नरसिंहपुराण · अध्याय 6
सृष्टिस् ते कथिता विष्णोर् मयास्य जगतो द्विज
देवदानवयक्षाद्या यथोत्पन्ना महात्मनः ॥
यम् उद्दिश्य त्वया पृष्टः पुराहम् ऋषिसंनिधौ
मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं त्व् इति ॥
तद् इदं कथयिष्यामि पुण्याख्यानं पुरातनम्
शृणुष्वैकाग्रमनसा भरद्वाज विशेषतः ॥
सर्वधर्मार्थतत्त्वज्ञः सर्ववेदविदां वरः
पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥
तेन दत्ताः शुभाः कन्याः सर्वाः कमललोचनाः
सर्वलक्षणसंपूर्णाः कश्यपाय त्रयोदश ॥
तासां नामानि वक्ष्यामि निबोधत ममाधुना
अदितिर् दितिर् दनुः काला मुहूर्ता सिंहिका मुनिः ॥
इरा क्रोधा च सुरभिर् विनता सुरसा खसा
कद्रू सरमा चैव या तु देवशुनी स्मृता ॥
दक्षस्यैता दुहितरस् ताः प्रादात् कश्यपाय सः
तासां ज्येष्ठा वरिष्ठा च अदितिर् नामतो द्विज ॥
अदितिः सुषुवे पुत्रान् द्वादशाग्निसमप्रभान्
तेषां नामानि वक्ष्यामि शृणुष्व गदतो मम ॥
यैर् इदं वासरं नक्तं वर्तते क्रमशः सदा
भगो ऽंशुस् त्व् अर्यमा चैव मित्रो ऽथ वरुणस् तथा ॥
सविता चैव धाता च विवस्वांश् च महामते
त्वष्टा पूषा तथैवेन्द्रो विष्णुर् द्वादशमः स्मृतः ॥
एते च द्वादशादित्यास् तपन्ते वर्षयन्ति च
तस्याश् च मध्यमः पुत्रो वरुणो नाम नामतः ॥
लोकपाल इति ख्यातो वारुण्यां दिशि शब्द्यते
पश्चिमस्य समुद्रस्य प्रतीच्यां दिशि राजते ॥
जातरूपमयः श्रीमान् आस्ते नाम शिलोच्चयः
सर्वरत्नमयैः शृङ्गैर् धातुप्रस्रवणान्वितैः ॥
संयुक्तो भाति शैलेशो नानारत्नमयः शुभः
महादरीगुहाभिश् च सिंहशार्दूलनादितः ॥
नानाविविक्तभूमीषु सिद्धगन्धर्वसेवितः
यस्मिन् गते दिनकरे तमसापूर्यते जगत् ॥
तस्य शृङ्गे महादिव्या जाम्बूनदमयी शुभा
रम्या मणिमयैः स्तम्भैर् विहिता विश्वकर्मणा ॥
पुरी विश्वावती नाम समृद्धा भोगसाधनैः
तस्यां वरुण आदित्यो दीप्यमानः स्वतेजसा ॥
पाति सर्वान् इमांल् लोकान् नियुक्तो ब्रह्मणा स्वयम्
उपास्यमानो गन्धर्वैस् तथैवाप्सरसां गणैः ॥
दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः
कदाचिद् वरुणो यातो मित्रेण सहितो वनम् ॥
कुरुक्षेत्रे शुभे रम्ये सदा ब्रह्मर्षिसेविते
नानापुष्पफलोपेते नानातीर्थसमाकुले ॥
आश्रमा यत्र दृश्यन्ते मुनीनाम् ऊर्ध्वरेतसाम्
तस्मिंस् तीर्थे समाश्रित्य बहुपुष्पफलोदके ॥
चीरकृष्णाजिनधरौ चरन्तौ तप उत्तमम्
तत्रैकस्मिन् वनोद्देशे विमलोदो ह्रदः शुभः ॥
बहुगुल्मलताकीर्णो नानापक्षिनिषेवितः
नानातरुवनच्छन्नो नलिन्या चोपशोभितः ॥
पौण्डरीक इति ख्यातो मीनकच्छपसेवितः
ततस् तु मित्रावरुणौ भ्रातरौ वनचारिणौ
तं तु देशं गतौ देवौ विचरन्तौ यदृच्छया ॥
ताभ्यां तत्र तदा दृष्टा उर्वशी तु वराप्सराः
स्नायन्ती सहितान्याभिः सखीभिः सा वरानना
गायन्ती च हसन्ती च विश्वस्ता निर्जने वने ॥
गौरी कमलगर्भाभा स्निग्धकृष्णशिरोरुहा
पद्मपत्रविशालाक्षी रक्तौष्ठी मृदुभाषिणी ॥
शङ्खकुन्देन्दुधवलैर् दन्तैर् अविरलैः समैः
सुभ्रूः सुनासा सुमुखी सुललाटा मनस्विनी ॥
सिंहवत्सूक्ष्ममध्याङ्गी पीनोरुजघनस्तनी
मधुरालापचतुरा सुमध्या चारुहासिनी ॥
रक्तोत्पलकरा तन्वी सुपदी विनयान्विता
पूर्णचन्द्रनिभा बाला मत्तद्विरदगामिनी ॥
दृष्ट्वा तस्यास् तु तद् रूपं तौ देवौ विस्मयं गतौ
तस्या हास्येन लास्येन स्मितेन ललितेन च ॥
मृदुना वायुना चैव शीतानिलसुगन्धिना
मत्तभ्रमरगीतेन पुंस्कोकिलरुतेन च ॥
सुस्वरेण हि गीतेन उर्वश्या मधुरेण च
ईक्षितो च कटाक्षेण स्कन्दतुस् ताव् उभाव् अपि
निमेः शापाद् अथोत्क्रम्य स्वदेहान् मुनिसत्तम ॥
वसिष्ठ मित्रावरुणात्मजो ऽसीत्य् अथोचुर् आगत्य हि विश्वदेवाः
रेतस् त्रिभागं कमले ऽचरत् तद् वसिष्ठ एवं तु पितामहोक्तेः ॥
त्रिधा समभवद् रेतः कमले ऽथ स्थले जले
अरविन्दे वसिष्ठस् तु जातः स मुनिसत्तमः
स्थले त्व् अगस्त्यः संभूतो जले मत्स्यो महाद्युतिः ॥
स तत्र जातो मतिमान् वसिष्ठः कुम्भे त्व् अगस्त्यः सलिले ऽथ मत्स्यः
स्थानत्रये तत् पतितं समानं मित्रस्य यस्माद् वरुणस्य रेतः ॥
एतस्मिन्न् एव काले तु गता सा उर्वसी दिवम्
उपेत्य तान् ऋषीन् देवौ गतौ भूयः स्वम् आश्रमम्
यमाव् अपि तु तप्येते पुनर् उग्रं परं तपः ॥
तपसा प्राप्तुकामौ तौ परं ज्योतिः सनातनम्
तपस्यन्तौ सुरश्रेष्ठौ ब्रह्मागत्येदम् अब्रवीत् ॥
मित्रावरुणकौ देवौ पुत्रवन्तौ महाद्युती
सिद्धिर् भविष्यति यथा युवयोर् वैष्णवी पुनः ॥
स्वाधिकारेण स्थीयेताम् अधुना लोकसाक्षिकौ
इत्य् उक्त्वान्तर्दधे ब्रह्मा तौ स्थितौ स्वाधिकारकौ ॥
एवं ते कथितं विप्र वसिष्ठस्य महात्मनः
मित्रावरुणपुत्रत्वम् अगस्त्यस्य च धीमतः ॥
इदं पुंसीयम् आख्यानं वारुणं पापनाशनम्
पुत्रकामास् तु ये केचिच् *छृण्वन्तीदं शुचिव्रताः
अचिराद् एव पुत्रांस् ते लभन्ते नात्र संशयः ॥
यश् चैतत् पठते नित्यं हव्यकव्ये द्विजोत्तमः
देवाश् च पितरस् तस्य तृप्ता यान्ति परं सुखम् ॥
यश् चैतच् छृणुयान् नित्यं प्रातर् उत्थाय मानवः
नन्दते स सुखं भूमौ विष्णुलोकं स गच्छति ॥
इत्य् एतद् आख्यानम् इदं मयेरितं पुरातनं वेदविदैर् उदीरितम्
पठिष्यते यस् तु शृणोति सर्वदा स याति शुद्धो हरिलोकम् अञ्जसा ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0