भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 8

8.1

मृत्युश् च किंकराश् चैव विष्णुदूतैः प्रपीडिताः
स्वराज्ञस् ते ऽनु निर्वेशं गत्वा ते चुक्रुशुर् भृशम् ॥

8.2

शृणु राजन् वचो ऽस्माकं तवाग्रे यद् ब्रवीमहे
त्वदादेशाद् वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥

8.3

ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तम
तं ध्यायमानं कमपि देवम् एकाग्रमानसम् ॥

8.4

गन्तुं न शक्तास् तत्पार्श्वं वयं सर्वे महामते
यावत् तावन् महाकायैः पुरुषैर् मुशलैर् हताः ॥

8.5

वयं निवृत्तास् तद् वीक्ष्य मृत्युस् तत्र गतः पुनः
अस्मान् निर्भर्त्स्य तत्रायं तैर् नरैर् मुशलैर् हतः ॥

8.6

एवम् अत्र तम् आनेतुं ब्राह्मणं तपसि स्थितम्
अशक्ता वयम् एवात्र मृत्युना सह वै प्रभो ॥

8.7

तद् ब्रवीहि महाभाग यद् ब्रह्म ब्राह्मणस्य तु
देवं कं ध्यायते विप्रः के वा ते यैर् हता वयम् ॥

8.8

इत्युक्तः किंकरैः सर्वैर् मृत्युना च महामते
ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥

8.9

शृण्वन्तु किंकराः सर्वे मृत्युश् चान्ये च मे वचः
सत्यम् एतत् प्रवक्ष्यामि ज्ञानं यद् योगमार्गतः ॥

8.10

भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः
स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥

8.11

भृगुणोक्तेन मार्गेण स तेपे परमं तपः
हरिम् आराध्य मेधावी जपन् वै द्वादशाक्षरम् ॥

8.12

एकाग्रेणैव मनसा ध्यायते हृदि केशवम्
सततं योगयुक्तस् तु स मुनिस् तत्र किंकराः ॥

8.13

हरिध्यानमहादीक्षा बलं तस्य महामुनेः
नान्यद् वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥

8.14

हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले
पश्यन् तं विष्णुभूतं नु को हि स्यात् केशवाश्रयम् ॥

8.15

ते ऽपि वै पुरुषा विष्णोर् यैर् यूयं ताडिता भृशम्
अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥

8.16

न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः
भवतां जीवनं चित्रं यक्षैर् दत्तं कृपालुभिः ॥

8.17

नारायणपरं विप्रं कस् तं वीक्षितुम् उत्सहेत्
युष्माभिश् च महापापैर् मार्कण्डेयं हरिप्रियम्
समानेतुं कृतो यत्नः समीचीनं न तत् कृतम् ॥

8.18

नरसिंहं महादेवं ये नराः पर्युपासते
तेषां पार्श्वे न गन्तव्यं युष्माभिर् मम शासनात् ॥

8.19

स एवं किंकरान् उक्त्वा मृत्युं च पुरतः स्थितम्
यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥

8.20

कृपया परया युक्तो विष्णुभक्त्या विशेषतः
जनस्यानुग्रहार्थाय तेनोक्ताश् च गिरः शृणु ॥

8.21

नरके पच्यमानस्य यमेन परिभाषितम्
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥

8.22

उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः
यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥

8.23

नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः
स्मरणान् मुक्तिदो नृणां स त्वया किं न पूजितः ॥

8.24

इत्य् उक्त्वा नारकान् सर्वान् पुनर् आह स किंकरान्
वैवस्वतो यमः साक्षाद् विष्णुभक्तिसमन्वितः ॥

8.25

नारदाय स विश्वात्मा प्राहैवं विष्णुर् अव्ययः
अन्येभ्यो वैष्णवेभ्यश् च सिद्धेभ्यः सततं श्रुतम् ॥

8.26

तद् वः प्रीत्या प्रवक्ष्यामि हरिवाक्यम् अनुत्तमम्
शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः ॥

8.27

हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः
जलं भित्त्वा यथा पद्मं नरकाद् उद्धराम्य् अहम् ॥

8.28

पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम
त्वाम् अहं शरणं प्राप्त इति यस् तं समुद्धरे ॥

8.29

त्वां प्रपन्नो ऽस्मि शरणं देवदेव जनार्दन
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥

8.30

इत्य् उदीरितम् आकर्ण्य हरिवाक्यं यमेन च
नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः ॥

8.31

यथा यथा हरेर् नाम कीर्तयन्त्य् अत्र नारकाः
तथा तथा हरेर् भक्तिम् उद्वहन्तो ऽब्रुवन्न् इदम् ॥

8.32

ओं नमो भगवते तस्मै केशवाय महात्मने
यन्नामकीर्तनात् सद्यो नरकाग्निः प्रशाम्यति ॥

8.33

भक्तप्रियाय देवाय रक्षाय हरये नमः
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥

8.34

अनन्तायाप्रमेयाय नरसिंहाय ते नमः
नारायणाय गुरवे शङ्खचक्रगदाभृते ॥

8.35

वेदप्रियाय महते विक्रमाय नमो नमः
वाराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥

8.36

नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥

8.37

बलिबन्धनदक्षाय वेदपालाय ते नमः
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥

8.38

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥

8.39

रामाय रावणान्ताय नमस् तुभ्यं महात्मने
अस्मान् उद्धर गोविन्द पूतिगन्धान् नमो ऽस्तु ते ॥

8.40

इति संकीर्तिते विष्णौ नारकैर् भक्तिपूर्वकम्
तदा सा नारकी पीडा गता तेषां महात्मनाम् ॥

8.41

कृष्णरूपधराः सर्वे दिव्यवस्त्रविभूषिताः
दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः ॥

8.42

तान् आरोप्य विमानेषु दिव्येषु हरिपूरुषाः
तर्जयित्वा यमभटान् नीतास् ते केशवालयम् ॥

8.43

नारकेषु च सर्वेषु नीतेषु हरिपूरुषैः
विष्णुलोकं यमो भूयो नमश् चक्रे तदा हरिम् ॥

8.44

यन्नामकीर्तनाद् याता नारकाः केशवालयम्
तं नमामि सदा देवं नरसिंहम् अहं गुरुम् ॥

8.45

तस्य वै नरसिंहस्य विष्णोर् अमिततेजसः
प्रणामं ये ऽपि कुर्वन्ति तेभ्यो ऽपीह नमो नमः ॥

8.46

दृष्ट्वा प्रशान्तं नरकाग्निम् उग्रं यन्त्रादि सर्वं विपरीतम् अत्र
पुनः स शिक्षार्थम् अथात्मदूतान् यमो हि वक्तुं कृतवान् मनः स्वयम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc