भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.323

12.323.1

ततो ऽतीते महाकल्पे उत्पन्ने ऽङ्गिरसः सुते
बभूवुर् निर्वृता देवा जाते देवपुरोहिते ॥

12.323.2

बृहद् ब्रह्म महच् चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन् गुणैर् विद्वान् बृहस्पतिः ॥

12.323.3

तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस् तदा शास्त्रं सम्यक् चित्रशिखण्डिजम् ॥

12.323.4

स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयाम् आस पृथिवीं दिवम् आखण्डलो यथा ॥

12.323.5

तस्य यज्ञो महान् आसीद् अश्वमेधो महात्मनः
बृहस्पतिर् उपाध्यायस् तत्र होता बभूव ह ॥

12.323.6

प्रजापतिसुताश् चात्र सदस्यास् त्व् अभवंस् त्रयः
एकतश् च द्वितश् चैव त्रितश् चैव महर्2षयः ॥

12.323.7

धनुषाक्षो ऽथ रैभ्यश् च अर्वावसुपरावसू
ऋषिर् मेधातिथिश् चैव ताण्ड्यश् चैव महान् ऋषिः ॥

12.323.8

ऋषिः शक्तिर् महाभागस् तथा वेदशिराश् च यः
कपिलश् च ऋषिश्रेष्ठः शालिहोत्रपितामहः ॥

12.323.9

आद्यः कठस् तैत्तिरिश् च वैशंपायनपूर्वजः
कण्वो ऽथ देवहोत्रश् च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास् तस्मिन् राजन् महाक्रतौ ॥

12.323.10

न तत्र पशुघातो ऽभूत् स राजैवं स्थितो ऽभवत्
अहिंस्रः शुचिर् अक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास् तत्रोपकल्पिताः ॥

12.323.11

प्रीतस् ततो ऽस्य भगवान् देवदेवः पुरातनः
साक्षात् तं दर्शयाम् आस सो ऽदृश्यो ऽन्येन केनचित् ॥

12.323.12

स्वयं भागम् उपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥

12.323.13

बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः
आकाशं घ्नन् स्रुवः पातै रोषाद् अश्रूण्य् अवर्तयत् ॥

12.323.14

उवाच चोपरिचरं मया भागो ऽयम् उद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥

12.323.15

उद्यता यज्ञभागा हि साक्षात् प्राप्ताः सुरैर् इह
किमर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः ॥

12.323.16

ततः स तं समुद्धूतं भूमिपालो महान् वसुः
प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः ॥

12.323.17

ऊचुश् चैनम् असंभ्रान्ता न रोषं कर्तुम् अर्हसि

12.323.17

नैष धर्मः कृतयुगे यस् त्वं रोषम् अचीकृथाः ॥

12.323.18

अरोषणो ह्य् असौ देवो यस्य भागो ऽयम् उद्यतः
न स शक्यस् त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥

12.323.19

एकतद्वितत्रिता ऊचुः: वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदाचिद् दिशम् उत्तराम् ॥

12.323.20

तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक् काष्ठभूताः समाहिताः ॥

12.323.21

मेरोर् उत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस् तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्व् इति ॥

12.323.22

ततो व्रतस्यावभृथे वाग् उवाचा-शरीरिणी

12.323.22

सुतप्तं वस् तपो विप्राः प्रसन्नेनान्तरात्मना ॥

12.323.23

यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेर् उत्तरतः श्वेतद्वीपो महाप्रभः ॥

12.323.24

तत्र नारायणपरा मानवाश् चन्द्रवर्चसः
एकान्तभावोपगतास् ते भक्ताः पुरुषोत्तमम् ॥

12.323.25

ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥

12.323.26

एकान्तिनस् ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस् तत्रात्मा मे प्रकाशितः ॥

12.323.27

अथ श्रुत्वा वयं सर्वे वाचं ताम् अशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ॥

12.323.28

प्राप्य श्वेतं महाद्वीपं तच्चित्तास् तद्दिदृक्षवः

12.323.28

ततो नो दृष्टिविषयस् तदा प्रतिहतो ऽभवत् ॥

12.323.29

न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुर् अभवद् विज्ञानं देवयोगजम् ॥

12.323.30

न किला-तप्ततपसा शक्यते द्रष्टुम् अञ्जसा
ततः पुनर् वर्षशतं तप्त्वा तात्कालिकं महत् ॥

12.323.31

व्रतावसाने सुशुभान् नरान् ददृशिरे वयम्
श्वेतांश् चन्द्रप्रतीकाशान् सर्वलक्षणलक्षितान् ॥

12.323.32

नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान्
मानसो नाम स जपो जप्यते तैर् महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥

12.323.33

या भवेन् मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक् साभवन् मानवस्य ह ॥

12.323.34

तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश्चित् सर्वे ते समतेजसः_1 ॥

12.323.35

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तः स्म पुनर् एव बृहस्पते ॥

12.323.36

सहिताश् चाभ्यधावन्त ततस् ते मानवा द्रुतम्
कृताञ्जलिपुटाः हृष्टा नम इत्य् एव वादिनः ॥

12.323.37

ततो ऽभिवदतां तेषाम् अश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर् नरैः ॥

12.323.38

वयं तु तेजसा तस्य सहसा हृतचेतसः
न किंचिद् अपि पश्यामो हतदृष्टिबलेन्द्रियाः ॥

12.323.39

एकस् तु शब्दो ऽविरतः श्रुतो ऽस्माभिर् उदीरितः

12.323.39

जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन ॥

12.323.40

नमस् ते ऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतो ऽस्माभिः शिक्षा-क्षरसमीरितः ॥

12.323.41

एतस्मिन्न् अन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्य् उवाह पुष्पाणि कर्मण्याश् चौषधीस् तथा ॥

12.323.42

तैर् इष्टः_2 पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः
नूनं तत्रागतो देवो यथा तैर् वाग् उदीरिता

12.323.42

वयं त्व् एनं न पश्यामो मोहितास् तस्य मायया ॥

12.323.43

मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाताः स्मो ऽङ्गिरसां वर ॥

12.323.44

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान् न कश्चिन् मनसा चक्षुषा वाप्य् अपूजयत् ॥

12.323.45

ते ऽपि स्वस्था मुनिगणा एकभावम् अनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावम् अनुष्ठिताः ॥

12.323.46

ततो ऽस्मान् सुपरिश्रान्तांस् तपसा चापि कर्शितान्
उवाच खस्थं किमपि भूतं तत्रा-शरीरकम् ॥

12.323.47

दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियवर्जिताः
दृष्टो भवति देवेश एभिर् दृष्टैर् द्विजोत्तमाः ॥

12.323.48

गच्छध्वं मुनयः सर्वे यथागतम् इतो ऽचिरात्
न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन ॥

12.323.49

कामं कालेन महता एकान्तित्वं समागतैः
शक्यो द्रष्टुं स भगवान् प्रभामण्डलदुर्दृशः ॥

12.323.50

महत् कार्यं तु कर्तव्यं युष्माभिर् द्विजसत्तमाः
इतः कृतयुगे ऽतीते विपर्यासं गते_1 ऽपि च ॥

12.323.51

वैवस्वते ऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥

12.323.52

ततस् तद् अद्भुतं वाक्यं निशम्यैवं स्म सोमप_1
तस्य प्रसादात् प्राप्ताः स्मो देशम् ईप्सितम् अञ्जसा ॥

12.323.53

एवं सुतपसा चैव हव्यकव्यैस् तथैव च
देवो ऽस्माभिर् न दृष्टः स कथं त्वं द्रष्टुम् अर्हसि
नारायणो महद् भूतं विश्वसृग् घव्यकव्यभुक् ॥

12.323.54

एवम् एकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश् च बृहस्पतिर् उदारधीः
समानीय ततो यज्ञं दैवतं समपूजयत् ॥

12.323.55

समाप्तयज्ञो राजापि प्रजाः पालितवान् वसुः
ब्रह्मशापाद् दिवो भ्रष्टः प्रविवेश महीं ततः ॥

12.323.56

अन्तर्भूमिगतश् चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जगौ ॥

12.323.57

तस्यैव च प्रसादेन पुनर् एवोत्थितस् तु सः
महीतलाद् गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिम् अनुप्राप्त इति नैष्ठिकम् अञ्जसा ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc