

वेदीं कमण्डलुं दर्भान् मणिरूपान् अथोपलान्
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्
धारयाम् आस देवेशो हस्तैर् यज्ञपतिस् तदा ॥

12.326.10

तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः
वाग्यतः प्रयतो भूत्वा ववन्दे परमेश्वरम्
तम् उवाच नतं मूर्ध्ना देवानाम् आदिर् अव्ययः ॥

12.326.11

एकतश् च द्वितश् चैव त्रितश् चैव महर्2षयः
इमं देशम् अनुप्राप्ता मम दर्शनलालसाः ॥

12.326.12

न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन
ऋते ह्य् एकान्तिकश्रेष्ठात् त्वं चैवैकान्तिको मतः ॥

12.326.13

ममैतास् तनवः श्रेष्ठा जाता धर्मगृहे द्विज
तास् त्वं भजस्व सततं साधयस्व यथागतम् ॥

12.326.14

वृणीष्व च वरं विप्र मत्तस् त्वं यम् इहेच्छसि
प्रसन्नो ऽहं तवाद्येह विश्वमूर्तिर् इहा-व्ययः ॥

12.326.15

अद्य मे तपसो देव यमस्य नियमस्य च
सद्यः फलम् अवाप्तं वै दृष्टो यद् भगवान् मया ॥

12.326.16

वर एष ममात्यन्तं दृष्टस् त्वं यत् सनातनः
भगवान् विश्वदृक् सिंहः सर्वमूर्तिर् महाप्रभुः ॥

12.326.17

एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्
उवाच वचनं भूयो गच्छ नारद माचिरम्

12.326.18

इमे ह्य् अनिन्द्रियाहारा मद्भक्ताश् चन्द्रवर्चसः
एकाग्राश् चिन्तयेयुर् मां नैषां विघ्नो भवेद् इति ॥

12.326.19

सिद्धाश् चैते महाभागाः पुरा ह्य् एकान्तिनो ऽभवन्
तमोरजोविनिर्मुक्ता मां प्रवेक्ष्यन्त्य् असंशयम् ॥

12.326.20

न दृश्यश् चक्षुषा यो ऽसौ न स्पृश्यः स्पर्शनेन च
न घ्रेयश् चैव गन्धेन रसेन च विवर्जितः ॥

12.326.21

सत्त्वं रजस् तमश् चैव न गुणास् तं भजन्ति वै
यश् च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते ॥

12.326.22

भूतग्रामशरीरेषु नश्यत्सु न विनश्यति
अजो नित्यः शाश्वतश् च निर्गुणो निष्कलस् तथा ॥

12.326.23

द्विर् द्वादशेभ्यस् तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः
पुरुषो निष्क्रियश् चैव ज्ञानदृश्यश् च कथ्यते ॥

12.326.24

यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तम
स वासुदेवो विज्ञेयः परमात्मा सनातनः ॥

12.326.25

पश्य देवस्य माहात्म्यं महिमानं च नारद

12.326.25

शुभा-शुभैः कर्मभिर् यो न लिप्यति कदाचन ॥

12.326.26

सत्त्वं रजस् तमश् चैव गुणान् एतान् प्रचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥

12.326.27

एतान् गुणांस् तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते

12.326.27

निर्गुणो गुणभुक् चैव गुणस्रष्टा गुणाधिकः ॥

12.326.28

जगत्प्रतिष्ठा देवर्1षे पृथिव्य् अप्सु प्रलीयते
ज्योतिष्य् आपः प्रलीयन्ते ज्योतिर् वायौ प्रलीयते ॥

12.326.29

खे वायुः प्रलयं याति मनस्य् आकाशम् एव च

12.326.29

मनो हि परमं भूतं तद् अव्यक्ते प्रलीयते ॥

12.326.30

अव्यक्तं पुरुषे ब्रह्मन् निष्क्रिये संप्रलीयते
नास्ति तस्मात् परतरं पुरुषाद् वै सनातनात् ॥

12.326.31

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्
ऋते तम् एकं पुरुषं वासुदेवं सनातनम्
सर्वभूतात्मभूतो हि वासुदेवो महाबलः ॥

12.326.32

पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
ते समेता महात्मानः शरीरम् इति संज्ञितम् ॥

12.326.33

तदाविशति यो ब्रह्मन्न् अदृश्यो लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः ॥

12.326.34

न विना धातुसंघातं शरीरं भवति क्वचित्
न च जीवं विना ब्रह्मन् धातवश् चेष्टयन्त्य् उत ॥

12.326.35

स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः
तस्मात् सनत्कुमारत्वं यो लभेत स्वकर्मणा ॥

12.326.36

यस्मिंश् च सर्वभूतानि प्रलयं यान्ति संक्षये
स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥

12.326.37

तस्मात् प्रसूतो यः कर्ता कार्यं कारणम् एव च
यस्मात् सर्वं प्रभवति जगत् स्थावरजङ्गमम्
सो ऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु ॥

12.326.38

यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः
ज्ञेयः स एव भगवाञ् जीवः संकर्षणः प्रभुः ॥

12.326.39

संकर्षणाच् च प्रद्युम्नो मनोभूतः स उच्यते
प्रद्युम्नाद् यो ऽनिरुद्धस् तु सो ऽहंकारो महेश्वरः ॥

12.326.40

मत्तः सर्वं संभवति जगत् स्थावरजङ्गमम्
अक्षरं च क्षरं चैव सच् चा-सच् चैव नारद ॥

12.326.41

मां प्रविश्य भवन्तीह मुक्ता भक्तास् तु ये मम
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः ॥

12.326.42

निर्गुणो निष्कलश् चैव निर्द्वंद्वो निष्परिग्रहः
एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते
इच्छन् मुहूर्तान् नश्येयम् ईशो ऽहं जगतो गुरुः ॥

12.326.43

माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद
सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि
मयैतत् कथितं सम्यक् तव मूर्तिचतुष्टयम् ॥

12.326.44

सिद्धा ह्य् एते महाभागा नरा ह्य् एकान्तिनो ऽभवन्
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने ॥

12.326.45

अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः
मैवं ते बुद्धिर् अत्राभूद् दृष्टो जीवो मयेति च ॥

12.326.46

अहं सर्वत्रगो_1 ब्रह्मन् भूतग्रामान्तरात्मकः
भूतग्रामशरीरेषु नश्यत्सु न नशाम्य् अहम् ॥

12.326.47

हिरण्यगर्भो लोकादिश् चतुर्वक्त्रो निरुक्तगः_1
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः ॥

12.326.48

पश्यैकादश मे रुद्रान् दक्षिणं पार्श्वम् आस्थितान्
द्वादशैव तथादित्यान् वामं पार्श्वं समास्थितान् ॥

12.326.49

अग्रतश् चैव मे पश्य वसून् अष्टौ सुरोत्तमान्
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ॥

12.326.50

सर्वान् प्रजापतीन् पश्य पश्य सप्त ऋषीन् अपि
वेदान् यज्ञांश् च शतशः पश्या-मृतम् अथौषधीः ॥

12.326.51

तपांसि नियमांश् चैव यमान् अपि पृथग्विधान्
तथाष्टगुणम् ऐश्वर्यम् एकस्थं पश्य मूर्तिमत् ॥

12.326.52

श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम्
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम् ॥

12.326.53

ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्
अम्भोधरान् समुद्रांश् च सरांसि सरितस् तथा ॥

12.326.54

मूर्तिमन्तः पितृगणांश् चतुरः पश्य सत्तम
त्रींश् चैवेमान् गुणान् पश्य मत्स्थान् मूर्तिविवर्जितान् ॥

12.326.55

देवकार्याद् अपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता ह्य् एको ऽहम् आदितः ॥

12.326.56

अहं हयशिरो भूत्वा समुद्रे पश्चिमोत्तरे
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयान्वितम् ॥

12.326.57

मया सृष्टः पुरा ब्रह्मा मद्यज्ञम् अयजत् स्वयम्
ततस् तस्मै वरान् प्रीतो ददाव् अहम् अनुत्तमान् ॥

12.326.58

मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वम् एव च
अहंकारकृतं चैव नाम पर्यायवाचकम् ॥

12.326.59

त्वया कृतां च मर्यादां नातिक्राम्यति कश्चन
त्वं चैव वरदो ब्रह्मन् वरेप्सूनां भविष्यसि ॥

12.326.60

सुरासुरगणानां च ऋषीणां च तपोधन
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां त्वम् उपास्यो भविष्यसि ॥

12.326.61

प्रादुर्भावगतश् चाहं सुरकार्येषु नित्यदा
अनुशास्यस् त्वया ब्रह्मन् नियोज्यश् च सुतो यथा ॥

12.326.62

एतांश् चान्यांश् च रुचिरान् ब्रह्मणे ऽमिततेजसे

12.326.62

अहं दत्त्वा वरान् प्रीतो निवृत्तिपरमो ऽभवम् ॥

12.326.63

निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता
तस्मान् निवृत्तिम् आपन्नश् चरेत् सर्वाङ्गनिर्वृतः ॥

12.326.64

विद्यासहायवन्तं माम् आदित्यस्थं सनातनम्
कपिलं प्राहुर् आचार्याः सांख्यनिश्चितनिश्चयाः ॥

12.326.65

हिरण्यगर्भो भगवान् एष छन्दसि सुष्टुतः
सो ऽहं योगगतिर् ब्रह्मन् योगशास्त्रेषु शब्दितः ॥

12.326.66

एषो ऽहं व्यक्तिम् आगम्य तिष्ठामि दिवि शाश्वतः
ततो युगसहस्रान्ते संहरिष्ये जगत् पुनः
कृत्वात्मस्थानि भूतानि स्थावराणि चराणि च ॥

12.326.67

एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम
ततो भूयो जगत् सर्वं करिष्यामीह विद्यया ॥

12.326.68

अस्मन्मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम्
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत् ॥

12.326.69

प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः
अनिरुद्धात् तथा ब्रह्मा तत्रादिकमलोद्भवः ॥

12.326.70

ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥

12.326.71

यथा सूर्यस्य गगनाद् उदयास्तमयाव् इह
नष्टौ पुनर् बलात् कालए आनयत्य् अमितद्युतिः

12.326.71

तथा बलाद् अहं पृथ्वीं सर्वभूतहिताय वै ॥

12.326.72

सत्त्वैर् आक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम्
आनयिष्यामि स्वं स्थानं वाराहं रूपम् आस्थितः ॥

12.326.73

हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम्
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥

12.326.74

विरोचनस्य बलवान् बलिः पुत्रो महासुरः

12.326.74

भविष्यति स शक्रं च स्वराज्याच् च्यावयिष्यति ॥

12.326.75

त्रैलोक्ये ऽपहृते तेन विमुखे च शचीपतौ
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपात् ॥

12.326.76

ततो राज्यं प्रदास्यामि शक्राया-मिततेजसे
देवताः स्थापयिष्यामि स्वेषु स्थानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम् ॥

12.326.77

त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः

12.326.77

क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥

12.326.78

संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च
रामो दाशरथिर् भूत्वा भविष्यामि जगत्पतिः ॥

12.326.79

त्रितोपघाताद् वैरूप्यम् एकतो ऽथ द्वितस् तथा
प्राप्स्यतो वानरत्वं हि प्रजापतिसुताव् ऋषी ॥

12.326.80

तयोर् ये त्व् अन्वये जाता भविष्यन्ति वनौकसः

12.326.80

ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥

12.326.81

ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम्
हनिष्ये रावणं संख्ये सगणं लोककण्टकम् ॥

12.326.82

द्वापरस्य कलेश् चैव संधौ पर्यवसानिके
प्रादुर्भावः कंसहेतोर् माथुरायां भविष्यति ॥

12.326.83

तत्राहं दानवान् हत्वा सुबहून् देवकण्टकान्
कुशस्थलीं करिष्यामि निवासं द्वारकां पुरीम् ॥

12.326.84

वसानस् तत्र वै पुर्याम् अदितेर् विप्रियंकरम्
हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥

12.326.85

प्राग्ज्योतिषपुरं रम्यं नानाधनसमन्वितम्
कुशस्थलीं नयिष्यामि हत्वा वै दानवोत्तमान् ॥

12.326.86

शंकरं च महासेनं बाणप्रियहितैषिणम्
पराजेष्याम्य् अथोद्युक्तौ देवलोकनमस्कृतौ ॥

12.326.87

ततः सुतं बलेर् जित्वा बाणं बाहुसहस्रिणम्
विनाशयिष्यामि ततः सर्वान् सौभनिवासिनः ॥

12.326.88

यः कालयवनः ख्यातो गर्गतेजोअभिसंवृतः
भविष्यति वधस् तस्य मत्त एव द्विजोत्तम ॥

12.326.89

जरासंधश् च बलवान् सर्वराजविरोधकः
भविष्यत्य् असुरः स्फीतो भूमिपालो गिरिव्रजे
मम बुद्धिपरिस्पन्दाद् वधस् तस्य भविष्यति ॥

12.326.90

समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायो वै मम ह्य् एको भविष्यति ॥

12.326.91

एवं लोका वदिष्यन्ति नरनारायणाव् ऋषी
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थम् ईश्वरौ ॥

12.326.92

कृत्वा भारावतरणं वसुधाया यथेप्सितम्

12.326.92

सर्वसात्वतमुख्यानां द्वारकायाश् च सत्तम
करिष्ये प्रलयं घोरम् आत्मज्ञातिविनाशनम् ॥

12.326.93

कर्माण्य् अपरिमेयानि चतुर्मूर्तिधरो ह्य् अहम्
कृत्वा लोकान् गमिष्यामि स्वान् अहं ब्रह्मसत्कृतान् ॥

12.326.94

हंसो हयशिराश् चैव प्रादुर्भावा द्विजोत्तम

12.326.94

यदा वेदश्रुतिर् नष्टा मया प्रत्याहृता तदा
सवेदाः सश्रुतीकाश् च कृताः पूर्वं कृते युगे ॥

12.326.95

अतिक्रान्ताः पुराणेषु श्रुतास् ते यदि वा क्वचित्
अतिक्रान्ताश् च बहवः प्रादुर्भावा ममोत्तमाः
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ॥

12.326.96

न ह्य् एतद् ब्रह्मणा प्राप्तम् ईदृशं मम दर्शनम्
यत् त्वया प्राप्तम् अद्येह एकान्तगतबुद्धिना ॥

12.326.97

एतत् ते सर्वम् आख्यातं ब्रह्मन् भक्तिमतो मया
पुराणं च भविष्यं च सरहस्यं च सत्तम ॥

12.326.98

एवं स भगवान् देवो विश्वमूर्तिधरो ऽव्ययः
एतावद् उक्त्वा वचनं तत्रैवान्तरधीयत ॥

12.326.99

नारदो ऽपि महातेजाः प्राप्यानुग्रहम् ईप्सितम्
नरनारायणौ द्रष्टुं प्राद्रवद् बदराश्रमम् ॥

12.326.100

इदं महोपनिषदं चतुर्वेदसमन्वितम्
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥

12.326.101

नारायणमुखोद्गीतं नारदो ऽश्रावयत् पुनः
ब्रह्मणः सदने तात यथा दृष्टं यथा श्रुतम् ॥

12.326.102

एतद् आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं ब्रह्मा न विजानीते यतः शुश्राव नारदात् ॥

12.326.103

पितामहो हि भगवांस् तस्माद् देवाद् अनन्तरः
कथं स न विजानीयात् प्रभावम् अमितौजसः ॥

12.326.104

महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश् च प्रलयाश् च ह ॥

12.326.105

सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः
जानाति देवप्रवरं भूयश् चातो ऽधिकं नृप_2
परम् आत्मानम् ईशानम् आत्मनः प्रभवं तथा ॥

12.326.106

ये त्व् अन्ये ब्रह्मसदने सिद्धसंघाः समागताः
तेभ्यस् तच् छ्रावयाम् आस पुराणं वेदसंमितम् ॥

12.326.107

तेषां सकाशात् सूर्यश् च श्रुत्वा वै भावितात्मनाम्
आत्मानुगामिनां ब्रह्म श्रावयाम् आस भारत ॥

12.326.108

षट्षष्टिर् हि सहस्राणि ऋषीणां भावितात्मनाम्
सूर्यस्य तपतो लोकान् निर्मिता ये पुरःसराः
तेषाम् अकथयत् सूर्यः सर्वेषां भावितात्मनाम् ॥

12.326.109

सूर्यानुगामिभिस् तात ऋषिभिस् तैर् महात्मभिः
मेरौ समागता देवाः श्राविताश् चेदम् उत्तमम् ॥

12.326.110

देवानां तु सकाशाद् वै ततः श्रुत्वासितो द्विजः
श्रावयाम् आस राजेन्द्र पितॄणां मुनिसत्तमः ॥

12.326.111

मम चापि पिता तात कथयाम् आस शंतनुः
ततो मयैतच् छ्रुत्वा च कीर्तितं तव भारत ॥

12.326.112

सुरैर् वा मुनिभिर् वापि पुराणं यैर् इदं श्रुतम्
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥

12.326.113

इदम् आख्यानम् आर्षेयं पारंपर्यागतं नृप_2
ना-वासुदेवभक्ताय त्वया देयं कथंचन ॥

12.326.114

मत्तो ऽन्यानि च ते राजन्न् उपाख्यानशतानि वै
यानि श्रुतानि धर्म्याणि तेषां सारो ऽयम् उद्धृतः ॥

12.326.115

सुरासुरैर् यथा राजन् निर्मथ्या-मृतम् उद्धृतम्
एवम् एतत् पुरा विप्रैः कथा-मृतम् इहोद्धृतम् ॥

12.326.116

यश् चेदं पठते नित्यं यश् चेदं शृणुयान् नरः
एकान्तभावोपगत एकान्ते सुसमाहितः ॥

12.326.117

प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः
स सहस्रार्चिषं देवं प्रविशेन् नात्र संशयः ॥

12.326.118

मुच्येद् आर्तस् तथा रोगाच् छ्रुत्वेमाम् आदितः कथाम्
जिज्ञासुर् लभते कामान् भक्तो भक्तगतिं व्रजेत् ॥

12.326.119

त्वयापि सततं राजन्न् अभ्यर्च्यः पुरुषोत्तमः

12.326.119

स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥

12.326.120

ब्रह्मण्यदेवो भगवान् प्रीयतां ते सनातनः
युधिष्ठिर महाबाहो महाबाहुर् जनार्दनः ॥

12.326.121

श्रुत्वैतद् आख्यानवरं धर्मराड् जनमेजय
भ्रातरश् चास्य ते सर्वे नारायणपराअभवन् ॥

12.326.122

जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीम् उदीरयन् ॥

12.326.123

यो ह्य् अस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः
स जगौ परमं जप्यं नारायणम् उदीरयन् ॥

12.326.124

गत्वान्तरिक्षात् सततं क्षीरोदम् अमृताशयम्
पूजयित्वा च देवेशं पुनर् आयात् स्वम् आश्रमम् ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc