भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.324

12.324.1

यदा भक्तो भगवत आसीद् राजा महावसुः
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥

12.324.2

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम्
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥

12.324.3

अजेन यष्टव्यम् इति देवाः प्राहुर् द्विजोत्तमान्
स च छागो ह्य् अजो ज्ञेयो नान्यः पशुर् इति स्थितिः ॥

12.324.4

ऋषय ऊचुः: बीजैर् यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः
अजसंज्ञानि बीजानि छागं न घ्नन्तुम् अर्हथ ॥

12.324.5

नैष धर्मः सतां देवा यत्र वध्येत वै पशुः
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः ॥

12.324.6

तेषां संवदताम् एवम् ऋषीणां विबुधैः सह
मार्गागतो नृप_2-श्रेष्ठस् तं देशं प्राप्तवान् वसुः
अन्तरिक्षचरः श्रीमान् समग्रबलवाहनः ॥

12.324.7

तं दृष्ट्वा सहसायान्तं वसुं ते त्व् अन्तरिक्षगम्_1
ऊचुर् द्विजातयो देवान् एष छेत्स्यति संशयम् ॥

12.324.8

यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः
कथं स्विद् अन्यथा ब्रूयाद् वाक्यम् एष महान् वसुः ॥

12.324.9

एवं ते संविदं कृत्वा विबुधा ऋषयस् तथा
अपृच्छन् सहसाभ्येत्य वसुं राजानम् अन्तिकात् ॥

12.324.10

भो राजन् केन यष्टव्यम् अजेनाहो स्विद् औषधैः
एतन् नः संशयं छिन्धि प्रमाणं नो भवान् मतः ॥

12.324.11

स तान् कृताञ्जलिर् भूत्वा परिपप्रच्छ वै वसुः
कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ॥

12.324.12

ऋषय ऊचुः: धान्यैर् यष्टव्यम् इत्य् एष पक्षो ऽस्माकं नराधिप
देवानां तु पशुः पक्षो मतो राजन् वदस्व नः ॥

12.324.13

देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्
छागेनाजेन यष्टव्यम् एवम् उक्तं वचस् तदा ॥

12.324.14

कुपितास् ते ततः सर्वे मुनयः सूर्यवर्चसः
ऊचुर् वसुं विमानस्थं देवपक्षार्थवादिनम् ॥

12.324.15

सुरपक्षो गृहीतस् ते यस्मात् तस्माद् दिवः पत
अद्यप्रभृति ते राजन् नाकाशे विहिता गतिः
अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ॥

12.324.16

ततस् तस्मिन् मुहूर्ते ऽथ राजोपरिचरस् तदा
अधो वै संबभूवाशु भूमेर् विवरगो_1 नृपः_2
स्मृतिस् त्व् एनं न प्रजहौ तदा नारायणाज्ञया ॥

12.324.17

देवास् तु सहिताः सर्वे वसोः शापविमोक्षणम्
चिन्तयाम् आसुर् अव्यग्राः सुकृतं हि नृपस्य_2 तत् ॥

12.324.18

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना
अस्य प्रतिप्रियं कार्यं सहितैर् नो दिवौकसः ॥

12.324.19

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयम् ईश्वराः
ऊचुस् तं हृष्टमनसो राजोपरिचरं तदा ॥

12.324.20

ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम्
कामं स तव तुष्टात्मा कुर्याच् छापविमोक्षणम् ॥

12.324.21

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्
अवश्यं तपसा तेषां फलितव्यं नृप_2-उत्तम ॥

12.324.22

यतस् त्वं सहसा भ्रष्ट आकाशान् मेदिनीतलम्

12.324.22

एकं त्व् अनुग्रहं तुभ्यं दद्मो वै नृप_2-सत्तम ॥

12.324.23

यावत् त्वं शापदोषेण कालम् आसिष्यसे ऽनघ
भूमेर् विवरगो_1 भूत्वा तावन्तं कालम् आप्स्यसि
यज्ञेषु सुहुतां विप्रैर् वसोर्धारां महात्मभिः ॥

12.324.24

प्राप्स्यसे ऽस्मदनुध्यानान् मा च त्वां ग्लानिर् आस्पृशेत्
न क्षुत्पिपासे राजेन्द्र भूमेश् च्छिद्रे भविष्यतः ॥

12.324.25

वसोर्धारानुपीतत्वात् तेजसाप्यायितेन च

12.324.25

स देवो ऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति ॥

12.324.26

एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः

12.324.26

गताः स्वभवनं देवा ऋषयश् च तपोधनाः ॥

12.324.27

चक्रे च सततं पूजां विष्वक्सेनाय भारत
जप्यं जगौ च सततं नारायणमुखोद्गतम् ॥

12.324.28

तत्रापि पञ्चभिर् यज्ञैः पञ्चकालान् अरिंदम
अयजद् धरिं सुरपतिं भूमेर् विवरगो_1 ऽपि सन् ॥

12.324.29

ततो ऽस्य तुष्टो भगवान् भक्त्या नारायणो हरिः
अनन्यभक्तस्य सतस् तत्परस्य जितात्मनः ॥

12.324.30

वरदो भगवान् विष्णुः समीपस्थं द्विजोत्तमम्
गरुत्मन्तं महावेगम् आबभाषे स्मयन्न् इव ॥

12.324.31

द्विजोत्तम महाभाग गम्यतां वचनान् मम
सम्राड् राजा वसुर् नाम धर्मात्मा मां समाश्रितः ॥

12.324.32

ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्
मानितास् ते तु विप्रेन्द्रास् त्वं तु गच्छ द्विजोत्तम ॥

12.324.33

भूमेर् विवरसंगुप्तं गरुडेह ममाज्ञया
अधश्चरं नृप_2-श्रेष्ठं खेचरं कुरु माचिरम् ॥

12.324.34

गरुत्मान् अथ विक्षिप्य पक्षौ मारुतवेगवान्
विवेश विवरं भूमेर् यत्रास्ते वाग्यतो वसुः ॥

12.324.35

तत एनं समुत्क्षिप्य सहसा विनतासुतः

12.324.35

उत्पपात नभस् तूर्णं तत्र चैनम् अमुञ्चत ॥

12.324.36

तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरः पुनः
सशरीरो गतश् चैव ब्रह्मलोकं नृप_2-उत्तमः ॥

12.324.37

एवं तेनापि कौन्तेय वाग्दोषाद् देवताज्ञया
प्राप्ता गतिर् अयज्वार्हा द्विजशापान् महात्मना ॥

12.324.38

केवलं पुरुषस् तेन सेवितो हरिर् ईश्वरः
ततः शीघ्रं जहौ शापं ब्रह्मलोकम् अवाप च ॥

12.324.39

एतत् ते सर्वम् आख्यातं ते भूता मानवा यथा
नारदो ऽपि यथा श्वेतं द्वीपं स गतवान् ऋषिः
तत् ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृ

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc