भाषा

ENहिગુ
ग्रंथ पाठ

नारायणीय · अध्याय 12.322

12.322.1

स एवम् उक्तो द्विपदां वरिष्ठो
नारायणेनोत्तमपुरुषेण
जगाद वाक्यं द्विपदां वरिष्ठं
नारायणं लोकहिताधिवासम्

12.322.2

यदर्थम् आत्मप्रभवेह जन्म
तवोत्तमं धर्मगृहे चतुर्धा
तत् साध्यतां लोकहितार्थम् अद्य
गच्छामि द्रष्टुं प्रकृतिं तवाद्याम्

12.322.3

वेदाः स्वधीता मम लोकनाथ
तप्तं तपो नानृतम् उक्तपूर्वम्
पूजां गुरूणां सततं करोमि
परस्य गुह्यं न च भिन्नपूर्वम्

12.322.4

गुप्तानि चत्वारि यथागमं मे
शत्रौ च मित्रे च समो ऽस्मि नित्यम्
तं चादिदेवं सततं प्रपन्न
एकान्तभावेन वृणोम्य् अजस्रम्
एभिर् विशेषैः परिशुद्धसत्त्वः
कस्मान् न पश्येयम् अनन्तम् ईशम्

12.322.5

तत् पारमेष्ठ्यस्य वचो निशम्य
नारायणः सात्वतधर्मगोप्ता

12.322.5

गच्छेति तं नारदम् उक्तवान् स
संपूजयित्वात्मविधिक्रियाभिः

12.322.6

ततो विसृष्टः परमेष्ठिपुत्रः
सो ऽभ्यर्चयित्वा तम् ऋषिं पुराणम्
खम् उत्पपातोत्तमवेगयुक्तस्
ततो ऽधिमेरौ सहसा निलिल्ये

12.322.7

तत्रावतस्थे च मुनिर् मुहूर्तम्
एकान्तम् आसाद्य गिरेः स शृङ्गे
आलोकयन्न् उत्तरपश्चिमेन
ददर्श चात्यद्भुतरूपयुक्तम्

12.322.8

क्षीरोदधेर् उत्तरतो हि द्वीपः
श्वेतः स नाम्ना प्रथितो विशालः
मेरोः सहस्रैः स हि योजनानां
द्वात्रिंशतोर्ध्वं कविभिर् निरुक्तः

12.322.9

अतीन्द्रियाश् चानशनाश् च तत्र
निष्पन्दहीनाः सुसुगन्धिनश् च
श्वेताः पुमांसो गतसर्वपापाश्
चक्षुर्मुषः पापकृतां नराणाम्

12.322.10

वज्रास्थिकायाः सममानोन्माना
दिव्यान्वयरूपाः शुभसारोपेताः
छत्त्राकृतिशीर्षा मेघौघनिनादाः
सत्पुष्करचतुष्का राजीवशतपादाः

12.322.11

षष्ट्या दन्तैर् युक्ताः शुक्लैर् अष्टाभिर् दंष्ट्राभिर् ये
जिह्वाभिर् ये विष्वग्वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम् ॥

12.322.12

भक्त्या देवं विश्वोत्पन्नं यस्मात् सर्वे लोकाः सूताः
वेदा धर्मा मुनयः शान्ता देवाः सर्वे तस्य विसर्गाः ॥

12.322.13

अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
कथं ते पुरुषा जाताः का तेषां गतिर् उत्तमा ॥

12.322.14

ये विमुक्ता भवन्तीह नरा भरतसत्तम
तेषां लक्षणम् एतद् धि यच् छ्वेतद्वीपवासिनाम् ॥

12.322.15

तस्मान् मे संशयं छिन्धि परं कौतूहलं हि मे
त्वं हि सर्वकथारामस् त्वां चैवोपाश्रिता वयम् ॥

12.322.16

विस्तीर्णैषा कथा राजञ् श्रुता मे पितृसंनिधौ
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ॥

12.322.17

राजोपरिचरो नाम बभूवाधिपतिर् भुवः
आखण्डलसखः ख्यातो भक्तो नारायणं हरिम् ॥

12.322.18

धार्मिको नित्यभक्तश् च पितॄन् नित्यम् अतन्द्रितः
साम्राज्यं तेन संप्राप्तं नारायणवरात् पुरा ॥

12.322.19

सात्वतं विधिम् आस्थाय प्राक्सूर्यमुखनिःसृतम्
पूजयाम् आस देवेशं तच्छेषेण पितामहान् ॥

12.322.20

पितृशेषेण विप्रांश् च संविभज्याश्रितांश् च सः
शेषान्नभुक् सत्यपरः सर्वभूतेष्व् अहिंसकः
सर्वभावेन भक्तः स देवदेवं जनार्दनम् ॥

12.322.21

तस्य नारायणे भक्तिं वहतो ऽमित्रकर्शन
एकशय्यासनं शक्रो दत्तवान् देवराट् स्वयम् ॥

12.322.22

आत्मा राज्यं धनं चैव कलत्रं वाहनानि च
एतद् भगवते सर्वम् इति तत् प्रेक्षितं सदा ॥

12.322.23

काम्यनैमित्तिका-जस्रं यज्ञियाः परमक्रियाः
सर्वाः सात्वतम् आस्थाय विधिं चक्रे समाहितः ॥

12.322.24

पञ्चरात्रविदो मुख्यास् तस्य गेहे महात्मनः
प्रायणं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ॥

12.322.25

तस्य प्रशासतो राज्यं धर्मेणा-मित्रघातिनः
नानृता वाक् समभवन् मनो दुष्टं न चाभवत्
न च कायेन कृतवान् स पापं परम् अण्व् अपि ॥

12.322.26

ये हि ते मुनयः ख्याताः सप्त चित्रशिखण्डिनः
तैर् एकमतिभिर् भूत्वा यत् प्रोक्तं शास्त्रम् उत्तमम् ॥

12.322.27

मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
वसिष्ठश् च महातेजा एते चित्रशिखण्डिनः ॥

12.322.28

सप्त प्रकृतयो ह्य् एतास् तथा स्वायंभुवो ऽष्टमः
एताभिर् धार्यते लोकस् ताभ्यः शास्त्रं विनिःसृतम् ॥

12.322.29

एकाग्रमनसो दान्ता मुनयः संयमे रताः

12.322.29

इदं श्रेय इदं ब्रह्म इदं हितम् अनुत्तमम्
लोकान् संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ॥

12.322.30

तत्र धर्मार्थकामा हि मोक्षः पश्चाच् च कीर्तितः
मर्यादा विविधाश् चैव दिवि भूमौ च संस्थिताः ॥

12.322.31

आराध्य तपसा देवं हरिं नारायणं प्रभुम्
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥

12.322.32

नारायणानुशास्ता हि तदा देवी सरस्वती
विवेश तान् ऋषीन् सर्वांल् लोकानां हितकाम्यया ॥

12.322.33

ततः प्रवर्तिता सम्यक् तपोविद्भिर् द्विजातिभिः
शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥

12.322.34

आदाव् एव हि तच् छास्त्रम् ओंकारस्वरभूषितम्
ऋषिभिर् भावितं तत्र यत्र कारुणिको ह्य् असौ ॥

12.322.35

ततः प्रसन्नो भगवान् अनिर्दिष्टशरीरगः_1
ऋषीन् उवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः ॥

12.322.36

कृतं शतसहस्रं हि श्लोकानाम् इदम् उत्तमम्
लोकतन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते ॥

12.322.37

प्रवृत्तौ च निवृत्तौ च योनिर् एतद् भविष्यति
ऋग्यजुःसामभिर् जुष्टम् अथर्वाङ्गिरसैस् तथा ॥

12.322.38

तथाप्रमाणं हि मया कृतो ब्रह्मा प्रसादजः
रुद्रश् च क्रोधजो विप्रा यूयं प्रकृतयस् तथा ॥

12.322.39

सूर्याचन्द्रमसौ वायुर् भूमिर् आपो ऽग्निर् एव च
सर्वे च नक्षत्रगणा यच् च भूताभिशब्दितम् ॥

12.322.40

अधिकारेषु वर्तन्ते यथास्वम् ब्रह्मवादिनः
सर्वे प्रमाणं हि यथा तथैतच् छास्त्रम् उत्तमम् ॥

12.322.41

भविष्यति प्रमाणं वै एतन् मदनुशासनम्
अस्मात् प्रवक्ष्यते धर्मान् मनुः स्वायंभुवः स्वयम् ॥

12.322.42

उशना बृहस्पतिश् चैव यदोत्पन्नौ भविष्यतः
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिर् उद्धृतम् ॥

12.322.43

स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते
बृहस्पतिमते_1 चैव लोकेषु प्रविचारिते ॥

12.322.44

युष्मत्कृतम् इदं शास्त्रं प्रजापालो वसुस् ततः
बृहस्पतिसकाशाद् वै प्राप्स्यते द्विजसत्तमाः ॥

12.322.45

स हि मद्भावितो राजा मद्भक्तश् च भविष्यति
तेन शास्त्रेण लोकेषु क्रियाः सर्वाः करिष्यति ॥

12.322.46

एतद् धि सर्वशास्त्राणां शास्त्रम् उत्तमसंज्ञितम्
एतद् अर्थ्यं च धर्म्यं च यशस्यं चैतद् उत्तमम् ॥

12.322.47

अस्य प्रवर्तनाच् चैव प्रजावन्तो भविष्यथ
स च राजा श्रिया युक्तो भविष्यति महान् वसुः ॥

12.322.48

संस्थिते तु नृपे_2 तस्मिञ् शास्त्रम् एतत् सनातनम्
अन्तर् धास्यति तत् सत्यम् एतद् वः कथितं मया ॥

12.322.49

एतावद् उक्त्वा वचनम् अदृश्यः पुरुषोत्तमः
विसृज्य तान् ऋषीन् सर्वान् कामपि प्रस्थितो दिशम् ॥

12.322.50

ततस् ते लोकपितरः सर्वलोकार्थचिन्तकाः
प्रावर्तयन्त तच् छास्त्रं धर्मयोनिं सनातनम् ॥

12.322.51

उत्पन्ने आङ्गिरसे चैव युगे प्रथमकल्पिते
साङ्गोपनिषदं शास्त्रं स्थापयित्वा बृहस्पतौ ॥

12.322.52

जग्मुर् यथेप्सितं देशं तपसे कृतनिश्चयाः
धारणात् सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥

मूल पाठ: Nārāyaṇīya (Mahābhārata 12.321-339) · Edition: Reinhold Grünendahl; Angelika Malinar; Thomas Oberlies; Peter Schreiner: Narayaniya-Studien. Herausgegeben von Peter Schreiner. Wiesbaden: Harrassowitz, 1997. (Purana Research Publications Tuebingen 5) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc