भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 7

7.1

मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः
एतद् आख्याहि मे सूत त्वयैतत् सूचितं पुरा ॥

7.2

इदं तु महद् आख्यानं भरद्वाज शृणुष्व मे
शृण्वन्तु ऋषयश् चेमे पुरावृत्तं ब्रवीम्य् अहम् ॥

7.3

कुरुक्षेत्रे महापुण्ये व्यासपीठे वराश्रमे
तत्रासीनं मुनिवरं कृष्णद्वैपायनं मुनिम् ॥

7.4

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतम्
वेदवेदार्थतत्त्वज्ञं सर्वशास्त्रविशारदम् ॥

7.5

प्रणिपत्य यथान्यायं शुकः परमधार्मिकः
इमम् एवार्थम् उद्दिश्य तं पप्रच्छ कृताञ्जलिः ॥

7.6

यम् उद्दिश्य वयं पृष्टास् त्वयात्र मुनिसंनिधौ
नरसिंहस्य भक्तेन कृततीर्थनिवासिना ॥

7.7

मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः
एतद् आख्याहि मे तात श्रोतुम् इच्छामि ते ऽधुना ॥

7.8

मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः
तथा ते कथयिष्यामि शृणु वत्स महामते ॥

7.9

शृण्वन्तु मुनयश् चेमे कथ्यमानं मयाधुना
मच्छिष्याश् चैव शृण्वन्तु महद् आख्यानम् उत्तमम् ॥

7.10

भृगोः ख्यात्यां समुत्पन्नो मृकण्डुर् नाम वै सुतः
सुमित्रा नाम वै पत्नी मृकण्डोस् तु महात्मनः ॥

7.11

धर्मज्ञा धर्मनिरता पतिशुश्रूषणे रता
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥

7.12

भृगुपौत्रो महाभागो बालत्वे ऽपि महामतिः
ववृधे वल्लभो बालः पित्रा तत्र कृतक्रियः ॥

7.13

तस्मिन् वै जातमात्रे तु आगमी कश्चिद् अब्रवीत्
वर्षे द्वादशमे पूर्णे मृत्युर् अस्य भविष्यति ॥

7.14

श्रुत्वा तन्मातृपितरौ दुःखितौ तौ बभूवतुः
विदूयमानहृदयौ तं निरीक्ष्य महामते ॥

7.15

तथापि तत्पिता तस्य यत्नात् काले क्रियां ततः
चकार सर्वां मेधावी उपनीतो गुरोर् गृहे ॥

7.16

वेदान् एवाभ्यसन्न् आस्ते गुरुशुश्रूषणोद्यतः
स्वीकृत्य वेदशास्त्राणि स पुनर् गृहम् आगतः ॥

7.17

मातापितृन् नमस्कृत्य पादयोर् विनयान्वितः
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महामुनिः ॥

7.18

तं निरीक्ष्य महात्मानं सत्प्रज्ञं च विचक्षणम्
दुःखितौ तौ भृशं तत्र तन्मातापितरौ शुचा ॥

7.19

तौ दृष्ट्वा दुःखम् आपन्नौ मार्कण्डेयो महामतिः
उवाच वचनं तत्र किमर्थं दुःखम् ईदृशम् ॥

7.20

सदैतत् कुरुषे मातस् तातेन सह धीमता
वक्तुम् अर्हसि दुःखस्य कारणं मम पृच्छतः ॥

7.21

इत्युक्ता तेन पुत्रेण माता तस्य महात्मनः
कथयाम्_अस तत् सर्वम् आगमी यद् उवाच ह ॥

7.22

तच् छ्रुत्वासौ मुनिः प्राह मातरं पितरं पुनः
पित्रा सार्धं त्वया मातर् न कार्यं दुःखम् अण्व् अपि ॥

7.23

अपनेष्यामि भो मृत्युं तपसा नात्र संशयः
यथा चाहं चिरायुः स्यां तथा कुर्याम् अहं तपः ॥

7.24

इत्य् उक्त्वा तौ समाश्वास्य पितरौ वनम् अभ्यगात्
वल्लीवटं नाम वनं नानाऋषिनिषेवितम् ॥

7.25

तत्रासौ मुनिभिः सार्धम् आसीनं स्वपितामहम्
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥

7.26

अभिवाद्य यथान्यायं मुनींश् चैव स धार्मिकः
कृताञ्जलिपुटो भूत्वा तस्थौ तत्पुरतो दमी ॥

7.27

गतायुषं ततो दृष्ट्वा पौत्रं बालं महामतिः
भृगुर् आह महाभागं मार्कण्डेयं तदा शिशुम् ॥

7.28

किमागतो ऽसि पुत्रात्र पितुस् ते कुशलं पुनः
मातुश् च बान्धवानां च किम् आगमनकारणम् ॥

7.29

इत्य् एवम् उक्तो भृगुणा मार्कण्डेयो महामतिः
उवाच सकलं तस्मै आदेशिवचनं तदा ॥

7.30

पौत्रस्य वचनं श्रुत्वा भृगुस् तु पुनर् अब्रवीत्
एवं सति महाबुद्धे किं त्वं कर्म चिकीर्षसि ॥

7.31

भूतापहारिणं मृत्युं जेतुम् इच्छामि सांप्रतम्
शरणं त्वां प्रपन्नो ऽस्मि तत्रोपायं वदस्व नः ॥

7.32

नारायणम् अनाराध्य तपसा महता सुत
को जेतुं शक्नुयान् मृत्युं तस्मात् तं तपसार्चय ॥

7.33

तम् अनन्तम् अजं विष्णुम् अच्युतं पुरुषोत्तमम्
भक्तप्रियं सुरश्रेष्ठं भक्त्या त्वं शरणं व्रज ॥

7.34

तम् एव शरणं पूर्वं गतवान् नारदो मुनिः
तपसा महता वत्स नारायणम् अनामयम् ॥

7.35

तत्प्रसादान् महाभाग नारदो ब्रह्मणः सुतः
जरां मृत्युं विजित्याशु दीर्घायुर् वर्धते सुखम् ॥

7.36

तम् ऋते पुण्डरीकाक्षं नारसिंहं जनार्दनम्
कः कुर्यान् मानवो वत्स मृत्युसत्तानिवारणम् ॥

7.37

तम् अनन्तम् अजं विष्णुं कृष्णं जिष्णुं श्रियः पतिम्
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥

7.38

नरसिंहं महादेवं यदि पूजयसे सदा
वत्स जेतासि मृत्युं त्वं सततं नात्र संशयः ॥

7.39

उक्तः पितामहेनैवं भृगुणा पुनर् अब्रवीत्
मार्कण्डेयो महातेजा विनयात् स्वपितामहम् ॥

7.40

आराध्यः कथितस् तात विष्णुर् विश्वेश्वरः प्रभुः
कथं कुत्र मया कार्यम् अच्युताराधनं गुरो
येनासौ मम तुष्टस् तु मृत्युं सद्यो ऽपनेष्यति ॥

7.41

तुङ्गभद्रेति विख्याता या नदी सह्यपर्वते
तत्र भद्रवटे वत्स त्वं प्रतिष्ठाप्य केशवम् ॥

7.42

आराधय जगन्नाथं गन्धपुष्पादिभिः क्रमात्
हृदि कृत्वेन्द्रियग्रामं मनः संयम्य तत्त्वतः ॥

7.43

हृत्पुण्डरीके देवेशं शङ्खचक्रगदाधरम्
ध्यायन्न् एकमना वत्स द्वादशाक्षरम् अभ्यसन् ॥

7.44

इमं मन्त्रं हि जपतो देवदेवस्य शार्ङ्गिणः
प्रीतो भवति विश्वात्मा मृत्युं येनापनेष्यति ॥

7.45

इत्युक्तस् तं प्रणम्याथ स जगाम तपोवनम् ॥

7.46

सह्यपादोद्भवायास् तु भद्रायास् तटम् उत्तमम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥

7.47

गुल्मवेणुलताकीर्णं नानामुनिजनाकुलम्
तत्र विष्णुं प्रतिष्ठाप्य गन्धधूपादिभिः क्रमात् ॥

7.48

पूजयाम्_अस देवेशं मार्कण्डेयो महामुनिः
पूजयित्वा हरिं तत्र तपस् तेपे सुदुष्करम् ॥

7.49

निराहारो मुनिस् तत्र वर्षम् एकम् अतन्द्रितः
मात्रोक्तकाले त्व् आसन्ने दिने तत्र महामतिः ॥

7.50

स्नात्वा यथोक्तविधिना कृत्वा विष्णोस् तथार्चनम्
हृदि कृत्वेन्द्रियग्रामं विशुद्धेनान्तरात्मना ॥

7.51

आसनं स्वस्तिकं बद्ध्वा कृत्वासौ प्राणसंयमम्
ओंकारोच्चारणाद् धीमान् हृत्पद्मं स विकासयन् ॥

7.52

तन्मध्ये रविसोमाग्नि मण्डलानि यथाक्रमम्
कल्पयित्वा हरेः पीठं तस्मिन् देशे सनातनम् ॥

7.53

पीताम्बरधरं कृष्णं शङ्खचक्रगदाधरम्
भावपुष्पैः समभ्यर्च्य मनस् तस्मिन् निवेश्य च ॥

7.54

ब्रह्मरूपं हरिं ध्यायंस् ततो मन्त्रम् उदीरयत्
ओं नमो भगवते वासुदेवाय ॥

7.55

इत्य् एवं ध्यायतस् तस्य मार्कण्डेयस्य धीमतः
मनस् तत्रैव संलग्नं देवदेवे जगत्पतौ ॥

7.56

ततो यमाज्ञया तत्र आगता यमकिंकराः
पाशहस्तास् तु तं नेतुं विष्णुदूतैस् तु ते हताः ॥

7.57

शूलैः प्रहन्यमानास् तु द्विजं मुक्त्वा ययुस् तदा
वयं निवर्त्य गच्छामो मृत्युर् एवागमिष्यति ॥

7.58

यत्र नः स्वामिनो नाम लोकनाथस्य शार्ङ्गिणः
को यमस् तत्र मृत्युर् वा कालः कलयतां वरः ॥

7.59

आगत्य स्वयम् एवाह मृत्युः पार्श्वं महात्मनः
मार्कण्डेयस्य बभ्राम विष्णुकिंकरशङ्कया ॥

7.60

ते ऽप्य् उद्यम्याशु मुशलान् आयसान् विष्णुकिंकराः
विष्ण्वाज्ञया हनिष्यामो मृत्युम् अद्येति संस्थिताः ॥

7.61

ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः
तुष्टाव प्रणतो भूत्वा देवदेवं जनार्दनम् ॥

7.62

विष्णुनैवोदितं यत् तत् स्तोत्रं कर्णे महात्मनः
सुभाषितेन मनसा तेन तुष्टाव माधवम् ॥

7.63

नारायणं सहस्राक्षं पद्मनाभं पुरातनम्
प्रणतो ऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥

7.64

गोविन्दं पुण्डरीकाक्षम् अनन्तम् अजम् अव्ययम्
केशवं च प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.65

वासुदेवं जगद्योनिं भानुवर्णम् अतीन्द्रियम्
दामोदरं प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.66

शङ्खचक्रधरं देवं छन्नरूपिणम् अव्ययम्
अधोक्षजं प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.67

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्
माधवं च प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.68

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम्
लोकनाथं प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.69

भूतात्मानं महात्मानं जगद्योनिम् अयोनिजम्
विश्वरूपं प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.70

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्
महायोगं प्रपन्नो ऽस्मि किं मे मृत्युः करिष्यति ॥

7.71

इत्य् उदीरितम् आकर्ण्य स्तोत्रं तस्य महात्मनः
अपयातस् ततो मृत्युर् विष्णुदूतैश् च पीडितः ॥

7.72

इति तेन जितो मृत्युर् मार्कण्डेयेन धीमता
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥

7.73

मृत्युंजयम् इदं पुण्यं मृत्युप्रशमनं शुभम्
मार्कण्डेयहितार्थाय स्वयं विष्णुर् उवाच ह ॥

7.74

य इदं पठेते भक्त्या त्रिकालं नियतः शुचिः
नाकाले तस्य मृत्युः स्यान् नरस्याच्युतचेतसः ॥

7.75

हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतम् आदिदेवम्
संचिन्त्य सूर्याद् अपि राजमानं मृत्युं स योगी जितवांस् तदैव ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc